शूर
śūraपुं · masc.In 22 kośas: 36 synonym verses, 3 as a nānārtha head word, 22 as a meaning of another word.
शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः ।दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ ३६५ ॥
अनुष्टुप्
genderविadj.
genderविadj.
शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥
अनुष्टुप्
genderपुंmasc.
ते च मूर्धन्यषे आहुः केचित्तालव्यशे अपि ।सूरः शूरोऽपि (सुरोऽपि?) सूर्ये स्यात् तपनस्तापनस्तथा ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्मणस्तूर्मिलाकान्तो महेन्द्रद्वेषिसूदनः ।अनिद्रः सुन्दरः शूरो लक्ष्मीवान् लक्ष्मिवर्धनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्जस्व्यूर्जस्वलोत्यन्तबलपर्यायवत्यपि ।विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६ ॥
अनुष्टुप्
genderविadj.
वल्ली च कोलवल्ली स्याद्वशिरः कृकरः पुमान् ।तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
सिद्धिदः सालनिर्यासो यक्षधूपोऽग्निवल्लभः ।दिव्यसारः सुरेष्टः स्याच्छूरोऽथ जरणद्रुमः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
खड्गो वाध्रीणसः क्रोडी मालशृङ्गो वलीत्यपि ।खड्गी शूरोऽप्यथोष्ट्रोग्रे प्रोक्तो गौर्महिषोऽपि च ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः ।रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
घृणिः पीथः प्रतिदिवाऽहर्नटो धरुणोऽपि च ।खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गवेराम्रतीराणां पुष्करागारयोरपि ।नागरोत्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
सप्ताश्वो मिहिरश्च शूर-महिरौ पीथो द्युवा दर्शतःभासन्तः सहुरिर्भुवन्यु-तपुषौ पूषा च दोषान्तकृत् ।हंसो हेलिरहर्पतिर्ग्रहपतिः स्याद्भापतिर्गोपतिः ।स्यूनोऽन्नः किरणोंऽशुमान्कमलिनीकान्तो भगोऽहस्करः ॥ २९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कुशिकः स्यात्स्नेहकरोऽश्वकर्णस्त्वेष शैलजः ।सस्यसंवरणः शूरश्चीरिपत्रो गुरुच्छदः ॥[31b]तार्क्ष्यहृद्दीर्घपत्रः स्यात्पीतसालस्तु बीजकः ।जीवकः प्रियकः काम्यो भवेद्बन्धूकपुष्पकः ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्ने (wrong syllable)
genderपुंmasc.
शूरः सूरश्चारभटो वीरो विक्रान्त इत्यपि ।भडिलौजसिकौ यस्तु याति विद्विषतः प्रति ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
अश्वकर्णे दीर्घपत्रः कषायी सस्यसंवरः ।सज्जकः सर्जकः शूरः कार्शः शालो लतातरुः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
शूरो वीरश्च विक्रान्तो भटश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयजित्वरौ ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्जस्फूर्जस्वी तरस्वी तेजस्वी च मनस्व्यपि ।भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
विक्रान्तसुभटौ वीरः शूरचारभटौ स्मृतौ ।कातरो भीरुको भीतश्चकितो भीरुभीलुकौ ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
बाहुलेयः शक्तिधरः शूरः स्कन्दो बुधाधिपः ।विष्णु संकर्षणः कृष्णः पुरातनचिरन्तनौ ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
शूरो वीरश्चारभटो विक्रान्तः सुभटो बली ।कातरो भीरुको भीरुः कांदिशीको भयद्रुतः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
genderविadj.
मथुरेशो द्वारकेशो रन्तिदेवो वृषाकपिः ।वसुदेवः कृष्णपिता शूर आनकदुन्दुभिः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कृ (wrong syllable)
genderपुंmasc.
सूर्यः सूरोऽर्घमादित्यः शूरो भानुर्विभावसुः ।दिवाकरो द्वादशात्मा विवस्वान् भास्करोऽरुणः ॥
अनुष्टुप्
genderपुंmasc.
अत्यर्थगतिशीलस्तु जनोऽत्यन्तीन उच्यते ।वीरे विक्रान्तशूरौ च जिष्णुर्जेता च जित्वरः ॥
अनुष्टुप्
genderपुंmasc.
महावीरः स वीरश्च, तुर्यार्हन्तस्य वप्तरि ।दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सु (wrong syllable)
genderपुंmasc.
सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरकौ ।कातरे भीरुको भीरुर्भीलुकस्वस्नु-त्रस्तकौ ॥ १९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्गि (wrong syllable); pāda 4, syllable 5 स्नु (wrong syllable)
genderपुंmasc.
शूरस्तु वीरविक्रान्तौ जितकाशी जिताहवः ।घातकनृशंसहिंस्रव्यापादकशरारुघातुकक्रूराः ॥ १३७३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
तीक्ष्णा च लोहितः शूरो दक्षपाणि(र्श्व)श्च पार्थिवः ।पद्मेशो नान्तिमः फादिः प-कारोऽपि प्रकीर्त्तितः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
उमाकान्तो नरकजिद्रविः शूरस्त्रिरेखकः ।निर्वाणस्त्रिगुणो दक्षपादाग्रश्च ण-कारकः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
तीक्ष्णा द्विरण्डः पद्मेशो नान्तिमः शूर-लोहितौ ।दक्षपार्श्वगतः फादिः प्रचण्डश्च प-कारकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
मालिनी
genderपुंmasc.
संचारास्त्वपरे चाराः स्थिताः संस्थाचरेषु ये ।तीक्ष्णोऽतिहिंसनः शूरश्छत्री छद्मप्रधारवान् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शूरो वीरश्च विक्रान्तः पटुश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयिजित्वरौ ॥ १४७ ॥
अनुष्टुप्
genderविadj.
