इति पुरवर्गः
अथ शैलवर्गः
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
2.3.1
अनुष्टुप्
लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ ।
2.3.2
अनुष्टुप्
अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥
2.3.2
अनुष्टुप्
हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः ।गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥
2.3.3
अनुष्टुप्
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ।
2.3.5
अनुष्टुप्
कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ ४ ॥
2.3.4
अनुष्टुप्
कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।
2.3.7
अनुष्टुप्
उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥
2.3.5
अनुष्टुप्
दरी तु कन्दरो वा स्त्री देवखातबिले गुहा ।गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥
2.3.6
अनुष्टुप्
दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ।
2.3.10
अनुष्टुप्
खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः ।
2.3.11
अनुष्टुप्
उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥
2.3.7
अनुष्टुप्
धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः ।
2.3.13
अनुष्टुप्
निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥
2.3.8
अनुष्टुप्