पर्वत
parvataपुं · masc.In 20 kośas: 22 synonym verses, 4 as a nānārtha head word, 47 as a meaning of another word.
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
आर्या
genderपुंmasc.
नाकुर्घनाघतः शैलो जीमूतः पर्वतोऽपि च ।सानुमान् दुर्धरो वज्रिदुर्गमो दुरतिक्रमः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः ।मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderपुंmasc.
धरा गोत्रा गोमती च धारिणी रुणात्मजा ।अगः शैलो दुर्गमश्च पर्वतः सानुमानपि ॥ ३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
गुल्मेषु ग्रन्थिकः सस्यात् स च पुष्पेषु पर्वतः ।ओषधीषु ज्योतिरयं रूपको नलिनीषु च ॥ ३०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्यो (wrong syllable)
genderपुंmasc.
धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः ।पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥ ३१० ॥
अनुष्टुप्
genderपुंmasc.
गोत्रोऽद्रिः पर्वतः प्रस्थशृङ्गवृक्षेभ्य एव वान् ।भूपर्यायधरो भूध्रः स च स्यात्कन्दराकरः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वृषपर्वा नारदश्च पर्वतश्च नरश्च ते ।समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
शिलोच्चयो * * भूभृद्धर-भूधर-पर्वताः ।कुध्रः कुव्रीलः(?) कुट्टारो नगो ग्रावाचलो गिरिः ॥ १ ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
माणिक्यं पौष्यकं शङ्खः पुलको विमलादयः ।शैलोऽगः पर्वतः क्ष्माभृत्सानुमान्दुर्गमो गिरिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
दृतिश्चर्ममयी खल्लस्त्वालूः करकपात्रिका ।पर्वतः शिखरी भूध्रो गोत्राद्री भूधराचलौ ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
महीध्रः पर्वतः शैलः शिलावान् गोत्रभृद्गिरिः ।शिलोच्चयः क्ष्माभृदचलः पविपातवित् ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः ।अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
कुध्रो भूध्रो महीध्रश्च धरो भूभृन्महीधरः ।प्रपाती पर्वतोऽहार्य उर्वङ्गो भूधरः पुनः ॥ १७६९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकण्ठको घर्घटः स्याल्लघुगर्गस्तटङ्कटः ।पिङ्गाशोऽपि च पिङ्गास्यः पर्वतः पार्वतोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
पर्वतः स्थावरः शैलः स्थानुमान् पृथुशेखरः ।धरणीकीलकः क्ष्माभृदहार्यः शिखरी धरः ॥
अनुष्टुप्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.
शैलोऽगः पर्वतः क्ष्माभृत् सानुमान् दुर्गमो गिरिः ।अहार्यगोत्रकुट्टीरकुट्टारा भूधरोऽचलः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
असृजि च घुसृणे च तैलपर्ण्यांकुमलयजे परवत्स वर्णभेदे ।सुरमुनिभिदि पादपे च शैलेशकझषभिद्यपि पर्वतो मतो ना ॥ २ ॥
पुष्पिताग्रा
पर्वत as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जीमूतअग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥ Amarakośa 3.3.58
- हलायुधकोशः (अभिधानरत्नमाला) जीमूतकवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति । व्यूहं रचनायामपि दार्वाघाटेऽपि शतपत्त्रम् ॥ ७९५ ॥ Abhidhānaratnamālā (Halāyudha) 5.795
- हलायुधकोशः (अभिधानरत्नमाला) मरुनदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः । मैथुनं कथ्यते सद्भिः सम्बन्धग्राम्यधर्मयोः ॥ ८३८ ॥ Abhidhānaratnamālā (Halāyudha) 5.838
- हलायुधकोशः (अभिधानरत्नमाला) रविप्रह्वबन्धनयोः प्राध्वं मोहः स्यान्मौढ्यमूर्छयोः । व्यवस्थानेऽम्भसो वेला रविः पर्वतसूर्ययोः ॥ ८३९ ॥ Abhidhānaratnamālā (Halāyudha) 5.839
