दिश्य
diśyaवि · adj.In 8 kośas: 8 synonym verses.
genderविadj.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderविadj.
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं पुनः ।सार्वदिक्कं तु दिश्यं स्यादमूनि त्रिषु तद्वति ॥ ५८ ॥
अनुष्टुप्
genderविadj.
आसन्नगमना भानोः सा भवेच्च प्रधूमिता ।रविणाधिष्ठिता दग्धा दिश्यं तु त्रिषु दिग्भवे ॥दिशोऽपत्ये[19a] तु दैशेयोऽन्यदाशान्या भवेत्ककुप् ।क्लीबाव्ययं त्वपदिशं विदिक्प्रदिगिमे समे ॥अन्तरालं विचालं च स्त्रियामभ्यन्तरान्तरे ।त्रिषु मध्ये चक्रवालं मण्डलं च त्रिलिङ्गकम् ॥ २० ॥
अनुष्टुप्metre not read in every line
genderविadj.
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderविadj.
विदिक् त्वपदिशं चैव प्रदिक् च कथ्यते बुधैः ।दिश्यं दिग्भववस्तुन्यपागपाचीनमेवस्यात् ॥ १७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 7 व (wrong syllable)
genderविadj.
दिग्भवं सर्वमेव स्यात् दिथ्यं त्रिषु निगद्यते ।महेन्द्रोऽग्निर्धर्मराजो निर्ऋतिर्वरुणोऽनिलः ॥
अनुष्टुप्
genderविadj.doubtful
मुषिते लुण्ठितं यस्ते निसृष्टं वृद्धमेधिते ।काचितं शिक्यिते दिश्यं दिग्भवेऽभ्रभवेऽभ्रियम् ॥ ११६ ॥
अनुष्टुप्
genderविadj.