कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मण्डूकी

maṇḍūkīस्त्री · fem.

In 7 kośas: 8 synonym verses, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.523 · p. 307
मण्डूकपर्णी मण्डूकी विक्रान्ता सुरसम्भवा ।सौरीसुतेजार्कहिता डोडिर्डेडी क्षुपात्पुनः ॥ ५२३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 161
मण्डूकपर्णी मण्डूकी रविवल्ली वरौषधी ।सुवर्चलार्कभक्ता च वरदा मूलपर्ण्यपि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 161
कपोतवङ्का मण्डूकी ब्राह्मणी दर्दुरच्छदा ।मण्डूकपर्णी मत्स्याक्षी लावण्या च महौषधी ।हिलमोची शङ्खधरा जलब्रह्मी झषाण्डिका ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 258
तलमध्ये क्षीरिका स्त्री मण्डूकी क्षीपिकान्तरे ।पृष्ठाधरे तु नीरोधः पार्श्वे त्वस्य च मांसले ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.345 · p. 186
अजाण्डी च ऋक्षगन्धा स्यादन्तःकोटकपुष्प्यपि ।सुवर्चलायां मण्डूकी बदराऽऽदित्यवल्लभा ॥ ३४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1369 · p. 167
शाकटायन आहैनं मण्डूकस्तु द्वयोरयम् ।भेकेऽपि पिकभेदे च मण्डूकी तु स्त्रियामियम् ॥ १३६९ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.64 · p. 131
तत्पत्न्यां स्यात्तु मण्डूकी शिली च कमठी डुली(लिः?) ।प्लवी गण्डूपदी भेकी वर्षाभ्वी रटनप्रिया ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.338 · p. 45
मण्डूके भेकवर्षाभूशालूरप्लवदर्दुराः ।मण्डूकी दर्दुरी भेकी वर्षाभ्वी कमठी दुलिः ॥ ३३८ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1370 · p. 167
गजस्यापरपादस्य कृतस्य दशधा तथा ।उपरिष्टात् समारभ्य तुर्यभागे तथैव च ॥ १३७० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1371 · p. 167
मण्डूकपर्ण्यामप्याह रभसः शब्दवित्तमः ।लाङ्गलावयवस्यापि भेदेऽथो राजरक्षिभिः ॥ १३७१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.119 · p. 184
मण्डूको मुनिभेदे च स्यात् शोसाके गाटतेजसि ।भेके मण्डूकपर्ण्यान्तु मण्डूकी धृष्टयोषिति ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्