- धरणिकोश वलाहकवलाहकौ वारिदपर्वतौ स्मृतौ वलाहकश्चासुरनागभेदयोः । सौगन्धिकं कत्तृणबाणयोः स्मृतं कह्लारके गन्धकसंज्ञकाश्मनि ॥ Dharaṇikośa 1.2.58
- धरणिकोश त्रिकूटशृङ्गाटः स्याच्चतुर्मार्गः शृङ्गाटो जलकण्टकः । त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरम् ॥ Dharaṇikośa 10.2.10
- धरणिकोश आषाढअध्यूढा कृतसापत्न्यामध्यूढो वृद्धिमानयोः । उपोढः कथितो व्यूढे समासन्ने विवाहिते । आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ॥ Dharaṇikośa 13.2.3
- धरणिकोश शिखरिन्विलासी भोगिनि व्याले विषाणी गजशृङ्गिणोः । कलापी कोकिले प्लक्षे शिखरी पर्वते तरौ ॥ Dharaṇikośa 19.1.21
- धरणिकोश सुदामन्अर्यमा रविराख्यातश्चार्यमा पितृदेवता । सुदामा मेघ उद्दिष्टः सुदामा पर्वतेऽपि च ॥ Dharaṇikośa 19.2.58
- धरणिकोश सह्यसह्यं विख्यातमारोग्यं सह्यौ सोढव्यपर्वतौ । पाक्यं विदुर्यवक्षारे विटाख्यलवणेऽपि च ॥ Dharaṇikośa 25.2.9
- धरणिकोश मरुमरू पर्वतधन्वानौ शारौ शबलमारु[77]तौ । खरः स्याद्गर्दभे तीक्ष्णे चौरश्चोरसुगन्धयोः ॥ Dharaṇikośa 26.1.3
- धरणिकोश महेन्द्रकूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ Dharaṇikośa 26.1.17
- धरणिकोश वृत्रछत्रा मधुरिका छत्रं धन्याके चातपत्रके । वृत्राः पर्वतमेघेन्द्रा वृत्रा ध्वान्तारिदानवाः ॥ Dharaṇikośa 26.2.20
- धरणिकोश दर्दुरदर्दुरो वाद्यभाण्डे स्यान्मण्डुके पर्वतान्तरे । गोपुरं द्वारि पूर्द्वारि कैवर्तीमुस्तकेऽपि च ॥ Dharaṇikośa 26.2.42
- धरणिकोश केदारकेदारः क्षेत्रकोष्ठीषु ? केदारौ शिवपर्वतौ । खर्जुरं रूप्यके विद्याद्वृश्चिकद्रुमभेदयोः ॥ Dharaṇikośa 26.2.60
- धरणिकोश धीरधीरो धैर्यवति ख्यातो धीरौ मन्थरपर्वतौ । धीरं कुङ्कुममाख्यातं धीरो दक्ष उदाहृतः ॥ Dharaṇikośa 26.3.23
- धरणिकोश हंसहंसो लोभपराङ्मुखेऽवनिपतौ हंसो विहङ्गान्तरे हंसौ विष्णुदिवाकरावपि हयश्रेष्ठौ च हंसौ स्मृतौ । हंसाः पर्वतमन्त्रयोगिमरुतां भेदास्तु तेऽपि स्मृता हंसः स्यान्महिषे परात्मनि गुरौ ? पुंसां वरे पर्वते ॥ Dharaṇikośa 31.3.3
- कोषकल्पतरु अगअगो नगोऽर्कद्रुमपर्वतेषु खगास्तु सूर्यग्रहदेवबाणाः । पक्षी शरोऽस्त्रीतु भगो वराङ्गै- श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥ Koṣakalpataru 6.3.91
- कोषकल्पतरु थथः पर्वते स्यान्नरि तस्करे च Koṣakalpataru 6.18.1
- कोषकल्पतरु वृत्रमासेऽद्रिभेदे च पुमानथ स्याद् वृत्रो रिपौ दानवशक्रयोश्च । ध्वान्ते घने पर्वतवाचकोऽथ सत्रं वने वाससि कैतवे च ॥ ३० ॥ Koṣakalpataru 6.27.30
- नानार्थार्णवसंक्षेप कुध्रनापितस्योपकरणे कुटिस्तु वृषलालये । पापे वृक्षेऽपि कुध्रस्तु समुद्रे पर्वतेऽपि च ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 2.2.33
- नानार्थार्णवसंक्षेप अविअविः पुंस्यवतौ धातौ सूर्यपर्वतयोरपि । द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुषु ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.54
- नानार्थार्णवसंक्षेप पाकना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् । अस्त्री द्रोणाह्वये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.749
- नानार्थार्णवसंक्षेप वलपितरि त्रि तु वन्ध्यं स्यान्निष्फले स्त्री तु योषिति । अयोग्यायां गर्भधृतेर्वलस्तु नरि पर्वते ॥ ११७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1171
- नानार्थार्णवसंक्षेप वाजिन्गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप शद्रिशद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः । शङ्कुः शम्भौ चतुर्वक्रे पुमान् सङ्ख्यान्तरेऽपि च ॥ १३२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1325
