कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हेलि

heliपुं · masc.

In 17 kośas: 16 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.98 · p. 7
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.22 · p. 4
स्यादिन्द्राणी महे हेलिरूलुलुर्मङ्गलध्वनिः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.118 · p. 430
स्यादिन्द्राणीमहो हेलिरुलूलुर्मङ्गलध्वनिः ।अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.2 · p. 436
मिहिरोऽर्कोंशुमानद्रिर्हरिर्हेलिर्विरोचनः ।गौर्द्यौर्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.29 · p. 29
सप्ताश्वो मिहिरश्च शूर-महिरौ पीथो द्युवा दर्शतःभासन्तः सहुरिर्भुवन्यु-तपुषौ पूषा च दोषान्तकृत् ।हंसो हेलिरहर्पतिर्ग्रहपतिः स्याद्भापतिर्गोपतिः ।स्यूनोऽन्नः किरणोंऽशुमान्कमलिनीकान्तो भगोऽहस्करः ॥ २९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.14 · p. 7
सूर्यः सूरिर्ग्रहधनो हरिदक्षीणलोचनः ।हेलिः किरीटी पद्माप्तो हरिर्वासरवल्लभः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.88 · p. 16
कृतान्तजनको मित्रसप्तसप्ततिहेलयः ।ध्वान्तारातिर्जगत्कर्मसाक्षी ग्रहपतिर्हरिः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.111 · p. 15
उष्णस्त्वष्टा हरिर्हेलिरिनः सूनुश्च गोपतिः ।कुतपः सपु(हु?)रिस्तर्णिर्मिहिरो मण्डली ग्रही ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.308 · p. 22
हेलिः प्रभाकरादित्यौ द्वादशात्मा नभोमणिः ।हरिः पतङ्गस्तरणिः सहस्रांशुर्विरोचनः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.3 · p. 36
विश्वमूर्तिर्लोकसाक्षी दीप्तमूर्तिरनन्तगः ।नीरदो नीरदकरो हेलिरद्रिः प्रतापनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.63 · p. 8
प्रद्योतनो जगच्चक्षुः कर्मसाक्षी दिवाकरः ।हरिदश्वो हरिर्हेलिर्ब्रध्नो हंसो विकर्तनः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.82 · p. 13
सप्तसप्तिर्हरिर्हेलिः तिमिरारिर्विकर्त्तनः ।भास्करश्चित्रभानुश्च भास्वान् मित्रः विभावसुः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.815 · p. 118
स्यादिन्द्राणीमहो हेलिः ख्यातं वरमहोत्सवम् ॥ ८१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 33 · p. 533
हेलिर्हंसं सहस्रांशुस्तपनस्तापनो रविः ॥ ३३ ॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.18 · p. 17
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
मालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.57 · p. 87
स्यादिन्द्राणीमहे हेलिरुलूलुर्मंगलध्वनिः ।घोरी हुलिहुली चासौ सैव मंगलमालिका ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.389
स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः ।
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.139 · p. 32
हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगूहने ।उत्पत्तौ कारणे वादे निमित्ते वीजकर्मणि ॥ १३९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास हकारादयः Paramānandīyanāmamālā 5.28.376 · p. 209
हिंसा प्राणापहारे स्यान्नाशे चौर्यादिके तथा ।हेतिरुस्रास्त्रयोः प्रोक्तो हेलिः सूर्येऽप्यथो हनुः ॥ ३७६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1731 · p. 209
स्यात् स्तम्बघ्नः स्तम्बघनः स्तम्बो येन निहन्यते ।हेलिरालिङ्गनेऽप्यङ्कपालिर्नाली तु मानके ॥ १७३१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.69 · p. 219
वारिपर्णी च हेतुस्तु कारणे कर्मजन्मनोः ।हीरः सर्पे हरे सिंहे हेलिरालिंगने रवौ ॥ ६९ ॥
अनुष्टुप्