प्रसृत
prasṛtaपुं · masc.In 15 kośas: 18 synonym verses, 5 as a nānārtha head word, 10 as a meaning of another word.
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः ।प्रतूर्णस्त्वरितस्तूर्ण उत्सुकः प्रसृतः स्मृतः ॥ ३५३ ॥
अनुष्टुप्
genderविadj.
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderविadj.
अङ्गुलीमङ्गुलिं चाहुरङ्गुरीमङ्गुरिं तथा ।प्रदेशिनी(?)प्रदेशिन्यौ प्रसृतिः प्रसृतः समौ ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते ।न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥
अनुष्टुप्
genderविadj.
संपीडिताङ्गुलौ पाणौ खटकस्त्वर्द्धमुष्टिकः ।प्रसृतिः प्रसृतः पुंसि पाणौ संकुचिताङ्गुलौ ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
शतमानं तु न स्त्री स्याद्दशती राजतं पलम् ।पलद्वयं तु प्रसृतः प्रसृतिः स्त्री च कथ्यते ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
मुषितं मूषितं च स्यात्स्तेनितं चोरितं च तत् ।प्रवृद्धं प्रसृतं स्फीतं न्यस्तं निहितमाहितम् ॥ ३४ ॥
अनुष्टुप्
genderविadj.
मीलिताङ्गुलिहस्ते तु मुस्तुः स्यान्मुचुटी स्त्रियाम् ।प्र[73]सृतौ प्रसृत आख्यातोऽथाञ्जलिर्द्वौ करौ युतौ ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
प्रसृतैककरे वै तु प्रसृतिः प्रसृतः स्मृतः ।उक्तपाणिद्वये प्रोक्तश्चाञ्जलिश्चाञ्ज इत्यपि ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
मुष्टिर्मुस्तुश्च सङ्ग्राहोऽर्द्धमुष्टिः खटकस्तु वै ।प्रसृतः प्रसृतिः पाणिः कुब्जितः कथ्यते किल ॥ ९६१ ॥
अनुष्टुप्
genderपुंmasc.
उभयाञ्जलिमानं वै प्रसृतं कुडवोऽथवा ।चतुर्भिः कुडवैः प्रस्थः प्रोच्यते हि महीतले ॥ १४८८ ॥
अनुष्टुप्
genderक्लीneut.
चपेटौ द्वौ करौ संहतलः संहत इत्यपि ।एकहस्तो निम्नतलं प्रसृतं प्रसृतिः स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderक्लीneut.
मूषितं मुषितञ्चैव चौर्यार्थे खण्डितेऽपि च ।स्यात् प्रवृद्धं प्रसृतञ्च द्वितयन्तु प्रसारिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सृ (wrong syllable)
genderविadj.
वितस्ति-खड्गमुष्ट्योश्च, कुब्जिताङ्गुलिके करे ।प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
आधार्मिकोऽधार्मिकः स्यात्प्रसृतान्तरितौ समौ ।कृपणो दृढमृष्टिः स्याद्देवयुर्धार्मिकः सुकृत् ॥ १२ ॥
अनुष्टुप्
genderविadj.
चपेटश्चर्पटस्तालः प्रहस्तः प्रतलस्तलः ।षट् ते ततांगुले हस्ते न्युब्जेऽस्मिन् प्रसृतः करे ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
पादिकं ताम्रकर्षं स्यादिन्दुः स्याद्रजते पले ।कुरुविस्तः पले हेम्नः प्रसृतोऽस्त्री द्विमुष्टिके ॥ ५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रस्मृतोऽर्धाञ्जलौ ज्ञेयः प्रसृतोऽपि च वेगिते ।प्रसृता तु मता जङ्घा विनीतः प्रसृतो मतः ॥
अनुष्टुप्
हर्यत उक्तस्तुरगे स्पृहणीये वाच्यलिङ्गोऽसौ ।प्राज्ये प्रभूतमुक्तं तथोद्गतेऽर्धाञ्जलौ प्रसृतः ॥ ९५ ॥
metre not recognised
meaningsअर्धाञ्जलि
द्विमुष्टिकेऽर्धकुडुंबमाने स्याद्वेणुपर्पटे ।निकुब्जपाणौ च त्रिस्तु वेगिते विस्तृतेऽपि च ॥ ११०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
doubtful
पलितं शैलजे तापे केशपाके च कर्दमे ।प्रसृतोऽर्द्धाञ्जलौ स्त्री तु जङ्घायां वेगिते त्रिषु ॥
अनुष्टुप्
प्रसृत as a meaning in nānārtha verses
- कोषकल्पतरु चलुककटुकं कटुरोहिण्यां द्वंद्वेऽल्पे सर्षपे व्योषे । चलुकश्चुलकश्च द्वौ प्रसृतौ भाण्डप्रभेदे च ॥ ३७ ॥ Koṣakalpataru 6.1.37
- कोषकल्पतरु वर्धितगर्जित इभेऽतिमत्ते क्लीबे त्वम्भोधरध्वाने । वर्धितमुक्तं प्रसृते छिन्ने संपूरिते तद्वत् ॥ ८६ ॥ Koṣakalpataru 6.16.86
- नानार्थार्णवसंक्षेप प्रवृद्धप्रबद्धो विरतस्वापे सावधानेऽपि पण्डिते । प्रवृद्धस्त्वेधिते चापि प्रसृतेऽथ प्रसिद्धवाक् ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 3.4.34
- नानार्थार्णवसंक्षेप गण्डूषगजस्य पुष्करेऽन्ये तु प्रसृतान्मितवस्तुनि । अन्ये तु प्रसृते लिङ्गत्रयेऽसौ कीर्तितो बुधैः ॥ ६४४ ॥ Nānārthārṇavasaṃkṣepa 4.644
- नानार्थार्णवसंक्षेप गण्डूषप्रसृते तु द्रवाधारे गण्डूष इति यादवः । गण्डोलस्तु पुमान् पिण्डे गजस्य मुखपार्श्वयोः ॥ ६४५ ॥ Nānārthārṇavasaṃkṣepa 4.645
- नानार्थार्णवसंक्षेप चुलुकव्याघ्रभेदे द्रवाधारप्रसृते तु नरस्त्रियोः । चुलुकी रभसस्त्वाह भाण्डभेदे पुमानयम् ॥ ७५१ ॥ Nānārthārṇavasaṃkṣepa 4.751
- शब्दरत्नावली वर्धितक्लीबन्तु रक्तगोशीर्षे कुङ्कुमे चैव चन्दने । वर्द्धितं न द्वयोश्छिन्ने प्रसृते पूरितेऽपि च ॥ Śabdaratnāvalī 7.16.131
- शब्दरत्नाकर गण्डूषमत्तेभे गर्जितः पुंसि क्लीबे मेघेभनादयोः । गण्डपूर्तौ तु गण्डूषः प्रसृते करिपुष्करे ॥ २०८६ ॥ Śabdaratnākara 4.1.2086
- वैजयन्ती प्रवृद्धप्रहतौ क्षुण्णव्युत्पन्नौ प्रयतौ पूतसंस्कृतौ । सव्यायत्तौ प्रसव्यौ द्वौ प्रवृद्धौ प्रसृतैधितौ ॥ १८ ॥ Vaijayantī 7.4.18
- वैजयन्ती गण्डूषगर्जितो मत्तमातङ्गे क्ली तन्नादेंऽबुदध्वनौ । गण्डूषोऽस्त्री गण्डपूर्तौ प्रसृते गजपुष्करे ॥ ३४ ॥ Vaijayantī 7.5.34