कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शरीर

śarīraक्ली · neut.

In 17 kośas: 18 synonym verses, 36 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.122
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.510 · p. 58
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.130 · p. 34
अङ्गं क्लीबे तनुः सान्तं गात्रं पञ्जरमस्त्रियाम् ।स्कन्धश्च संचरो न स्त्री शरीरं कायमस्त्रियाम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 213
मूर्तिस्तनूस्तनुश्च स्त्री कुडिः सान्तं तनुर्न ना ।शरीर-देहे अस्त्रीके तत्तु शस्तं वपुष्टमम् ॥ ४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.60 · p. 114
genderपुंक्लीm. n.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderक्लीneut.
एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।"सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् ।द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 39 · p. 19
कलेवरं शरीरं च मूर्तिः अस्मिन् भवः सुतः ।पुत्रः सूनुरपत्यं च तुक् तोकं चात्मजः प्रजा ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.228 · p. 129
विग्रहः संचरो वेरं मूर्तिः कायघनावपि ।क्षेत्रगात्रशरीराणि वर्ष्मसंहनने समे ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.157 · p. 230
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.98 · p. 7
आत्मा गात्रं तनुः पिण्डं शरीरं पाञ्चभौतिकम् ।पर्वलेखाऽङ्गुलिग्रन्थिः पार्वी मुद्राङ्गुलीयके ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.19 · p. 21
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.616 · p. 137
शरीरः करणं देहश्चेति नामप्रयोगतः कथ्यते ।
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.264 · p. 100
तथाङ्गं स्यादपघनः प्रतीकावयवौ तथा ।शरीरं विग्रहं वर्ष्म गात्रं संहननं वपुः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1061 · p. 132
शरीरमङ्गेऽवयवप्रतीकापघनास्त्रयः ।अस्त्रियामङ्घ्रिचरणौ पादः पत् पदमस्य तु ॥ १०६१ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.19 · p. 52
जिह्वामलं तु कुलुकं पिप्पिका दन्तजे मले ।पिण्डोऽस्त्रियां कुलं क्षेत्रं शरीरं स्कन्धपञ्जरौ ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.52 · p. 177
देहोऽस्त्री स्त्री तनुर्गात्रं क्षेत्रमङ्गं कलेबरम् ।चतुश्शाखं संहननं शरीरं करणं सिनम् ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.

शरीर as a meaning in nānārtha verses