All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
द्वितीयः काण्डः · पर्वताध्यायः
इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे वसुंधराध्यायो दशमः ॥
पर्वताध्यायः
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥
2.2.406 · p. 54
गीतिः
रजतगिरिः कैलासः शंकरगिरिरेकपिङ्गशैलश्च ।उदयः पूर्वगिरिः स्यादस्तश्चरमाद्रिरद्रिराजस्तु ॥ ४०७ ॥
2.2.407 · p. 54
गीतिः
हिमवांश्चन्दनशैलो मलयस्त्रिककुत् त्रिकूटगिरिः ।प्रस्रवणमाल्यवन्तौ मन्दरमन्थानभूधरौ च समौ ॥ ४०८ ॥
2.2.408 · p. 54
उद्गीतिः
चक्रवालस्तु चक्राद्रिर्लोकालोकः परावरः ।हिरण्यनाभो मैनाकः पारियात्रः सुदारुकः ॥ ४०९ ॥
2.2.409 · p. 54
अनुष्टुप्
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ४१० ॥
2.2.410 · p. 55
अनुष्टुप्
कूटोऽस्त्री शृङ्गशिखरे प्रपातस्तु भृगुः समौ ।तटं त्रिषु नितम्बः स्नुः सानुप्रस्थे तु पुंसि वा ॥ ४११ ॥
2.2.411 · p. 55
अनुष्टुप्
मेखला कटकोऽस्त्री स्याद्गह्वरं तु गुहा दरी ।कन्दरः कन्दरा कुञ्जनिकुञ्जौ वा नपुंसकौ ॥ ४१२ ॥
2.2.412 · p. 55
अनुष्टुप्
कुटुङ्गोऽस्त्री त्रयश्चामी वृक्षादिपिहितान्तरे ।प्रस्तरोपलपाषाणग्रावाश्मानः शिला दृषत् ॥ ४१३ ॥
2.2.413 · p. 55
अनुष्टुप्
गिरेरुपत्यकाधोभूरूर्ध्वभूमिरधित्यका ।स्थूलोपला गिरेर्भ्रष्टा गण्डशैलाश्च गण्डकाः ॥ ४१४ ॥
2.2.414 · p. 55
अनुष्टुप्
झरी तु निर्झरझरावुत्सः प्रस्रवणं गिरेः ।शुण्डी शौण्डं चूतको ना पादाः पर्यन्तपर्वताः ॥ ४१५ ॥
2.2.415 · p. 55
अनुष्टुप्
स्याच्छिलाजतु शैलेयं गिरिधातुस्तु गैरिकम् ।शस्त्रं कालायसं तीक्ष्णं कृष्णं पारशवायसी ॥ ४१६ ॥
2.2.416 · p. 55
अनुष्टुप्
गिरिसारोऽश्मसारश्च सरकः सार आयसः ।धूर्तसिंहाणमण्डूराण्यमूनि त्रीण्ययोमले ॥ ४१७ ॥
2.2.417 · p. 55
अनुष्टुप्
अयोमणिस्त्वयस्कान्तः स्यादायोविकृतिः कुशी ।पीतलोहः स्त्रियां रीतिरारकूटकमस्त्रियाम् ॥ ४१८ ॥
2.2.418 · p. 55
अनुष्टुप्
पित्तलं कपिलोहं स्याद्राजरीतिर्महेश्वरी ।काञ्चनी कपिला राष्ट्री ब्राह्मणी चारमस्त्रियाम् ॥ ४१९ ॥
2.2.419 · p. 56
अनुष्टुप्
पञ्चलोहं गुरुज्येष्ठं निष्ठुरं दारुकण्टकम् ।अन्यलोहं सिंहमलं मलिकासरटी स्त्रियाम् ॥ ४२० ॥
2.2.420 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सिं (wrong syllable)
कांस्यं घण्टास्वनं नाट्यं सौरष्ट्रं रवणं मलम् ।कृत्रिमं लोहजं भूरिलोहं चासुरसंज्ञकम् ॥ ४२१ ॥
2.2.421 · p. 56
अनुष्टुप्
सीसोऽस्त्री त्रपुसं च स्याद्योगेष्टं भुजगाह्वयम् ।त्रपु नागं चीनपट्टं हेमघ्नं यवनेष्टकम् ॥ ४२२ ॥
2.2.422 · p. 56
अनुष्टुप्
रङ्गं त्रपुविकारे तु त्रिषु त्रापुषमित्यदः ।गुरुपत्रं त्रपु क्षोभ्यं पिच्छटं मुखभूषणम् ॥ ४२३ ॥
2.2.423 · p. 56
अनुष्टुप्
परासं हेमजं रङ्गं वङ्गं तमरुकं शठम् ।काचः क्षारोऽथ चपलो रसः सूतश्च पारदः ॥ ४२४ ॥
2.2.424 · p. 56
अनुष्टुप्
कुरुविन्दं हंसपादं हिङ्गुलं जातिलिङ्गकम् ।मनःशिला तु कुनटी नागजिह्वा महारसा ॥ ४२५ ॥
2.2.425 · p. 56
अनुष्टुप्
रञ्जनी रोचनी विद्युद्रसनेत्री विगन्धिका ।मनोगुप्ता च नेपाली करवीरा कला च सा ॥ ४२६ ॥
2.2.426 · p. 56
अनुष्टुप्
हरितालं तु खर्जूरं पीतनं नटभूषणम् ।वंशपत्रं तालमालं पिञ्जरं रोमहृद्वरम् ॥ ४२७ ॥
2.2.427 · p. 57
अनुष्टुप्
गन्धाश्मा गन्धकः पीतः पामशत्रुः सुगन्धिकः ।अभ्रकं व्योममेघाख्यं गिरिजामलमित्यपि ॥ ४२८ ॥
2.2.428 · p. 57
अनुष्टुप्
सौराष्ट्री कालिका काली मृगाख्या पार्वती सती ।आढकी तुवरी ताली भूनामा च मृगाह्वया ॥ ४२९ ॥
2.2.429 · p. 57
अनुष्टुप्
शुक्लधातौ पाकशुक्ला कंटिनी कर्कटी कटी ।बोलः पिण्डः शशः प्राणो गोलो गण्ड(न्ध?)रसो रसः ॥ ४३० ॥
2.2.430 · p. 57
अनुष्टुप्
अथ गोला तु नेपाली माक्षिकं चक्रसंज्ञकम् ।स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ ४३१ ॥
2.2.431 · p. 57
अनुष्टुप्
तुत्थाञ्जनं शिखिग्रीववितुन्नकमयूरकम् ।रीतिपुष्पं पुष्पकं च पौष्पकं कुसुमाञ्जनम् ॥ ४३२ ॥
2.2.432 · p. 57
अनुष्टुप्
रसाञ्जनं तार्क्ष्यशैलं शैलेयं रसगर्भकम् ।तुत्थं तु दार्विकक्वाथसंभवं कर्परीति च ॥ ४३३ ॥
2.2.433 · p. 57
अनुष्टुप्
कुलालिका कुम्भकारी चक्षुष्या च कुलत्थिका ॥ ४३४ ॥
2.2.434 · p. 57