पाटला
pāṭalāस्त्री · fem.In 17 kośas: 19 synonym verses, 4 as a nānārtha head word, 21 as a meaning of another word.
पाटलिः पाटला भूर्जो बहुत्वक्को मृदुच्छदः ॥ ११४४ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीक्लीf. n.
पाटलिः पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया ।लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ।
अनुष्टुप्
genderस्त्रीfem.
पाटला स्यात् पाटलिश्च अमोघा मोघया सह ।मलपूर्मलयूश्च स्यात् कुटजः कोटजो भवेत् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
चम्पके त्वग्निबीजः स्याद्गन्धफल्यस्य मञ्जरी ।अमोघा पाटलायां च ककुभे शिवचारणः ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् ।कर्वुरा पाटला श्वेता शवली च निलिम्पिका ॥ ४५६ ॥
अनुष्टुप्
genderस्त्रीfem.
दीर्घसस्यः पाटला तु पाटलिर्विषवल्लभा ।स्थिरगन्धा तालवृन्ती रक्तपुष्पाम्बुवास्यपि ॥ २४१ ॥
अनुष्टुप्
genderस्त्रीfem.
मूले पुष्पे विदार्याद्याः पुष्पे क्लीबेऽपि पाटला ।साल्वं मूले फले तु स्युर्हरीतक्यादयः स्त्रियाम् ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कुम्भीका ताम्रकुसुमाऽमोघा कालाम्बुवासिनी ।काचस्थाली तथास्थाली पाटला पाटलिर्द्वयोः ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी ।वसन्तकामयोर्दूती कुम्भिका कालवृन्तिका ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
पाटला कुम्भिका मोघा ताम्रपुष्पी जलस्थितिः ।मुनिद्रुमः शीघ्रपुष्पोऽगस्त्यो लम्बफलो मुनिः ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
पाटला पाटलिश्चैव मोघाऽमोघा फलेरुहा ॥ २०३० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पाटलं पाटला चेति पाटला कुसुमादिके ।बोधिः बोधिद्रुमोऽश्वत्थः पिप्वलः केशवालयः ॥
अनुष्टुप्
genderस्त्रीfem.
काचस्थाली कुवेराक्षी कृष्णवृन्ता फलेरुहा ।स्थापन्यमोघा मोघा च पाटला पाटलिर्द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.
वेणी जयन्ती भूरुण्डीशिवमल्लीसहा जवा ।गम्भारी बदरी जातीपाटला नवमालिका ॥
अनुष्टुप्
genderस्त्रीfem.
बीजके त्वासनः प्रोक्ताऽसनोऽशनवदाशनः ।पाटला पाटलिः स्त्रीन्रोर्बहुत्वके भवेद्भुजः ॥ १६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्व (wrong syllable)
genderस्त्रीfem.
स्त्रियां फलेरुहामोघो काचस्थाली च पाटला ।द्वयोस्तु पाटलिस्तुल्यौ बुर्बुरश्वेतकण्टकौ ॥ ४८९ ॥
अनुष्टुप्
genderस्त्रीfem.
गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् ।बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीक्लीबयोरुडुर्दामा छर्द्दिर्ज्योतिः सदोर्च्चिषः ।सुखं लक्षं वणिज्यञ्च वडिशक्रोडपाटलम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
आशुव्रीहौ ना द्वयोः पाटलिः स्या-त्काचस्थाल्यां पाटलापि स्त्रियां स्यात् ।पुष्पे त्वस्या पाटलं पाटला स्या-दव्यक्तोक्तौ लोहलो भेद्यलिङ्गः ॥ ३० ॥
शालिनी
meanings
त्रि स्त्री तु तद्वर्णाख्यायां पाटला पाटलिद्रुमे ।पुष्पे तु तस्य नप् स्त्री स्यात् पाटलं पाटलेति च ॥ ११४३ ॥
अनुष्टुप्
meaningsपाटलिद्रुम
पाटला पाटलितरौ पुष्पेऽस्याः पाटलं त्रिषु ।पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ४६४ ॥
अनुष्टुप्
meaningsपाटलितरु
पाटला as a meaning in nānārtha verses
- धरणिकोश वसन्तदूतिकामदनशलाका शारिर्वर्तिर्मदनदीपनी । वसन्तदूतिका प्रोक्ता पाटला कोकिलापि च ॥ Dharaṇikośa 1.2.65
- धरणिकोश अमोघाअमोघ सफलं ज्ञेयममोघा पाटला तरुः । सर्वौघो गुरुवेगार्थः सर्वसन्नहनार्थकः ॥ Dharaṇikośa 4.2.4