सांवत्सरः कृष्णशालिर्बालकश्चावरोहकः ।श्वेतशालोऽपौरशूरचपलाः करसूकरौ ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
शूर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् तरस्विन्हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ । Amarakośa 3.3.242
- धरणिकोश कलिकलिरन्त्ययुगे युद्धे कलिः कलहशूरयोः । शलं स्याच्छल्लकीलोम्नि [90] ब्रह्मभृङ्गगणाः शलाः ॥ Dharaṇikośa 27.2.4
- कोषकल्पतरु प्रचण्डशूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सिते पश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा । वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा- वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥ Koṣakalpataru 6.12.83
- कोषकल्पतरु पत्तिपत्तिर्गतौ सैन्यविशेषके स्त्री पुमांस्तु शू[290b]रे पदगेऽन्यवत्स्यात् । दृतिर्द्वयोश्चर्मपरे तु मत्स्ये शास्तिस्तु शास्त्रे युजि शासनेऽपि ॥ ५९ ॥ Koṣakalpataru 6.16.59
- कोषकल्पतरु तरस्विन्स्त्रियां तु मांसी कटुरोहिणीषु शूरे तरस्वी त्रिषु वेगभाजि । प्रलम्बशत्रावपि नालिकेरे स्याल्लाङ्गली केकिभुजंगयोस्तु ॥ ४३ ॥ Koṣakalpataru 6.21.43
- कोषकल्पतरु वीरखड्गादिकानां निशिते मुखे च पुमान्घनासारकवर्षणर्णे । वीरस्तु शूरे चरमे तु शृङ्ग्यां नते स्त्रियां क्षीरविदारिकायाम् ॥ ७९ ॥ Koṣakalpataru 6.27.79
- कोषकल्पतरु महावीरअस्त्री वतंसेऽथ प[63a]वौ च तार्क्ष्ये सिंहे पिके कर्कटके च शूरे । मखानले किञ्च जराटके च बुधा महावीरमिह स्मरन्ति ॥ २२ ॥ Koṣakalpataru 6.27.22
- कोषकल्पतरु भडिलशूरे च[72a] भृत्ये भडिलोऽथ दूते स्याद्भण्डिलो भद्रगतस्तु षण्ढे । स्याद्द्रोणकाके नरि कुम्भकारे काकोलमस्त्री विष[वाच]कं [स्यात्] । स्त्री शङ्कुला क्रीडनकन्दुके स्या- दिर्वांरुकायामपि शस्त्रभेदे ॥ ३७ ॥ Koṣakalpataru 6.28.37
- नानार्थार्णवसंक्षेप पटुलवणाख्ये तद्वति तु त्रिषु निर्व्याधिशूरयोः । अमन्ददक्षयोश्चान्ये विशदप्रज्ञ ऊचिरे ॥ ७३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.733
- नानार्थार्णवसंक्षेप वीरस्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद्विचार्यं विचक्षणैः ॥ १२६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1263
- नानार्थार्णवसंक्षेप वधत्रशूरे धवयिमर्माख्ये(१) कन्दुके च प्रकीर्तितम् । तन्तुवायस्य दण्डे च शाकटायन उक्तवान् ॥ ६९ ॥ Nānārthārṇavasaṃkṣepa 3.3.69
- नानार्थार्णवसंक्षेप तरस्विन्तरस्वीति द्वयोर्व्याघ्रे वानरेऽप्यथ भेद्यवत् । वेगवद्बलिनोरन्ये पुनः शूरेऽप्यधीयते ॥ ८४२ ॥ Nānārthārṇavasaṃkṣepa 4.842
- नानार्थार्णवसंक्षेप मर्मरीकशिरःस्नेहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ॥ Nānārthārṇavasaṃkṣepa 6.485
- परमानन्दीयनाममाला शृङ्गिन्शृङ्गी गिरौ पशौ शूरे शोषो यक्ष्मणि शोषणे । शाखा बाहौ द्रुमाङ्गे च वेदाङ्गे तालभिद्यपि ॥ ३५८ ॥ Paramānandīyanāmamālā 5.25.358
- शब्दरत्नावली त्यागिन्जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली महावीरविन्दुतन्त्रः शारिफले प्रशस्तनुरगेऽपि च । महावीरः सिंहशूरयज्ञाग्निगरुडेषु च ॥ Śabdaratnāvalī 7.27.141
- शब्दरत्नावली कलिकलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ । कलिः कलहशूराजिकलिकायुगभित्सु च ॥ Śabdaratnāvalī 7.28.5
- शब्दरत्नाकर वीरकीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च । वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥ Śabdaratnākara 4.1.1999
- तन्त्राभिधान पन-कारो मेषसंज्ञः स्याद्दीर्घी सौरिश्च कीर्त्तितः । प-कारो लोहितः पार्श्वं शूरश्च परमेश्वरि! ॥ २२ ॥ Tantrābhidhāna 1.22
- त्रिकाण्डशेष त्यागिन्शूरे दातरि च त्यागी व्रतिशोच्यौ तपस्विनौ । तपनो नरके भानौ विरलेऽल्पे कृशे तनुः ॥ २४१ ॥ Trikāṇḍaśeṣa 3.3.241
- वैजयन्ती वीरवीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः । गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥ Vaijayantī 6.5.82
- वैजयन्ती महावीरवज्रेऽश्वे तनये हंसे शूरेऽग्नौ प्रवरे हरौ । राजादनं प्रियाले ना क्षीरिकायां पलाशके ॥ २१ ॥ Vaijayantī 8.5.21