कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अहार्य

ahāryaपुं · masc.

In 11 kośas: 9 synonym verses, 3 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.1
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.165 · p. 21
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
आर्या
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.4 · p. 22
अहार्यो गोत्रकुत्कीलः कुत्किलो भूतलोचनः ।बन्धकी फलिगः क्रुद्धः प्रपाद्यद्रिः शिलोच्चयः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.2 · p. 341
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः ।ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.2 · p. 127
शिखरी सानुमानद्रिरहार्यः कन्दराकरः ।वातंधमोऽपि जीमूतो दन्ती गोत्राग-कूटिनः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.305 · p. 42
नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः ।धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1769 · p. 288
कुध्रो भूध्रो महीध्रश्च धरो भूभृन्महीधरः ।प्रपाती पर्वतोऽहार्य उर्वङ्गो भूधरः पुनः ॥ १७६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.1 · p. 55
पर्वतः स्थावरः शैलः स्थानुमान् पृथुशेखरः ।धरणीकीलकः क्ष्माभृदहार्यः शिखरी धरः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.1 · p. 41
शैलोऽगः पर्वतः क्ष्माभृत् सानुमान् दुर्गमो गिरिः ।अहार्यगोत्रकुट्टीरकुट्टारा भूधरोऽचलः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.28 · p. 155
प्रकीर्यः पूतिकरजे विनिकीर्ये च की[74]र्तितः ।अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.91 · p. 54
त्रिः क्ली तु विवरेऽहार्यः पुनर्ना धरणीधरे ।अहर्तव्ये पुनस्त्रिः स्यादभ्यासो गुणने पुमान् ॥ ९१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.38 · p. 260
अनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु ।अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि ।अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् ।अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥आशयः स्यादभिप्रायाधारयोः पनसेऽपि च ।आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे ।उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥उपायः स्यादुपपन्तौ सामभेदादिके पुमान् ।ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 च (wrong syllable)