All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · शैलवर्गप्रकाशः
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां पुरवर्गप्रकाशः ॥
पर्वतः स्थावरः शैलः स्थानुमान् पृथुशेखरः ।धरणीकीलकः क्ष्माभृदहार्यः शिखरी धरः ॥
3.3.1 · p. 55
अनुष्टुप्
कुट्टारोऽचलः जीमूतो धातुभृद्भूधरः स्थिरः ।कुटीलः कुटकी शृङ्गी निर्झरी च शिलोच्चयः ॥
3.3.2 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लः (wrong syllable)
त्रिशृङ्गस्त्रिककुच्चापि त्रिकूटश्च त्रिकूटकः ।अस्ताचलः स्यादस्तस्तु चरमाचल इत्यपि ॥
3.3.4 · p. 55
अनुष्टुप्
कुवेराचलः कैलासो रजतप्रस्थ इत्यपि ।निषदो माल्यवान् विन्ध्यो हेमकूटो युगन्धरः ।पारिपात्रः पारियात्रश्चित्रकूटो गुणेश्वरः ॥
3.3.6 · p. 55
अनुष्टुप्metre not read in every line
ऋष्यमुको रत्नकूटः किष्किन्ध्यो गन्धमादनम् ।किष्किन्ध्योऽपि गुहा तस्य किष्किन्ध्या द्विविधा मता ॥
3.3.7 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
ब्रह्मयोनिर्ब्रह्मगिरिः कोलः क्रौञ्चोऽपि मन्दरः ।चन्दनाद्रिस्तथाषाढो मलयो मलयाचलः ॥
3.3.8 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ब्र (wrong syllable)
एते पर्वतभेदाः स्युरन्येऽपि लोकशास्त्रतः ॥
3.3.9 · p. 55
प्रस्तरग्रावपाषाणोत्पलाश्मानो दृशत् दृषत् ।परारुकः पारटीटो मृन्मरुः काठकः शिला ॥
3.3.10 · p. 55
अनुष्टुप्
स्फटिकं स्फाटकञ्चापि स्फाटिकमपि कुत्रचित् ।कूटोऽस्त्रियाञ्च शिखरं शृङ्गं शैलाग्रदेशके ॥
3.3.11 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 टि (wrong syllable)
अरण्यकण्टकव्याप्तगिरिपार्श्वोच्चदेशके ।पतनस्थानमित्येवं प्रपातस्त्वतटो भृगुः ॥
3.3.12 · p. 55
अनुष्टुप्
कटकोऽस्त्री शैलमध्यो नितम्बोऽपि कुत्रचित् ।पर्वते समभूभागे स्नुः प्रस्थः सानुरस्त्रियौ ।यत्र विश्राम्यति स्रूत्वा स्रूत्वा पुनः पुनः ।उत्सः प्रसवणञ्चापि द्वयं तत्राभिधीयते ॥
3.3.13 · p. 55
अनुष्टुप्metre not read in every line
अथ वारिप्रवाहे तु निर्झरो निर्झरी झरः ।दर्विर्दवी कन्दरं स्यात् कन्दरा च चतुष्टयम् ॥
3.3.14 · p. 55
अनुष्टुप्
अकृत्रिमे कृत्रिमे वा गिरिरन्ध्रे निगद्यते ।देवादिखाते रन्ध्रे वा गह्वरी गह्वरं गुहा ॥
3.3.15 · p. 56
अनुष्टुप्
गण्डशैलास्तु ते शैलाच्च्युताः स्थूलोपलाश्च ये ।खनिः खानिः खनी खानी वाकरो रत्नजन्मभूः ॥
3.3.16 · p. 56
अनुष्टुप्
प्रत्यन्तपर्वताः पादाः पादशैला अपि क्वचित् ।समुद्रपर्वासन्नभूमिरेवमुपत्यका ॥
3.3.17 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (syllables merged)
गिरेरूर्ध्वस्थिता भूमिरुक्ता शैष(?)मधित्यका ।गिरेर्मनःशिलाद्यस्तु धातुरित्यभिधीयते ॥
3.3.18 · p. 56
अनुष्टुप्
विशेषतो गौरिकन्तु रक्तधातुगवेरुकम् ।बलावरक्तकगिरिमृत् प्रत्यश्मगैरिकान्तरम् ॥
3.3.19 · p. 56
metre not recognisednearly अनुष्टुप्
सितोपलः शिलाधातुर्वर्णरेखा च मक्लनम् ।शिलाधातुविशेषोऽस्तु विज्ञेयो लोकशास्त्रतः ॥
3.3.20 · p. 56
अनुष्टुप्
पेषणिः पेषणी च पट्टो गुहाष्मा गृहकच्छपः ।घर्षनालः शिलापुत्रः शिलापुत्रक इत्यपि ॥
3.3.21 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
काच्छली काच्छलिश्चापि कखटी च खटी तथा ।अथ कुञ्ज-निकुञ्जौ च वा तु क्लीबे लतागृहे ॥
3.3.22 · p. 56
अनुष्टुप्