आहार्य
āhāryaपुं · masc.In 11 kośas: 12 synonym verses, 2 as a nānārtha head word.
स चतुर्विध आहार्यो रचितो भूषणादिना ।वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विकः ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
त्रिविक्रमाः स्युराहार्यवाचिकाङ्गिकसात्विकाः ।नाटकं नाटिका भाणो वीथी प्रहसनं डिमः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
स चतुर्विध आहार्यो रचितो भूषणादिभिः ।वचसाङ्गेन सत्त्वेन वाचिकाङ्गिकसात्त्विकाः ॥ ५२ ॥
अनुष्टुप्
genderविadj.
आरोप्यः पुनराहार्यो वाचिकाद्या विशेष्यगाः ।प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि ॥ ११७ ॥
अनुष्टुप्
genderविadj.
पर्वते विपुलाहार्यग्रावाणो गोत्रभूभृतौ ।फलके स्नुः सानुरिति स्यादुत्सः स्वल्पवाहिनी ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderपुंmasc.
प्राहार्योऽभिनयो ज्ञेयो रचितो भूषणादिना ।वाचिको वचसा चैव तथाऽङ्गेनाऽऽङ्गिकः किल ॥ ४०९ ॥
अनुष्टुप्
genderपुंmasc.
स्यादागन्तुकमाहार्यम् अधिकारश्चयोरपि (?) ।व्युत्पन्नः संस्कृते पूर्णे पूरितं भरितं भूतम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 भू (wrong syllable)
genderविadj.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.
निःसन्धिश्च निवातश्च समूढं शोधितं समे ।स्यादागन्तुकमाहार्यं समे पक्त्रिमपाकिमे ॥ २० ॥
अनुष्टुप्
genderविadj.
भूषणाद्यैर्गिरांगेन सत्त्वेनाभिनयाः कृताः ।त्रिषु क्रमात्स्युराहार्यवाचिकांगिकसात्त्विकाः ॥ ९९ ॥
अनुष्टुप्
genderविadj.
पाजो वाजोऽप्योदनोऽस्त्री भिस्सा स्त्री दीदिविर्न षण् ।पुन्नपुंसकयोश्चोरं करमाहार्यमित्यपि ॥ ७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.