महिर
mahiraपुं · masc.In 3 kośas: 3 synonym verses.
सप्ताश्वो मिहिरश्च शूर-महिरौ पीथो द्युवा दर्शतःभासन्तः सहुरिर्भुवन्यु-तपुषौ पूषा च दोषान्तकृत् ।हंसो हेलिरहर्पतिर्ग्रहपतिः स्याद्भापतिर्गोपतिः ।स्यूनोऽन्नः किरणोंऽशुमान्कमलिनीकान्तो भगोऽहस्करः ॥ २९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
भासन्तो भासयन्तोऽगो नगवत् तरु-शैलयोः ।भुजगेऽप्यंशुराशुश्च महिरो मिहिरस्तथा ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
मालिनी
genderपुंmasc.