कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शिखण्डिक

śikhaṇḍikaपुं · masc.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.143 · p. 50
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.139 · p. 35
सबालानां काकपक्षः शिखण्डिकशिखाण्डकौ ।सटा जटा प्ता व्रतिनो लग्नास्ते ये परस्परम् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 197
शिखण्डिकस्ताम्रचूडः [70b]कावृकश्चरणायुधः ।बह्वपत्यश्च कालज्ञो बोधी स्याद्रणकुक्कुटः ।शौण्डी दक्षो विवृत्ताक्षो देवट्टी त्वम्बुकुक्कुटी ॥ ८७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.94 · p. 11
ताम्रचूडः कुर्कुटश्च कृकवाकुः शिखण्डिकः ।प्रभातज्ञो निशावेदी वृक्षाक्षश्चरणायुधः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2399 · p. 387
कुक्कुटः कृकवाकुश्च नन्दीको मणिकण्ठकः ।उषाकीलो महायोगी कलाधिकः शिखण्डिकः ॥ २३९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.156 · p. 201
केशन्यासे काकपक्षे शिखण्डका-शिखण्डिकौ ।वक्रस्त्रिषु च्छन्दस्यापि, दान्ते षण्ढे भषद्भसद् ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.13 · p. 27
कुक्कुटो दीर्घवाग्दक्षः शिखी चूलिक आरणी ।कृकवाकुर्विवृत्ताक्षस्ताम्रचूडः शिखण्डिकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.