माधवी
mādhavīस्त्री · fem.In 22 kośas: 38 synonym verses, 6 as a nānārtha head word, 11 as a meaning of another word.
सा कृष्णा मधुका रक्ता शौधिका मुशटी सिता ।पीता माधव्यथोद्दालः कोद्रवः कोरदूषकः ॥ ११७७ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ।
अनुष्टुप्
genderस्त्रीfem.
बन्धूकं बन्धुजीवं स्यात्पुन्नागः सुरपर्णिका ।अतिमुक्तकमिच्छन्ति वासन्तीं माधवीं लताम् ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
शुण्ठी तु रूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली माधवी शौण्डी वृषलण्डूषणा बला ॥ २७४ ॥
अनुष्टुप्
genderस्त्रीfem.
माधव्यनन्यगमना निःसङ्गा तु वसन्तिका ।एला तु चन्द्रलतिका लवङ्गलतिका वधूः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
मङ्गल्यं च वरारोहा कथ्यते देवमल्लिका ।निस्सङ्गा माधवी ज्ञेया गुञ्जचूडामणिस्तथा ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
वसुन्धरा वसुमती ग्मा ज्या भूमिश्च माधवी ।स्त्रियां पूषा क्रोडकान्ता पृथिवी महिरित्यपि ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां स्यान्माधवी सैव काकपर्यायकङ्गुनी ।कोरदूषः कोद्रवः स्यादुद्दालो वनकोद्रवे ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
शर्करा चापि सा तु स्यान्मधुजा मधुशर्करा ।शीता जात्या माधवी स्यात्सोक्ता माक्षीकशर्करा ॥ २२२ ॥
अनुष्टुप्
genderस्त्रीfem.
वाल्कली कपिशा वीरा काहला कालवाब्धिजा ।शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
हालाहलोऽस्त्रियां चापि माधवी माधवोपि च ।मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रहसन्ती महाजाती मध्वाढ्या चाथ यूथिका ।माधवी गणिकाम्बष्ठा मोदिनी बालपुष्पिका ॥ २६२ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मणो रक्तप्रसवः करुणी ग्रीष्मपुष्प्यपि ।रक्तपुष्पा सारुणी स्याच्चन्द्रवल्ली तु माधवी ॥ २६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्त (wrong syllable)
genderस्त्रीfem.
सुगन्धा माधवी चाथ सुपुष्पा सुरसाऽपि च ।सुरसा तालपर्णी च निःश्रेया वनजाऽपि सा ॥ ४५० ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रवल्ली चन्द्रवल्ली सुगन्धा माधवी च सा ।मुकुटस्तृणशूल्यं वा अस्ना त्वेषा च वार्षिकी ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
बहुपुष्पा सितच्छत्रा घोषा स्यान्माधवी शता ।अतिच्छत्रा तु महती छत्राऽवाक्पुष्पिका च सा ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
पोटा चेटा तथा कुट्टहारिका कुट्टिनी पुनः ।चुण्टी चुन्दी शम्भली स्यात्कर्णिका माधवी च सा ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियङ्गु-कङ्गु-कङ्गुन्यः क्वङ्गुः स्त्री पीततन्दुला ।शोधिका मुशटी श्वेता साथ पीता तु माधवी ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
मधुरा सा माधवी सा पक्वा यस्य तु चार्करा ।स्याद्यासशर्करा पुष्पासवस्तु मधु न स्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
पराश्रयः सुवसन्तः कामुको माधवी लता ।पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderस्त्रीfem.
शतपुष्पायां तु घोषा शताह्वा माधवी मिसिः ।अतिच्छत्रा छत्रपुष्प्यवाक्पुष्पा कारवी सहा ॥ ३३६ ॥
अनुष्टुप्
genderस्त्रीfem.
सा कृष्णा मधुका रक्ता शोधिका मुसटी सिता ।पीता माधव्यधोद्दाले कोद्रवः कोरदूषकः ॥ ३९५ ॥
अनुष्टुप्
genderस्त्रीfem.
मध्वासवसमाख्ये तु मद्यभेदे नृशण्डयोः ।स्त्रियां तु माधवी पुष्पवल्लिजात्यन्तरे भवेत् ॥ १३९३ ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
जम्बीरको दन्तशठो जम्भो जम्बीरजम्भलौ ।मधुरो मधुजं वीरो माधवी मधुजम्बकः ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धाढ्या वृत्तपुष्पा मल्लिका वटपत्रिका ।वसन्तदूती वासन्ती माधवी मधुमल्लिका ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
वासन्ती माधवी चापि पुण्ड्रकस्तथाऽतिमुक्तकः ।लता चेति हि नामानि वासन्त्याः सम्भवन्ति वै ॥ २०४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
मुसटी श्वेतकङ्गुः स्याद् माधवी पीतकङ्गुनी ।उद्दालः काद्रवः स्याच्च कोद्रवः कोरदूषकः ॥ २१२३ ॥
अनुष्टुप्
genderस्त्रीfem.
रिष्टा धूमप्रभा स्याद्वै माधव्या च तमःप्रभा ।महातमःप्रभा नाम चरमं माधवी भवेत् ॥ २४७० ॥
अनुष्टुप्
genderस्त्रीfem.
