कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृद्ध

vṛddhaपुं · masc.

In 14 kośas: 27 synonym verses, 5 as a nānārtha head word, 27 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.4 · p. 17
तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ ॥जरी जीर्णो यातयामो जीनोऽथ विस्रसा जरा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.122
कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.42
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.503 · p. 57
प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते ।जरा तु विस्रसा प्रोक्ता दारकस्तरुणो युवा ॥ ५०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.95 · p. 30
आपञ्चाशदब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः ।आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.96 · p. 31
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.49 · p. 74
मेधः कालाक्षरी विप्रो मतिमाञ्शिक्षिताक्षरः ।वृद्धो विदो विदानश्च प्रेक्षाकार्यपि शास्त्रवित् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.150 · p. 105
षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च ।स्यादशीतेस्तु वृद्धोऽथ यद्गन्धाघ्राणतोऽपरे ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.89 · p. 142
शिम्बिधान्यं जलक्लिन्नं साङ्कुरं मणिरूढकम् ।त्रिषु रिद्धं त्वावसितमृद्धं वृद्धं समृद्धकम् ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वा (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.435 · p. 297
वृद्धः कोटरपुष्पोऽथ द्वितीयो जीर्णदारुकः ।सुपुष्पिका जीर्णफली सूक्ष्मपत्राऽजराप्यथ ॥ ४३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.95 · p. 390
दिशां प्रियतमो वृद्धो योगी धूम उलन्दकः ।समुद्राद्वाहनार्थश्च सन्ध्यापर्यायनाट्यपि ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.14 · p. 54
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 161
कदम्बपुष्पी गोशाला भवेद्ग्रन्थिनिकारुणा ।वृद्धः कुलहलो बोटो भूकदम्बस्तपोधनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 168
अश्मपुष्पं शीतशिवं वृद्धं कालानुसार्यकम् ।कालस्थं चापि शैलेयं शिलोध्रं तु शिलोद्भवम् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 210
भवेत्तरुणिमा पुंसि तारुण्यं यौवनेऽस्त्रियाम् ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।जरी जर्णो * * (यात)यामो वृद्धत्वं स्थाविरं समे ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.1 · p. 106
वृन्दं [श्वा]पदमत्थ(?)दं च विरुदं चाच्छोद-तुन्दाङ्गदंगोर्दं गोद-कुसीद-मेद-कुसिदं तद्वत्ककुत्स्या*तम् ।आनद्धं मुरजादिकेषु तिमिरेऽन्धं वृद्धमप्यद्रिजे-ऽवष्टब्धं च महौषधं निगदितं तुल्यें ऽशकेऽर्धं तथा ॥ १ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.371 · p. 98
शीने स्त्यानं तथा प्रोक्तं निर्वातो गतमारुते ।निर्वाणः शीतवह्नौ च प्रौढवृद्धैधितान्यथ ॥ ३७१ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.71 · p. 41
युवा वयःस्थस्तरुणस्तारुण्यं यौवनं वयः ।जरीयान्स्थविरो वृद्धो वार्धक्यं विस्रसा जरा ॥ ७१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.500 · p. 63
वृद्धश्च स्थबिरो जीर्णो जीनो जरी जरन् तथा ।प्रवयाः यातयामश्च कथ्यते विबुधैरिति ॥ ५०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.202 · p. 96
वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा ।स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.11 · p. 111
मनीषी सन् सुधीर्वेदी बुद्धो बृद्धो विधानगः ।दोषज्ञः प्रज्ञिलो धीमान् ज्ञः प्राज्ञः कृष्णिरित्यपि ॥
अनुष्टुप्
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1142 · p. 141
केशादौ जरया शौक्ल्यं पलितं विस्रसा जरा ।जरठः स्थविरो वृद्धः प्रवया दशमी जरन् ॥ ११४२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1659 · p. 199
निवृतं तु परिक्षिप्तं कलिलं गहनं समे ।जैवातृक आयुष्मान् स्फीतं वृद्धं बहुकरः खलपूः ॥ १६५९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.9 · p. 50
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.96 · p. 131
वालुकं चाथ शैलेयं वृद्धं गिरिशिलाह्वयम् ।कालानुसार्यं पाषाणपुष्पं शितशिवं शिवम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.116 · p. 210
मुषिते लुण्ठितं यस्ते निसृष्टं वृद्धमेधिते ।काचितं शिक्यिते दिश्यं दिग्भवेऽभ्रभवेऽभ्रियम् ॥ ११६ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास धार्धश्लोकः Dharaṇikośa 18.2.8 · p. 101
वृद्धं रूढे च शैलेये वृद्धौ स्थविरपण्डितौ ।दग्धं प्लुष्टं दिक् च दग्धा रविर्यस्यां न तिष्ठति ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.55 · p. 239
वृद्धं शिलाजे परवत्तु जीर्णेरूढे तथा सूरिणि संप्रदिष्टम् ।स्याद्वेधिते विद्धमिदं सदृक्त्वेबुद्धस्तु पुंसि प्रथितो जिनार्थः ॥ ५५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1281 · p. 152
कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु ।त्रिमात्रसामवर्णे च स्यादेधितमनीषिणोः ॥ १२८१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1282 · p. 152
ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना ।दैत्यभेदे गिरौ मेधे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.14 · p. 232
वृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे ।वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)

