कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महीध्र

mahīdhraपुं · masc.

In 6 kośas: 5 synonym verses, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.1
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.115 · p. 9
महीध्रः पर्वतः शैलः शिलावान् गोत्रभृद्गिरिः ।शिलोच्चयः क्ष्माभृदचलः पविपातवित् ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1769 · p. 288
कुध्रो भूध्रो महीध्रश्च धरो भूभृन्महीधरः ।प्रपाती पर्वतोऽहार्य उर्वङ्गो भूधरः पुनः ॥ १७६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.3 · p. 55
महीध्रगिरिगोत्रागग्राविद्रनगदन्तिनः ।लोकालोकश्चक्रवाडो लोकालोकाख्यपर्वते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.406 · p. 54
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.

महीध्र as a meaning in nānārtha verses

  • धरणिकोश गिरिगिरी गीर्ण्यक्षिरोगौ च गिरिः प्लक्षमहीध्रयोः । गिरिर्गैरीयकः क्रीडागुडाकापि च कीर्तितः ॥ Dharaṇikośa 26.3.17