कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nighaṇṭuśeṣa

निघण्टुशेष Nighaṇṭuśeṣa

401 verses · 3,129 words tagged · 646 marked doubtful (dashed)

शाककाण्डः

इत्याचार्यश्रीहेमचन्द्रविरचिते निषण्टुशेषे तृतीयो लताकाण्डः ।

शतपुष्पायां तु घोषा शताह्वा माधवी मिसिः ।अतिच्छत्रा छत्रपुष्प्यवाक्पुष्पा कारवी सहा ॥ ३३६ ॥
4.336 · p. 182
अनुष्टुप्
जीरके तु कणाऽजाजी जरणः कणजीरकः ।कृष्णेऽस्मिन् कारवी पृथ्वी सुगन्धा सुषवी पृथुः ॥ ३३७ ॥
4.337 · p. 182
अनुष्टुप्
कुञ्ची कालोपकालोपकुञ्चिकोत्कुञ्चिकाऽपि च ।रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ ३३८ ॥
4.338 · p. 183
अनुष्टुप्
महाकन्दोऽपरोऽप्येष गृञ्जनो दीर्घपत्रकः ।पलाण्डौ यवनेष्टः स्यात् सुकन्दो वक्त्रदूषणः ॥ ३३९ ॥
4.339 · p. 183
अनुष्टुप्
हरणः स तु हरितो लतार्को दुर्द्रुमोऽपि च ।सप्तलायां बहुफेना सातला विमला मता ॥ ३४० ॥
4.340 · p. 184
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable); pāda 3, syllable 6 हु (wrong syllable)
सारी मरालिका दीप्ता फेना चर्मकसा यवा ।प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ ३४१ ॥
4.341 · p. 185
अनुष्टुप्
भद्रबला भद्रलता भद्रकाली महाबला ।सारणा सरणा सुप्रसारा राजबला च सा ॥ ३४२ ॥
4.342 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द्र (wrong syllable)
ब्राह्म्यां वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी ।सरस्वती सत्यवती सुस्वरा ब्रह्मचारिणी ॥ ३४३ ॥
4.343 · p. 186
अनुष्टुप्
सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः ।वृद्धदारके त्वावेगी जीर्णवालकजुङ्गकौ ॥ ३४४ ॥
4.344 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
अजाण्डी च ऋक्षगन्धा स्यादन्तःकोटकपुष्प्यपि ।सुवर्चलायां मण्डूकी बदराऽऽदित्यवल्लभा ॥ ३४५ ॥
4.345 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मण्डूकपर्ण्यर्कभक्ताऽऽदित्यवल्ली सुखोद्भवा ।भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ ३४६ ॥
4.346 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भृ (wrong syllable)
अङ्गारको भेकरजो भृङ्गी मार्कव इत्यपि ।कासमर्दे त्वरिमर्दः कालं कनककर्कशौ ॥ ३४७ ॥
4.347 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
वास्तुके तु शाकज्येष्ठः प्रवालः क्षारपत्रकः ।शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ ३४८ ॥
4.348 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
पालङ्क्यायां तु पालक्या क्षुरिका मधुसूदनी ।जीवन्त्यां स्याज्जीवनीया जीवनी जीववर्धनी ॥ ३४९ ॥
4.349 · p. 188
अनुष्टुप्
मङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी ।स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ ३५० ॥
4.350 · p. 189
अनुष्टुप्
अम्बष्ठाऽम्बोटिका दन्तशठा लोलाऽम्ललोलिका ।नरेन्द्रमाला क्षुद्राम्ली चतुष्पर्णी च लोणिका ॥ ३५१ ॥
4.351 · p. 189
अनुष्टुप्
तण्डुलीये मेघनादस्तण्डुली तण्डुलेरकः ।गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः ॥ ३५२ ॥
4.352 · p. 190
अनुष्टुप्
शमठे तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी ।समष्ठिला शोषहरी जलापामार्ग ओलकः ॥ ३५३ ॥
4.353 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
अन्यस्तु स्थलगण्डीरः कर्बरष्टक्वदेशजः ।काकमाच्यां तु कामाची काकसाह्वा च वायसी ॥ ३५४ ॥
4.354 · p. 191
अनुष्टुप्
श्रीहस्तिन्यां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः ।सुनिषण्णे सूचिपत्रः स्वस्तिकः शितिवारकः ॥ ३५५ ॥
4.355 · p. 191
अनुष्टुप्
श्रीवारकः शितिवरो वितुन्नः कुक्कटः शितिः ।मूलके तु महाकन्दो रुचिष्यो हस्तिदन्तकः ॥ ३५६ ॥
4.356 · p. 191
अनुष्टुप्
वस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः ।चाणक्यमूलके शालामर्कटो मरुसम्भवः ॥ ३५७ ॥
4.357 · p. 192
अनुष्टुप्
विष्णुगुप्तमतो मिश्रो वालेयो मर्कटोऽपि च ।हिलमोच्यां शङ्खधरा जलब्राह्मी च मोचिका ॥ ३५८ ॥
4.358 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
कलम्ब्यां तु शतपर्वा कडम्बी वायसी च सा ।कारवेल्ले तु सुषवी कटिल्लो मृदुपर्णकः ॥ ३५९ ॥
4.359 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
पटोले तु पाण्डुफलः कुलकः कर्कशच्छदः ।राजीफलः कफहरो राजमान्योऽमृताफलः ॥ ३६० ॥
4.360 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
कर्कोटे तु किलासघ्नस्तिक्तपत्रः सुगन्धकः ।कूष्माण्डके तु कर्कारुः कालिङ्ग्यां बहुपुत्रिका ॥ ३६१ ॥
4.361 · p. 194
अनुष्टुप्
तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला ।अलाबूः क्षत्रियवरा कटुका लाबुनी च सा ॥ ३६२ ॥
4.362 · p. 194
अनुष्टुप्
चिर्भिट्यां त्रपुसी वालुङ्क्येर्वारुर्व्याडपत्रिका ।ऊर्वारुः कर्कटी मूत्रफला राजादनी लता ॥ ३६३ ॥
4.363 · p. 195
अनुष्टुप्
छर्दनी च विपाण्डुश्च तस्याः पक्वफलं स्फुटी ।कूर्चके शृङ्गकः सर्जो दीर्घायुः कूर्चशीर्षकः ॥ ३६४ ॥
4.364 · p. 195
अनुष्टुप्
मङ्गल्यनामधेयश्च जीवकः प्रियजीवकः ।ह्रस्वाङ्गको मधुरकः प्राणकश्चिरजीव्यपि ॥ ३६५ ॥
4.365 · p. 195
अनुष्टुप्
पुष्करमूले स्यान्मूलं वीरं पुष्करनामकम् ।पौष्करं पुष्करजटा कश्मीरं पद्मवर्णकम् ॥ ३६६ ॥
4.366 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्क (wrong syllable)
वस्तगन्धयां सुगन्धा खरपुष्पी शकम्भरा ।कबरी बर्बरी तुङ्गी पूतिमयूर इत्यपि ॥ ३६७ ॥
4.367 · p. 196
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्ध (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
बिम्ब्यां रक्तफला गोल्हा प्रवालफलघोषिका ।ओष्ठोपमफला तुण्डी तुण्डिका पीलुपर्ण्यपि ॥ ३६८ ॥
4.368 · p. 197
अनुष्टुप्