अपराजिता
aparājitāस्त्री · fem.In 13 kośas: 28 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ ॥मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः ।श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ ॥
अनुष्टुप्
genderस्त्रीfem.
आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
पिचव्यो बादरः प्रोक्तः कर्पासस्तूलकं पिचुः ।कोशातकी पटोली स्याद् गिरिकर्ण्यपराजिता ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
सक्तुफलाऽपि विजया शान्ता चाप्यपराजिता ।शुभाऽप्यथ शमीरः स्याच्छम्यारुरपि पुंस्युभौ ॥ ३१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
genderस्त्रीfem.
श्वेताऽपराजिता श्वेता नीलपुष्पी गवादिनी ।महानीला नीलगिरिकर्णी स्यान्नीलसंध्यका ॥ ४१९ ॥
अनुष्टुप्
genderस्त्रीfem.
कालप्रियकरी वन्या वराहपत्रिका च सा ।हपुषा विपुषा विस्रा विगन्धाऽथापराजिता ॥ ४९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderस्त्रीfem.
शिफालिकाऽपि शुक्लाङ्गी सुवहा चापराजिता ।वातारिर्विजया भूतकेशस्य क्षेत्रसम्भवः ॥ ५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्वेतात्सर्पमधुभ्यश्च पुष्पा स्याच्छलदन्तिका ।नागदन्ती स्वादुकाऽथ विष्णुक्रान्ताऽपराजिता ॥ ५६४ ॥
अनुष्टुप्
genderस्त्रीfem.
सूर्यार्थादस्तपर्यायाऽथोदीची त्वपराजिता ।इन्द्राग्नियमरक्षोम्बुवायुश्रीदपिनाकिनाम् ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
कालञ्जरी भद्रकाली नारायण्यपराजिता ।वृषाकपायी षष्ठी स्यात्तामस्यपि च लम्बिका ॥ १२९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रत्येकमूर्छनैकैका ग्रामेष्वेषु प्रजायते ।बोधा लला समाधानी पूरणी चापराजिता ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
आस्फोता दधिपुष्पी खट्वाथाद्य(?)पराजिता ।गर्दभी जनिका सूर्या श्वेतपाटलिपिण्डका ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
विष्णुक्रान्ता नीलपुष्पा सफला चापराजिता ।मत्स्याक्षबीजोऽर्कसुतो विषबीजो विषोदरः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
बला मोटा सूक्ष्ममूला जयन्ती विजया जया ।हरिता सूक्ष्मपत्रा च प्रोक्ता सैवापराजिता ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
मत्स्यान्तबीजोऽर्कसुतो[58b] विषगन्धो विषोदरः ।सफलीभूर्दधिशमी विष्णुक्रान्तापराजिता ॥ ७६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वसन्तदूती वसतिरनन्ता चापराजिता ।पक्षतिर्जगती सुप्तिः कीर्ति-मूर्त्यर्ति-भक्तयः ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्फले वशिरो हस्तिपिप्पली श्रेयसीत्यपि ।स्याद्गिरिकर्ण्यामास्फोता विष्णुक्रान्ताऽपराजिता ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द्गि (wrong syllable)
genderस्त्रीfem.
अपराजिता नारसिंही चामुण्डेत्यष्टमातरः ।शतधामा पृष्णिगर्भः पाञ्चजन्यधरोऽच्युतः ॥ ३९२ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
विष्णुक्रान्ता तथाऽऽस्फोटाऽऽस्फोता चाप्यपराजिता ।प्रसिद्धा गिरिकर्णी चाऽप्रतिहता पुनर्भवेत् ॥ २०७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderस्त्रीfem.
वैद्यसिंही मातृसिंही सिंहिकाटरुषोऽपि च ।विष्णुक्रान्ता तथा स्फोता गिरिकर्ण्यपराजिता ॥
अनुष्टुप्
genderस्त्रीfem.
वातकोऽशनपर्णी च शीतः शीतलवातकम् ।शीतकं शनपर्णी च सनपर्ण्यपराजिता ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतीची मारुताशा स्यादनन्ता हरिदुत्तरा ।उदीची शांभवी काष्ठा शालाक्षाप्यपराजिता ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
सा तु शुक्ला वृश्चिकः स्यात् सा तु कृष्णा कठिल्लकः ।किणिही शीतला मैत्री प्रत्यक्श्रेण्यपराजिता ॥ ५९८ ॥
अनुष्टुप्
genderस्त्रीfem.
परुण्डुश्च पलाण्डुश्च लतार्कश्चापराजिता ।गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥ ६५६ ॥
अनुष्टुप्
genderस्त्रीfem.
मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ।कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
दीर्घवल्यां वेत्रवन्यौ कुरुवेत्रश्च भूरदः ।गवाक्ष्यां किणिही जैत्री प्रत्यक्छ्रेण्यपराजिता ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्रह्मलोकः सत्यलोकस्तत्र पुर्यपराजिता ।योगस्त्वाध्यात्मिकोऽथासावष्टांगोंऽगैर्यमादिभिः ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
अथापराजितः पुंसि हरे विष्णौ स्त्रियां पुनः ।ब्रह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥
अनुष्टुप्
meaningsपुर
विद्यादसनपर्ण्याख्यक्षुद्रवृक्षे लतान्तरे ।गिरिकर्णीसमाख्ये स्यादीशानदिशि च त्रि तु ॥ ३ ॥
अनुष्टुप्
doubtful
अपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु ।कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥
उपगीतिः
अपराजिता as a meaning in nānārtha verses
- शब्दरत्नावली गिरिकर्णीगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
- शब्दरत्नावली कुमारीकुमारी वनमाल्यां स्त्री भवान्याञ्च नदीभिदि । जम्बुद्वीपसहाकन्याऽपराजितास्वपि स्त्रियाम् ॥ Śabdaratnāvalī 7.27.65