कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मल्लिका

mallikāस्त्री · fem.

In 22 kośas: 31 synonym verses, 3 as a nānārtha head word, 25 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1024 · p. 40
शालाजीरो वर्धमानः शरावः कोशिका पुनः ।मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् ॥ १०२४ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.58 · p. 45
मल्लिका स्याद्विचकिलः सप्तला नवमालिका ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.69
श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.206 · p. 25
हेमपुष्पमिह नागकेसरं,केसरं च वकुलं प्रचक्षते ।कोविदारमपि काञ्चनारकं,मल्लिकां विचकिलं विचक्षणाः ॥ २०६ ॥
रथोद्धता
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.316 · p. 38
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.241 · p. 88
वासन्ती हेमपुष्पी स्यात् मल्लिका मुक्तबन्धना ।भूपतिः स्याद्वीचकीलो गवाक्षी तृणशून्यकम् ॥ २४१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्तापिञ्जोऽपि ता(त?)पिञ्जो मल्ली मल्लिश्च मल्लिका ।आविग्नः स्यादविग्नोऽपि यूथी स्यादपि यूथिका ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 38 · p. 4
नन्द्यावर्तो नभोजीवी मालती राजपुत्रिका ।भोगिनी मलिका च स्यान्मल्लिका सुरमातृका ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.27 · p. 24
मालती राजपुत्री स्यात्सुगन्धा नवमालिका ।मल्लिकायां विचकिलो मङ्गलं तस्य सौरभम् ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.408 · p. 65
दाहागुरुर्दाहकाष्ठं पुरं धूपाङ्गदः पुनः ।वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥ ४०८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.256 · p. 277
श्वेतारुणैः सुकुसुमैर्भद्रवल्ली तु मल्लिका ।शीता भीरुप्रिया सौम्या गौरी च वनचन्द्रिका ॥ २५६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.258 · p. 277
मल्लिका वटपत्रा च सुगन्धा वृत्तमल्लिका ।वृत्तपुष्पा च मुक्ताभा श्रीवल्ली सुलभप्रिया ॥ २५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 138
द्वयहीनं यथैरण्डमशोकं चाम्रमित्यपि ।जात्यादयः स्वलिङ्गाः स्युः पुष्पे जाती च मल्लिका ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 154
मल्लिका नीलयष्टिः स्याद्बीजे त्वस्येन्द्रबीजकम् ।भवेद्भद्रयवः पुंसि फलं त्विन्द्रयवो भवेत् ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.93 · p. 159
मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी ।मदनीया गवाक्षी च भूपद्यष्टपुटी तथा ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 230
जटाज्वालो गृहमणिर्द्योतनोऽञ्जनकेतनः ।स्नेहप्रियोऽथास्य पात्रं कोशिका मल्लिका द्वयोः ॥ ३२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 278
मल्लिका कोशिका पारी कंसस्तु चषकोऽस्त्रियाम् ।स्यात्पानभाजनं न स्त्री पिधानं स्यादुदञ्चनम् ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.302 · p. 42
कौशिका मल्लिका तुल्ये चषकः कंससंज्ञकः ।पारी तु स्यात्पानपात्रं स्नेहपात्रं कुतूः स्त्रियाम् ॥ ३०२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.70 · p. 60
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.208 · p. 15
सुगन्धाढ्या वृत्तपुष्पा मल्लिका वटपत्रिका ।वसन्तदूती वासन्ती माधवी मधुमल्लिका ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.142 · p. 16
अगो नगोऽगमो द्रुश्च फलवांश्च वनस्पतिः ।केतकः केतकी जाती चम्पको मल्लिका जपा ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1763 · p. 287
कोशिका मल्लिका कंसः पारी च पानभाजनम् ॥ १७६३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2043 · p. 338
मल्लिका तृणशून्यं च विचकिलश्च भूपदी ।शतभीरुस्तथा शीतभीरुर्नामानि सन्ति वै ॥ २०४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.136 · p. 67
मल्लिर्मल्ली शीतभीरुः शतभीरुश्च मल्लिका ।तृणशूल्या मोदयन्ती भूपदी मदयन्तिका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.34 · p. 310
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.176 · p. 232
विचकिले मल्लिका च मल्लिः स्याच्छतभीरुका ।शीतभीरुर्वनजेऽस्मिन्नास्फोता स्फोटया समम् ॥ १७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.544 · p. 70
गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका ।भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.545 · p. 71
वनजा मल्लिकास्फोटा बन्धूको बन्धुजीवकः ।गन्धर्वहस्त एरण्ड उरुपूगो व्यडम्बकः ॥ ५४५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1802 · p. 218
मुद्गरो मदयन्ती च गवाक्षी मुक्तबन्धना ।मल्लिकायां वरारोहा गोधामल्ल्यां तु सेवनी ॥ १८०२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 106 · p. 537
मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका ।शीतभीरुर्मदयन्ती भूपादी तृणशून्यकम् ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.183 · p. 60
मल्लिकायां विचकिलो भूपदी मुक्तबन्धना ।शतभीरुर्मदयन्ती गवाक्षी तृणशून्यकम् ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.18 · p. 152
करिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे ।मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः ।चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ।नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥
अनुष्टुप्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1365 · p. 166
मल्लिको नृस्त्रियोर्दीपाधारपात्रे स्त्रियां पुनः ।मल्लिका पुष्पवल्ल्यां स्याद् यस्या आख्यापि भूपदी ॥ १३६५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.120 · p. 184
मल्लिका हंसभेदे स्यात् मल्लीवृक्षे तु मल्लिका ।मृत्तिका पात्रभेदे च तथा मत्स्यविशेषके ॥
अनुष्टुप्

मल्लिका as a meaning in nānārtha verses