नग
nagaपुं · masc.In 18 kośas: 27 synonym verses, 8 as a nānārtha head word, 3 as a meaning of another word.
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
आर्या
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
निःश्रेणिरपि निःश्रेणी पल्लिः पल्ली च दृश्यते ।सीमाबन्ता तथा नान्ता नगोह्यः स्याद्दृषत् दृशत् ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः ।मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderपुंmasc.
नगोऽगमः कुठिर्गच्छः कुठारुरपि विष्टरः ।वानस्पत्यः फलैः पुष्पादपुष्पात्तैर्वनस्पतिः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः ।ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शिलोच्चयो * * भूभृद्धर-भूधर-पर्वताः ।कुध्रः कुव्रीलः(?) कुट्टारो नगो ग्रावाचलो गिरिः ॥ १ ॥
metre not recognised
genderपुंmasc.
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः ।धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् ।तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः ।अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
अगो नगोऽगमो द्रुश्च फलवांश्च वनस्पतिः ।केतकः केतकी जाती चम्पको मल्लिका जपा ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
शैलोऽद्रिः शिखरी शिलोच्चयोऽचलश्च सानुमान् ।अगो नगो गिरिर्ग्रावा गोत्रश्च कन्दराकरः ॥ १७६८ ॥
metre not recognised
genderपुंmasc.
आरोहकः कुटः कुठः कारस्करः करालिकः ।अगोऽगमो नगो गच्छः सीमिको हरितच्छदः ॥ १९५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
महीध्रगिरिगोत्रागग्राविद्रनगदन्तिनः ।लोकालोकश्चक्रवाडो लोकालोकाख्यपर्वते ॥
अनुष्टुप्
genderपुंmasc.
स्थिरः कारस्करः सालः नगोऽगः स्यादनोकहः ।अगमो द्रुः कुचारुश्च स्यात् कुचोरुक्ष इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
गीतिः
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सद्योजातो वासुदेवो रुद्रो दन्तस्त्रिमातृ(त्र)कः ।आप्यायनी मन्त्रनाथ ओ-कारो न(ना)गसंज्ञकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
ऊर्ध्वदन्तालिजः सद्यः सङ्कर्षणस्त्रिमात्रकः ।मन्त्रेशो नगसंज्ञश्च मात्रेशस्त्वो-स्वरः स्मृतः ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
genderपुंmasc.
शैलः स्थावरधातुभृद्धरकुकीलौव्यङ्गकः सानुमा-ञ्जीमूतः पृथुशेखरश्च कटकी दन्ती नगो निर्झरी ।कुट्टारोऽथ हिमालयो नगपतिर्मेनाधवोमागुरूकैलासो गणपर्वतश्च रजतप्रस्थः कुबेराचलः ॥ १ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अनोकहो नगो भूरुट् तरुः शाखी कुठः कुजः ।वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
त्वक्पत्रं तु त्वचं चोचं वरांगं भृंगमुत्कटम् ।मृगनाभिर्मृगमदो नगः कस्तूरिकापि च ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
अगो नगोऽर्कद्रुमपर्वतेषुखगास्तु सूर्यग्रहदेवबाणाः ।पक्षी शरोऽस्त्रीतु भगो वराङ्गै-श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥
उपजातिः
meanings
अगो नगश्च धरणीधरपादपयोः पुमान् ॥
meanings
यादस्पतिश्च तावब्धावप्यथो यक्षगुह्यकौ ।धनदेऽप्यथ वृक्षेऽद्रौ शिखर्यगनगागमाः ॥ ५८ ॥
अनुष्टुप्
meanings
नग as a meaning in nānārtha verses
- कोषकल्पतरु तुङ्गवपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ Koṣakalpataru 6.3.200
- नानार्थार्णवसंक्षेप गिरिगन्धर्वाख्ये द्वयोर्ग्राहिशब्दस्तु त्रिर्ग्रहीतरि । कपित्थे तु पुमान्ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.347
- शब्दरत्नावली तुङ्गतुङ्गः पुन्नागनगयोर्निशावर्वरयोः स्त्रियाम् । ग्रहयोगभिदोरुग्रे प्रधानेऽप्युन्नते त्रिषु ॥ Śabdaratnāvalī 7.3.7