- नानार्थार्णवसंक्षेप सह्यअग्निभेदे पुमान् सह्यः पुनर्ना पर्वतान्तरे । पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नप् पुनः ॥ १४४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1449
- नानार्थार्णवसंक्षेप माहूरतत्र यस्य फलं त्रिस्तु स्यान्महेन्द्रस्य योगिनि । महेन्द्रदेवते चाथ माहूरः पुंसि पर्वते ॥ १४१२ ॥ Nānārthārṇavasaṃkṣepa 4.1412
- नानार्थार्णवसंक्षेप प्रस्रवणपुमान् समीरणेऽत्रापि समासार्थादि पूर्ववत् । उत्से प्रस्रवणं क्लीबं प्रसूतौ चाथ पर्वते ॥ ३३६ ॥ Nānārthārṇavasaṃkṣepa 6.336
- नानार्थार्णवसंक्षेप गन्धमादनगन्धमादनशब्दस्तु नृनपोः पर्वतान्तरे । रामायणप्रसिद्धे च क्वचित् स्यात् कपिकुञ्जरे ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 7.48
- परमानन्दीयनाममाला अगअगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके । प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥ Paramānandīyanāmamālā 5.1.8
- परमानन्दीयनाममाला दर्दुरदुर्मुखो मुखरे हस्तिभेदे वानरवाजिनोः । दर्दुरः पर्वते भेके दुर्वर्णं स्वर्णरूप्ययोः ॥ २४५ ॥ Paramānandīyanāmamālā 5.16.245
- परमानन्दीयनाममाला देवताडदेवताडः कृतान्तेऽग्नौ राहुपर्वतयोरपि । दलाढकोऽरण्यतिले नागकेसरखातयोः ॥ २५० ॥ Paramānandīyanāmamālā 5.16.250
- परमानन्दीयनाममाला नाकुस्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः । नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥ Paramānandīyanāmamālā 5.18.262
- शब्दरत्नावली नाकुनाकुः पर्वनवह्लीकमुनिभेदेषु पुंस्ययम् । भेकः मण्डूकधनयोर्भूको नार्वाचिदैत्ययोः ॥ Śabdaratnāvalī 7.1.16
- शब्दरत्नावली कूलकअस्त्रियां कूलकस्तूपे पुंसि स्यात् क्रिमिपर्वते । कूर्चिका तूलिकायाञ्च सूचिकायान्तु कुट्मले ॥ Śabdaratnāvalī 7.1.58
- शब्दरत्नावली महाकच्छमहारुच्छ(?)स्तु वरुणे समुद्रे पर्वतेऽपि च ॥ Śabdaratnāvalī 7.7.7
- शब्दरत्नावली जीमूतजामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि । जीमूतः पर्वते मेघे देवताडे महत्यपि ॥ Śabdaratnāvalī 7.16.103
- शब्दरत्नावली दरत्तरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली शृङ्गिन्शृङ्गी शृङ्गयुते वृक्षे पर्वते द्विरदे पुमान् । शयनं सुरते शय्यानिद्रयोश्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.82
- शब्दरत्नावली गन्धमादनधातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133
- शब्दरत्नावली शैलशूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने । शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥ Śabdaratnāvalī 7.28.37
- शब्दरत्नावली अचलअचलः पर्वते पुंसि भुवि स्त्री निश्चले त्रिषु । अञ्जलिः पुंसि कुडवे हस्तभेदेऽपि कीर्त्यते ॥ Śabdaratnāvalī 7.28.42
- शब्दरत्नावली सुवलसुवलः पर्वते पुंसि शान्तप्रणतयोस्त्रिषु । सुतलोऽहालिकावन्धनागलोकप्रभेदयोः ॥ हिङ्गुला वर्णकद्रव्ये वार्त्ताक्यां हिङ्गुली स्त्रियाम् । हेमलः स्वर्णकारे स्यात्कृकलाशे शिलान्तरे ॥ Śabdaratnāvalī 7.28.103
- शब्दरत्नाकर ग्रावन्पर्वतोपलयोर्ग्रावा गणः प्रमथसंघयोः । उपराग उपादाने सत्त्वे सूर्यादिके ग्रहः ॥ १९०८ ॥ Śabdaratnākara 4.1.1908
- वैजयन्ती ग्रावन्गणाः प्रमथसंख्यौघा ग्रावाणौ पर्वतोपलौ । तन्तुनागाग्रहौ ग्राहौ गुल्मो व्यूढा च वाहिनी ॥ १९ ॥ Vaijayantī 6.1.19
- वैजयन्ती जीमूतजंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ । श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥ Vaijayantī 7.1.26