कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जगती

jagatīस्त्री · fem.

In 20 kośas: 33 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1 · p. 52
स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.6
त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
मण्डली मण्डलं च स्यात् जगती जगदुच्यते ।पिष्टपं विष्टपं तुल्ये त्रविष्टप(त्रिपिष्टप?)त्रिविष्टपे ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.2 · p. 22
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.16 · p. 2
विश्वंभराद्या जगती गोत्रा पृथ्वीरसा पुनः ।क्षोणी सर्वंसहा क्षोणिः कुम्भिन्यपि च निर्ऋतिः ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.28 · p. 4
स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपौ ।अस्त्रियौ भुवनं क्लीबे लोकः स्यात्पुंसि चाप्यथ ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.90 · p. 78
त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी ।अष्टिर्धृतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.455 · p. 183
अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी ।अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥ ४५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.89 · p. 64
जगती जागतमतिजगती त्वातिजाग[41b]तम् ।शक्वरी शाक्वरं चातिशक्वरी त्वातिशाक्वरम् ॥ ८९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.10 · p. 114
मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् ।भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.54 · p. 101
वसन्तदूती वसतिरनन्ता चापराजिता ।पक्षतिर्जगती सुप्तिः कीर्ति-मूर्त्यर्ति-भक्तयः ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 6 · p. 3
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.468 · p. 82
अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ ।पितर्यपि जगत् तु क्ली जगतीति स्त्रियामपि ॥ ४६८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.225 · p. 32
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.255 · p. 84
विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि ।जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.11 · p. 3
वैष्ट्रं वासुविनोदी च गोप्त्री गुह्या विलासिनी ।ब्रह्मानन्दा ब्रह्मवृन्दाजापत्या जगती परा ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.3 · p. 1
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.1 · p. 38
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.107 · p. 12
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.946 · p. 144
सन्धिकरोंऽसगः जत्रु उच्यते जगती जनैः ॥ ९४६ ॥
metre not recognised
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1590 · p. 255
रत्नवती महास्थाली जगती चाम्बरस्थली ।विपुला पर्वताधारा गन्धमाता च देहिनी ॥ १५९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2481 · p. 402
लोकः स्याद्भुवनं विश्वं विष्टपं पिष्टपं जगत् ।जगती चेति नामानि लोकानां सप्त सन्ति वै ॥ २४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.8 · p. 46
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.44 · p. 113
गायत्री जगती त्रिष्टुवनुष्टुवुष्णिगादिकम् ।च्छन्दश्च्छन्दोविशेषाः स्युरुक्थ उक्थादयः परे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.2 · p. 218
विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वन्महिर्मही ।जगतिर्जगत्युर्वरोर्विरूर्वी ग्मा क्ष्मा क्षमा ॥ २ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.1 · p. 249
लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि ।जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः ॥ १ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 4 ग (syllables merged)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.173 · p. 23
जगती च रवेरश्वा मृगतृष्णा मरीचिका ।विवस्वान् सविता पूषा विष्णुरंशोऽरुणो भगः ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.366 · p. 49
भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.370 · p. 50
अथ स्याज्जगती लोको विष्टपं भुवनं जगत् ।ब्रह्मादि स्तम्बपर्यन्तं ब्रह्मस्तम्बोऽखिलं जगत् ॥ ३७० ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.71
जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.794 · p. 92
चिन्तायामपि चर्चा जगती राजप्रधानलोकेऽपि ।ऋतुरङ्गनारजस्यपि विकटं श्रेष्ठेऽपि निर्दिष्टम् ॥ ७९४ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.43 · p. 73
जगती छन्दसो भेदे पृथिव्यां विष्टपे जने ।रेवती हलिपत्न्यां स्यादृक्षभेदे च मातरि ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.469 · p. 83
लोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु ।छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.206 · p. 188
जीवनं सलिले जन्मवृत्त्योरपि निरीक्ष्यते ।जगती छन्दसां भेदे भूमौ लोकेऽथ जम्बुकः ॥ २०६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.101 · p. 220
स्याज्जगद्भुवने क्लीबं समीरे जङ्गमे त्रिषु ।जगती पिष्ठपे भूमौ जनच्छन्दोविशेषयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2091 · p. 253
जगती भुवने भूमौ लताच्छन्दोविशेषयोः ।अगलो मोदके मद्ये जरठः कठिनेऽपि च ॥ २०९१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.9 · p. 247
जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः ।छत्रान्तालंबिवस्त्रेऽपि झल्लरी केशवाद्ययोः ॥ ९ ॥
अनुष्टुप्