- धरणिकोश वासन्तीवासन्ती पाटला यूथी अतिमुक्ता च कीर्तिता । भरतो राजविशेषे च नटे रामानुजेऽपि च ॥ Dharaṇikośa 15.2.45
- धरणिकोश स्थालीवल्ली स्याच्छुपे शूर्मौ वल्ली व्रततिरिष्यते । स्थाल्युखा पाटला चैव स्थालं च स्थलभेदनम् ॥ Dharaṇikośa 27.2.10
- कोषकल्पतरु मोघास्त्री पाटलायां च मघास्तु भे स्यु- र्मघी तु जायौ धननाम्नि षण्ढे । श्लाघाभिलाषार्चनवर्णनेषु पुंस्युद्धमाहुः करसंपुटे च । देहानिलेऽग्नौ कथितः प्रशस्तौ Koṣakalpataru 6.4.5
- कोषकल्पतरु वसन्तदूतमूर्धाभिषिक्तः पृथिवीपतौ स्या- त्क्षत्रे प्रधानेऽथ वसन्तदूतः । चूते पिके पञ्चम[2a]रागके च स्त्री पाटलायामतिमुक्तके च ॥ ९० ॥ Koṣakalpataru 6.17.90
- कोषकल्पतरु कुम्भराशिप्रभेदे गजमूर्द्धपिण्डे पुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे । स्त्री वारिपर्ण्यां गमि(?) पाटलायां गर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥ Koṣakalpataru 6.24.41
- कोषकल्पतरु स्थालीस्थालं न ना पात्रविशेषकुण्ड्योः स्त्री पाटलायामथ पुंसि खल्लः । निरीषके स्यात् त्रिषु वस्त्रभेदे बालः शिशौ स्यात् त्रिषु चाचिरोत्थे ॥ ६३ ॥ Koṣakalpataru 6.28.63
- नानार्थार्णवसंक्षेप मोचाशिग्रौ तु कश्चित् पाटल्यां पुनः स्त्रीपुंसयोरपि । मोकस्तु मोचने शिष्ये ना चतुष्पदि तु द्वयोः ॥ १०३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1037
- नानार्थार्णवसंक्षेप कुञ्जरापाटलायां च धातक्यां द्वे तु हस्तिन्यथ स्त्रियाम् । काञ्चनद्रौ गुलूच्यां च कुण्डली क्ली तु पाशके ॥ ५५१ ॥ Nānārthārṇavasaṃkṣepa 4.551
- शिवकोष श्वेतावानीरे बहुवारे च शुक्तिः शङ्खे नखेऽपि च । श्वेता सिता वचाशङ्खाविदारीपाटलाभिदि ॥ १८६ ॥ Śivakoṣa 12.1.186
- शिवकोष कृष्णवृन्ताकलधौतं सुवर्णे स्याद्रजतेऽपि नपुंसकम् । कृष्णवृन्ता माषपर्णीकाश्मरीपाटलासु च ॥ २०० ॥ Śivakoṣa 12.3.200
- शिवकोष ताम्रपुष्पीताम्रपुष्पी पाटलायां धातक्यां त्रिवृताभिदि । कोविदारेऽपि चण्डाते क्लीबं पुन्नागके पुमान् ॥ २९४ ॥ Śivakoṣa 17.3.294
- शिवकोष काञ्चनपुष्पीकाञ्चनपुष्पी यूथिभिन्माधवीपाटलासु च ॥ ३१३ ॥ Śivakoṣa 17.4.313
- शिवकोष कुञ्जराश्वेतस्पन्दामहाजम्ब्वोः कुमारो वरुणे नरि । कुञ्जरा मदनीयायां पाटलायां च केसरः ॥ ३९७ ॥ Śivakoṣa 22.3.397
- शब्दरत्नावली मोघामेघः स्याद्वारिवाहेऽपि मुस्तके राक्षसेऽपि च । मोघा तु पाटलायां स्त्री त्रिषु निष्फलहीनयोः ॥ Śabdaratnāvalī 7.4.4
- शब्दरत्नावली कृष्णवृन्तातटष्यप्रोक्ता शतावर्यामबला शूकशिखयोः । ऐरावतो दिग्गजे स्यान्नारङ्गे लकुचद्रुमे ॥ नागान्तरे च पुंसि स्यात् स्त्रियां तडिति तद्भिदि । क्लीबं महेन्द्रकोदण्डे नटजुदीर्घे निगद्यते ॥ कलधौतं शातकुम्भे रजते च नपुंसकम् । कुमुद्वान् वाच्यलिङ्गः स्यात्कुमुदप्रायदेशके ॥ कुमुद्वनी कुमुदिनीकुशपर्ण्योरपि स्त्रियाम् । भवेत्कुहरितं क्लीबं रतशब्दे पिकध्वनौ ॥ कृष्णवृन्ता माषपर्ण्यां पाटलायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.160
- शब्दरत्नावली कुम्भीवारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ । कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥ Śabdaratnāvalī 7.24.4
- शब्दरत्नावली कुञ्जराकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
- शब्दरत्नावली स्थालीशालः सर्जद्रुमे वृक्षमात्रप्राकारयोरपि । स्थालं भोजनपात्रे स्यात्स्थाली च पाटलेखयोः ॥ Śabdaratnāvalī 7.28.38
- शब्दरत्नावली मोक्षभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11