कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुषित

muṣitaवि · adj.

In 10 kośas: 9 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1483 · p. 56
गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.151
परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.149 · p. 230
वेष्टिते मुष्टितं तु स्यान्मुषितं च बलोद्धते ।अच्छिन्नमुद्धतं तु स्यादवबर्हितमित्यपि ॥ १४९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.34 · p. 25
मुषितं मूषितं च स्यात्स्तेनितं चोरितं च तत् ।प्रवृद्धं प्रसृतं स्फीतं न्यस्तं निहितमाहितम् ॥ ३४ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.707 · p. 119
चोरितं मुषितं मुष्णं स्थपुटं तून्नतानते ।प्रकृ(सृ?)तं तु प्रवृद्धे स्यान्निदिग्धोपचिते समे ॥ ७०७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2697 · p. 436
मुषितं मूषितं नाम चोरितार्थे प्रयुज्यते ॥ २६९७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.50 · p. 167
मूषितं मुषितञ्चैव चौर्यार्थे खण्डितेऽपि च ।स्यात् प्रवृद्धं प्रसृतञ्च द्वितयन्तु प्रसारिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सृ (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1608 · p. 194
भेदितभिन्नविदारितखण्डितदलितानि पाटितं च समम् ।चोरितरुण्ठितलुण्ठितमूषितमुषितानि पञ्च तुल्यानि ॥ १६०८ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.116 · p. 210
मुषिते लुण्ठितं यस्ते निसृष्टं वृद्धमेधिते ।काचितं शिक्यिते दिश्यं दिग्भवेऽभ्रभवेऽभ्रियम् ॥ ११६ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.24 · p. 70
सुरतं स्यान्निधुवनं देवत्वं सुरता स्मृता ।मुषितं मूषितं चेति उभे खण्डितचोरिते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.78 · p. 216
मुक्तेऽपि चाथोत्थितमुद्यते स्या-द्वृद्धे प्रजातेप्युषितं च दग्धे ।स्थिते तथा पर्युषिते हृते तुद्वेधीकृते स्यान्मुषितं त्रिलिङ्गम् ॥ ७८ ॥
उपजातिः