कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सानुमत्

sānumatपुं · masc.

In 15 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1027 · p. 40
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.165 · p. 21
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.185 · p. 83
नाकुर्घनाघतः शैलो जीमूतः पर्वतोऽपि च ।सानुमान् दुर्धरो वज्रिदुर्गमो दुरतिक्रमः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.3 · p. 22
धरा गोत्रा गोमती च धारिणी रुणात्मजा ।अगः शैलो दुर्गमश्च पर्वतः सानुमानपि ॥ ३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.1 · p. 340
गिरिर्गोत्रोऽचलः शैलः स्थावरो धातुभृद्धरः ।कुकीलः सानुमान्व्यंशो जीमूतः पृथुशेखरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.2 · p. 127
शिखरी सानुमानद्रिरहार्यः कन्दराकरः ।वातंधमोऽपि जीमूतो दन्ती गोत्राग-कूटिनः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.28 · p. 11
माणिक्यं पौष्यकं शङ्खः पुलको विमलादयः ।शैलोऽगः पर्वतः क्ष्माभृत्सानुमान्दुर्गमो गिरिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 8 · p. 4
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.305 · p. 42
नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः ।धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.5 · p. 38
अद्रिः कुल्कीलकः शंभुर्गिरिराभूतलोचनः ।दुर्गमः सानुमान् शैलो विपक्षो धरणीधरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.108 · p. 12
पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः ।अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1768 · p. 288
शैलोऽद्रिः शिखरी शिलोच्चयोऽचलश्च सानुमान् ।अगो नगो गिरिर्ग्रावा गोत्रश्च कन्दराकरः ॥ १७६८ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.406 · p. 54
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव शैलवर्गः Trikāṇḍaśeṣa 2.3.1 · p. 35
शैलः स्थावरधातुभृद्धरकुकीलौव्यङ्गकः सानुमा-ञ्जीमूतः पृथुशेखरश्च कटकी दन्ती नगो निर्झरी ।कुट्टारोऽथ हिमालयो नगपतिर्मेनाधवोमागुरूकैलासो गणपर्वतश्च रजतप्रस्थः कुबेराचलः ॥ १ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.1 · p. 41
शैलोऽगः पर्वतः क्ष्माभृत् सानुमान् दुर्गमो गिरिः ।अहार्यगोत्रकुट्टीरकुट्टारा भूधरोऽचलः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.