शिखरिन्
śikharinपुं · masc.In 16 kośas: 28 synonym verses, 10 as a nānārtha head word.
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
भासे शकुन्तः कोयष्टौ शिखरी जलकुक्कुभः ॥ १३३८ ॥
अनुष्टुप्
genderपुंmasc.
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
आर्या
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
आटिः शरारिरातिः स्यादुत्क्रोशः कुररो मतः ।दात्यूहो जलरङ्कुः स्यात्कोयष्टिः शिखरी स्मृतः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
डुंगरशिखरी वज्री निष्पक्षो बृहदीक्षणः ।पूर्वाद्रिरुदयाद्रौ स्यात् सुवेलश्चित्रशृङ्गलः ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
सौराष्ट्रः शिखरी कन्दुः कन्दूरकसुकन्दकौ ।बहुगन्धो गोपुरगस्तीक्ष्णः शंखः खरः शकः ॥ ४१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
genderपुंmasc.
बृहन्तो लघवश्चाथ यावनालः स्त्रियां पुमान् ।दीर्घनालो यवनलः शिखरीवृन्ततण्डुलः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः ।ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शिखरी सानुमानद्रिरहार्यः कन्दराकरः ।वातंधमोऽपि जीमूतो दन्ती गोत्राग-कूटिनः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
द्वयोर्मणि[18a]श्चारुशिला रत्नं वसु तु न द्वयोः ।सम्यकस्त्वाकरे शुद्धो मण्यादिर्भेद्यलिङ्गकः ।हीरकः शिखरी पुंसि दधीच्यस्थि वरारकम् ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
आघाटः स्याच्छैखरिकः शिखरी शिखरस्वसः (?) ।धामार्गवोऽप्यपामार्गो मार्गः कूटो मयूरकम् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
अस्था[55a]न रोहिणी सैव सौविर्यं पदरोहिणी ।वन्दकः शिखरी कामतरुश्च विजयद्रुमः ॥ २१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
दृतिश्चर्ममयी खल्लस्त्वालूः करकपात्रिका ।पर्वतः शिखरी भूध्रो गोत्राद्री भूधराचलौ ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः ।अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
शैलोऽद्रिः शिखरी शिलोच्चयोऽचलश्च सानुमान् ।अगो नगो गिरिर्ग्रावा गोत्रश्च कन्दराकरः ॥ १७६८ ॥
metre not recognised
genderपुंmasc.
शाखी च शिखरी स्कन्धी क्षितिरुहश्च वह्निभूः ।अंह्रिपश्चाङ्घ्रिपो जन्तुर्जीर्णश्चरणपः कुजः ॥ १९५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
genderपुंmasc.
पर्वतः स्थावरः शैलः स्थानुमान् पृथुशेखरः ।धरणीकीलकः क्ष्माभृदहार्यः शिखरी धरः ॥
अनुष्टुप्
genderपुंmasc.
चित्रोपचित्रा सञ्चित्रा मूषिकर्णी स्वकर्णिका ।अपामार्गः शैखरेयश्चमत्कार-मयूरकौ ।धामार्गवः शैखरिकं शिखरी खरमञ्जरी ॥
अनुष्टुप्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.
खञ्जनः खञ्जरीटः स्यात् तस्य गोलत्तिका प्रिया ।कोयष्टिकस्तु शिखरी कटुक्वाणस्तु तित्तिरिः ॥ ७९३ ॥
अनुष्टुप्
genderपुंmasc.
श्येनायां प्राचिका चित्रपक्षे शरुकपिंजलौ ।वाचाला मुखरा शारिः कोयष्टिः शिखरी समौ ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
पुण्ड्रे प्रभावेऽप्यथ पुंसि षण्ढेललाममेतत्सममा[23a]मनन्ति ।प्रकोष्ठकप्लक्षमयूरवाचीभवेत्कलापी शिखरी तु शैले ॥ ३९ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 पु (wrong syllable)
meaningsशैल
वृक्षेऽप्यपामार्गतरौ च दुर्गेक्लीबे तु तद्धीरकरत्नवाचि ।व्याले विलासी भुजगे सभोगेनिशाचरे किं च तरौ पलाशी ॥ ४० ॥
उपजातिः
doubtful
ऋषिभेदे क्वचिच्चापि पुरुषे भारतश्रुते ।शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ॥ १८३५ ॥
अनुष्टुप्
meaningsगिरि
doubtful
अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् ।तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥
अनुष्टुप्
doubtful
वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः ।शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि ।शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः ।भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)