कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दिनमणि

dinamaṇiपुं · masc.

In 8 kośas: 8 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.31
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ॥कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥
अनुष्टुप्
सूरपुंसूर्यपुंअर्यमन्पुंआदित्यपुंद्वादशात्मन्पुंदिवाकरपुंभास्करपुंअहस्करपुंब्रध्नपुंप्रभाकरपुंविभाकरपुंभास्वत्पुंविवस्वत्पुंसप्ताश्वपुंहरिदश्वपुंउष्णरश्मिपुंविकर्तनपुंअर्कपुंमार्तण्डपुंमिहिरपुंअरुणपुंपूषन्पुंद्युमणिपुंतरणिपुंमित्रपुंचित्रभानुपुंविरोचनपुंविभावसुपुंग्रहपतिपुंत्विषांपतिपुंअहर्पतिपुंभानुपुंहंसपुंसहस्रांशुपुंतपनपुंसवितृपुंरविपुंपद्माक्षपुंतेजसांराशिपुंछायानाथपुंतमिस्रहन्पुंकर्मसाक्षिन्पुंजगच्चक्षुस्पुंलोकबन्धुपुंत्रयीतनुपुंप्रद्योतनपुंदिनमणिपुंखद्योतपुंलोकबान्धवपुंइनपुंभगपुंधामनिधिपुंअंशुमालिन्पुंअब्जिनीपतिपुंचण्डांशुपुंमाठरपुंपिङ्गलपुंदण्डपुं
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.35 · p. 5
आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त भुवनसञ्ज्ञा Gaṇitanāmamālā 6.55 · p. 3
विकर्त्तनः सप्तसप्तिः सप्ताश्वद्युमणिः खगः ।विरोचनो दिनकरो दिनमणिस्तुरहर्पतिः ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 1 दिन (syllable split)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.8 · p. 436
करो दिनप्रभार्थेभ्यो दिनार्थेभ्यो वसुर्मणिः ।पुष्टश्चापि जगद्दीपः सप्ताश्वार्थश्च भारविः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.28 · p. 29
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.232 · p. 17
हंसो भास्वान् दिनमणिर्द्युमणिस्तरणी रविः ।चण्डांशुरर्को मार्तण्डः सप्तसप्तिर्गभस्तिमान् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.163 · p. 22
हरिदश्वविश्वचक्षुर्मिहिरसहस्रांशुमित्रखद्योताः ।दिनमणिसवितृद्युमणिप्रद्योतनतपनभास्वरादित्याः ॥ १६३ ॥
गीतिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.18 · p. 17
दिनमणिहरिहेलिब्रध्नभाकोषभाभृ-दरथिखगपतङ्गेनाद्रयः सप्तसप्तिः ।मिहिरमहिरपीथाः कालकृत्पद्मपाणिःखमणिररुणशूरावंशुमानंशुमाली ॥ १८ ॥
मालिनी
genderपुंmasc.