कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वसन्तदूती

vasantadūtīस्त्री · fem.

In 5 kośas: 4 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.54 · p. 101
वसन्तदूती वसतिरनन्ता चापराजिता ।पक्षतिर्जगती सुप्तिः कीर्ति-मूर्त्यर्ति-भक्तयः ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.19 · p. 13
पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी ।वसन्तकामयोर्दूती कुम्भिका कालवृन्तिका ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.208 · p. 15
सुगन्धाढ्या वृत्तपुष्पा मल्लिका वटपत्रिका ।वसन्तदूती वासन्ती माधवी मधुमल्लिका ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.141 · p. 67
वसन्तदूती वासन्ती माधवी माधवीलता ।लता लतामाधवी स्यादतिमुक्तश्च पुण्ड्रकः ॥
अनुष्टुप्
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र तपं Śivakoṣa 12.4.212 · p. 20
अपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु ।कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥
उपगीतिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.178 · p. 226
गिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता ।विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि ।पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः ।भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः ।रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)

वसन्तदूती as a meaning in nānārtha verses

  • शिवकोष प्राचीनाप्राचीना घनकट्व्योर्वसन्तदूत्यां च पाठिनः । चित्रे पुरे च पिशुनं धीरे पिशुना तु पृक्कायाम् ॥ २५७ ॥ Śivakoṣa 16.1.257