माहेश्वरी महादेवी हिण्डी हैमवतीश्वरी ।ईश्वरा कोट्टवी षष्ठी माधवी गणनन्दिनी ॥
अनुष्टुप्
genderस्त्रीfem.
वसन्तदूती वासन्ती माधवी माधवीलता ।लता लतामाधवी स्यादतिमुक्तश्च पुण्ड्रकः ॥
अनुष्टुप्
genderस्त्रीfem.
माधवीलता माधव्यथोड्रपुष्पे जपा जवा ।मालत्यां तु जातिर्जाती सुमनाऽबन्त-सन्तगा ॥ १७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable); pāda 3, syllable 5 जा (wrong syllable)
genderस्त्रीfem.
क्लीतकी नीलिनी डोला कुणिका च महारसा ।पुण्ड्रकस्त्वतिमुक्तः स्याद्वासन्ती माधवी लता ॥ ५२९ ॥
अनुष्टुप्
genderस्त्रीfem.
सरको मेदना कल्या माधवी मतिमोहिनी ।तद्भेदा माधवः पैष्टी गोली माध्वी मधूलिका ॥ १५५७ ॥
अनुष्टुप्
genderस्त्रीfem.
वीरा दैत्या प्रसन्ना च माधवी गन्धमादनी ।गौडी च वाल्कली मध्वासवपक्वरसौ नरि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
सितायां श्वेतसुरसा वासन्त्यां माधवी लता ।निस्संगजा कान्तनाला प्रहसन्ती कुटुंबिका ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
शीधु कश्यमिरा कल्या शुण्डा देवी परिस्रुता ।परिस्रुन्माधवी हाला प्रसन्ना मदिरा सुरा ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
पुष्पाकरे स्त्री त्वतिमुक्तमद्य-दूतीषु च स्यान्मधुशर्करायाम् ।लोध्रे मुनौ गालव आर्तवं तुऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥
उपजातिः
doubtful
अतिमुक्तकसंज्ञे स्यात् सुरायां च तथा विदुः ।कोशातक्याः प्रभेदे च भवेद्दीर्घफलाह्वये ॥ १३९४ ॥
अनुष्टुप्
doubtful
जयन्त्यामिति च प्रोक्तं केनचित् तन्निरूप्यताम् ।रभसः शतपुष्प्यां च ब्रवीति मधुशर्कराम् ॥ १३९५ ॥
अनुष्टुप्
doubtful
पदवी सहदेवायां नागबलायां च माधवीकुम्भ्याम् ।नेपाल्यामतिमुक्ते वीरायां क्षौद्रशर्करायां च ॥ ५०५ ॥
गीतिः
अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् ।फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥माधवो यादवे विष्णौ मधुवैशाखयोरपि ।माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः ।राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे ।वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
माधवी as a meaning in nānārtha verses
- धरणिकोश लतालता व्रततिमाधव्योर्लता प्रियङ्गुशाखयोः । लता दूर्वा च पृक्का च लता ज्योतिष्मती स्मृता ॥ Dharaṇikośa 15.3.12
- कोषकल्पतरु वासन्तीजीवाशम्योः कामरुहामृतवल्ल्यो- र्जीवन्ती स्यात्पुंसि पुनर्भेषजनाम्नि । वासन्तः स्यात्कोकिल उष्ट्रे च विटे च स्त्री माधव्यां पाटलिकायामपि यूथ्याम् ॥ ४५ ॥ Koṣakalpataru 6.16.45
- नानार्थार्णवसंक्षेप अतिमुक्तमाधवीसंज्ञकुसुमलतायां चाप्यथ त्रिषु । अतीव मुक्तेऽत्याकारस्त्वधिक्षेपे परे पुनः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 6.20
- शिवकोष लतालता ज्योतिष्मतीस्पृक्कालताकस्तूरिकासु च । दूर्वायां च प्रियङ्गौ च माधव्यां च नखेऽपि च ॥ १८४ ॥ Śivakoṣa 12.1.184
- शिवकोष वासन्तीवासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् । कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥ Śivakoṣa 12.2.196
- शिवकोष अतिमुक्तअतिमुक्तस्तु माधव्यां कालस्कन्धे रथद्रुमे । अंशुमान् भास्करे शालिपर्ण्यामंशुमती मता ॥ १९८ ॥ Śivakoṣa 12.3.198
- शिवकोष वसन्तदूतीअपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु । कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥ Śivakoṣa 12.4.212
- शिवकोष काञ्चनपुष्पीकाञ्चनपुष्पी यूथिभिन्माधवीपाटलासु च ॥ ३१३ ॥ Śivakoṣa 17.4.313
- शब्दरत्नावली लतारीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके । लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥ Śabdaratnāvalī 7.16.47
- शब्दरत्नावली कपिशीआदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके । कपिशः सिह्लके पिङ्गे माधव्यां कपिशी स्त्रियाम् ॥ Śabdaratnāvalī 7.30.13
- तन्त्राभिधान मजठरो भाववीरश्च महाबालो बलानुजः । माधवी मरणं मायी मन्त्रेशो मा-र्णको मतः ॥ ४२ ॥ Tantrābhidhāna 6.42