वृद्ध as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् दशमीस्थसमर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥ Amarakośa 3.3.87
  • नामलिङ्गानुशासनम् बुधबुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥ Amarakośa 3.3.100
  • नामलिङ्गानुशासनम् ज्यायस्वृद्धप्रशस्ययोर्ज्यायान्कनीयांस्तु युवाल्पयोः । Amarakośa 3.3.458
  • धरणिकोश ज्येष्ठज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः । कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥ Dharaṇikośa 11.2.3
  • धरणिकोश शम्बरशम्बरः संयुगे वृद्धे मृगदैत्यप्रभेदयोः । श्रेष्ठे शिवारथौषध्यां शम्बरी शम्बरं जलम् ॥ Dharaṇikośa 26.3.35
  • धरणिकोश सरलपेशलं चतुरे चारौ पुद्गलो वपुरात्मनोः । कल्लोलौ रिपूल्लोलौ सरलौ वृद्धपापकौ ॥ Dharaṇikośa 27.1.6
  • धरणिकोश ज्यायस्ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ Dharaṇikośa 31.2.9
  • कोषकल्पतरु शतानीकवृद्धे शतानीक ऋषेश्च भेदेऽ- थ ग्रामणीभण्डशरोपधाने । खरालिकः कौक्कुटिकस्त्वदूरे- रितेक्षणे दाम्भिक ईरितोऽत्र ॥ ३९ ॥ Koṣakalpataru 6.1.39
  • कोषकल्पतरु तरण्डशूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सिते पश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा । वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा- वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥ Koṣakalpataru 6.12.83
  • कोषकल्पतरु उत्थितमुक्तेऽपि चाथोत्थितमुद्यते स्या- द्वृद्धे प्रजातेप्युषितं च दग्धे । स्थिते तथा पर्युषिते हृते तु द्वेधीकृते स्यान्मुषितं त्रिलिङ्गम् ॥ ७८ ॥ Koṣakalpataru 6.16.78
  • कोषकल्पतरु उच्छ्रितउन्नद्धवृद्धौदनिकेषु चोच्छ्रितं हेम्न्यस्त्रियां स्यात्कलधौतके तथा । हारे द्विपानां दशनेऽथ पाण्डुरे- ऽन्यवद्गिरौ ना रजतं प्रदिष्टम् ॥ ८० ॥ Koṣakalpataru 6.16.80
  • कोषकल्पतरु जिनइनो नृपे भर्तरि भास्करे स्या- द्धनोऽस्त्रियां गोधनवित्तयोश्च । जिनस्तु बुद्धे नरि जित्वरार्ह- वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥ Koṣakalpataru 6.21.82
  • कोषकल्पतरु ज्यायस्ज्यायांस्तु वृद्धे च तथा प्रशस्ये घृते हविः स्याच्चरमे च होम्ये । रेपस्त्ववद्ये कृपणेऽधमे च क्रूरेऽन्यवत्स्यादथ पुंसि वेधाः ॥ ९८ ॥ Koṣakalpataru 6.31.98
  • नानार्थार्णवसंक्षेप जर्णजर्णो ना पादपे चन्द्रे कर्वे पक्षिणि तु द्वयोः । त्रिषु वृद्धेऽथ जर्तो ना स्वाङ्गे प्रजननाह्वये ॥ ४६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.462
  • नानार्थार्णवसंक्षेप जूर्णज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः । वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.486
  • नानार्थार्णवसंक्षेप नभस्श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् । वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ॥ ६७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.675
  • परमानन्दीयनाममाला उत्थितउदानो वायुभेदे स्यात्सर्पभेदेऽपि कुत्रचित् । उदूढः पृथुले व्यूढे उत्थितं जातवृद्धयोः ॥ ६६ ॥ Paramānandīyanāmamālā 5.3.66
  • शब्दरत्नावली सूचकसूचकः पिशुने काके बिडाले बोधके शुनि । सीवनद्रव्यभेदे च वृद्धे सिद्धपिशाचयोः ॥ Śabdaratnāvalī 7.1.151
  • शब्दरत्नावली शतानीकखेड्डताले पुमान् बोधकरे वैतालिकस्त्रिषु । वृद्धे मुनौ राजभेदे शतानीक उदीरितः ॥ Śabdaratnāvalī 7.1.199
  • शब्दरत्नावली अर्हन्तअर्हन्तः पुंसि वृद्धे स्यात्सुगते च महेश्वरे । अर्वती वडवायाञ्च कुम्भदास्यामपि स्त्रियाम् । अङ्गतिर्ना ब्रह्मविष्ण्वोरग्निहोतरि केशवे ॥ Śabdaratnāvalī 7.16.78
  • शब्दरत्नावली दशमीस्थदशमीरथोऽपि वृद्धे स्यान्नष्टबीजेऽन्यलिङ्गकः । वानप्रस्थे मधुकद्रुतृतीयाश्रमयोः पुमान् ॥ Śabdaratnāvalī 7.17.16
  • शब्दरत्नावली विभुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • शब्दरत्नावली मिहिरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
  • शब्दरत्नावली ज्यायस्ज्यायानतिप्रशस्ते स्याद् वृद्धेऽपि च भवेत्त्रिषु । ज्योतिर्दृष्टिप्रकाशर्क्षे क्लीबं ना सूर्यशुष्मणोः ॥ Śabdaratnāvalī 7.32.21
  • त्रिकाण्डशेष ज्येष्ठदात्यूहे कालकण्ठः स्याच्छिवखञ्जनयोरपि । ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ॥ १०७ ॥ Trikāṇḍaśeṣa 3.3.107
  • वैजयन्ती जीर्णत्रिषु जीवति मौर्व्यां स्त्री स्याज्जीर्णो वज्रवृद्धयोः । झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥ ३४ ॥ Vaijayantī 6.5.34
  • वैजयन्ती उच्छ्रितउद्धृतं भुक्तनिर्मुक्ते तुलिते चाप्यथोच्छ्रितम् । वृद्धे तुङ्गे समुत्पन्नेऽप्युदितौ कथितोद्गतौ ॥ ५ ॥ Vaijayantī 7.4.5