कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

अन्तरिक्षकाण्डः · खगाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां अंतरिक्षकाण्डे मेघाध्यायः

पक्षी पत्ररथः पत्री पित्सन् पिपतिषन् पतन् ।पतंगः पतगः प्लावी पतत्र्यंगुपतत्रयः ॥ १ ॥
2.3.1 · p. 26
अनुष्टुप्
विहंगमो विर्विहगो विहंगो नभसंगमः ।नीडोद्भवः शुको नीडी मलूको विप्रुषो भसन् ॥ २ ॥
2.3.2 · p. 26
अनुष्टुप्
वशाकुर्मदनः पीतुर्मशाको मदुरो द्विजः ।ऊकः शकुन्तिः शकुनिः शकुन्तशकुनः खगः ॥ ३ ॥
2.3.3 · p. 26
अनुष्टुप्
शलको विकिरस्तुण्डी नीडजो वातगाम्यपि ।पक्षिपोतस्तु चिल्लाकश्चंपुकः पीलुकावटौ ॥ ४ ॥
2.3.4 · p. 26
अनुष्टुप्
गृह्याश्छेकाश्च गेहेषु संसक्ता मृगपक्षिणः ।हंसो मरालो नीलाक्षश्चक्रपक्षः सितच्छदः ॥ ५ ॥
2.3.5 · p. 26
अनुष्टुप्
मानसौकाः परिप्लावी वक्रांगो जालपादकः ।सूतिः संकुचितः शंकुर्ज्येष्ठः प्रास्थितधोरणौ ॥ ६ ॥
2.3.6 · p. 26
अनुष्टुप्
क्षीराशश्चाप्यसौ राजहंसो रक्तैः पदाननैः ।मलिनैर्मल्लिकाक्षस्तैर्धार्तराष्ट्रः सितेतरैः ॥ ७ ॥
2.3.7 · p. 26
अनुष्टुप्
कादंबः कलहंसश्च हंस आधूसरच्छदः ।वरटा हंसकान्ता स्याद्वराला वरलापि च ॥ ८ ॥
2.3.8 · p. 26
अनुष्टुप्
हंससाचिः क्षुद्रहंसः क्षयिस्तु कुवलायिकः ।चक्रवाको रथः कोकश्चक्रश्चक्राह्वयाह्वयः ॥ ९ ॥
2.3.9 · p. 26
अनुष्टुप्
बको बकोटः कह्वोऽथ बलाका बिसकण्ठिका ।बकजातिर्दर्वितुण्डो दुर्विः क्रौञ्चश्च दुर्विदा ॥ १० ॥
2.3.10 · p. 26
अनुष्टुप्
मद्गुस्त जलकाकः स्यादातिस्त्वाटिः शराटिका ।कारण्डवो महापक्षो जलरंकुस्तु वंजुलः ॥ ११ ॥
2.3.11 · p. 26
अनुष्टुप्
दात्यूहश्चाथ शकटाबिले प्लवपरिप्लवौ ।अन्वर्थनामधेयौ द्वौ जालपादांबुकुक्कुटौ ॥ १२ ॥
2.3.12 · p. 27
अनुष्टुप्
कुक्कुटो दीर्घवाग्दक्षः शिखी चूलिक आरणी ।कृकवाकुर्विवृत्ताक्षस्ताम्रचूडः शिखण्डिकः ॥ १३ ॥
2.3.13 · p. 27
अनुष्टुप्
मयूरश्चटकः शौण्डः पादायुधनखायुधौ ।पारावतः कलरवो रक्तदृष्टिर्मदोत्कटः ॥ १४ ॥
2.3.14 · p. 27
अनुष्टुप्
काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः ।आत्मघोषो महानेमिः कण्टको मौकलिः कुणः ॥ १५ ॥
2.3.15 · p. 27
अनुष्टुप्
बलिपुष्ट उलूकारिर्नाडिजंघोऽप्रहृष्टकः ।धूलिजंघोऽन्यवापश्च परभृद्वायसोऽन्यपुट् ॥ १६ ॥
2.3.16 · p. 27
अनुष्टुप्
द्रोणः सकृत्प्रजोऽरिष्टो ध्वांक्षः करट इत्यपि ।कृष्णकाको वृद्धकाक ऐन्द्रिः काकोल आसुरः ॥ १७ ॥
2.3.17 · p. 27
अनुष्टुप्
धूंक्ष्णा तु श्वेतकाकोऽथ चटको वर आटकः ।बलिभुक्कलविंकश्च सेव्यस्तिलककण्टकः ॥ १८ ॥
2.3.18 · p. 27
अनुष्टुप्
कलविंकस्त्वसौ पीतमुण्डः श्यामा तु पोतकी ।व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सुपर्णकः ॥ १९ ॥
2.3.19 · p. 27
अनुष्टुप्
श्येनायां प्राचिका चित्रपक्षे शरुकपिंजलौ ।वाचाला मुखरा शारिः कोयष्टिः शिखरी समौ ॥ २० ॥
2.3.20 · p. 27
अनुष्टुप्
कुलालकुक्कुटो गर्तकुक्कुटः पेचिका पुनः ।उलूकचेटी हिक्का स्यात् कनकाक्षी च पिंगला ॥ २१ ॥
2.3.21 · p. 27
अनुष्टुप्
उलूकः पेचकः कोण्ठः काकारिर्हरिलोचनः ।नक्तंचरो घर्घरको निशादर्शी बहुस्वनः ॥ २२ ॥
2.3.22 · p. 27
अनुष्टुप्
महापक्षी च कृष्णोऽसौ नक्तकः कृतमालकः ।कपोतो बालवत्सः स्यात् खञ्जरीटस्तु खञ्जनः ॥ २३ ॥
2.3.23 · p. 27
अनुष्टुप्
मिथुनी चञ्चलश्चाथ सुप्तोऽस्मिन् कृष्णवक्षसि ।गोलत्तिका खंजरीटी शार्ङ्गः कीर्शा च पिप्पका ॥ २४ ॥
2.3.24 · p. 28
अनुष्टुप्
शुकस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः ।दरणो दण्डिकीरौ च लोपालोपायिके समे ॥ २५ ॥
2.3.25 · p. 28
अनुष्टुप्
पात्रं तु कुण्डृणाची स्त्री कण्ठपालस्तु वण्ञ्जुलः ।काकपुष्टस्त्वन्यभृतस्ताम्राक्षः कोकिलः पिकः ॥ २६ ॥
2.3.26 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
वसन्तघोषो मधुवाक्कलकण्ठो वनप्रियः ।भृंगः कलिंगो धूम्राटो राजभृगस्तु बुद्धिमान् ॥ २७ ॥
2.3.27 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भृ (wrong syllable)
मान्धीरो वाग्गुदस्तुल्यस्स तु मान्धीलवो महान् ।आतापी चिल्लिकोऽथ स्यात् स्वस्तिकः पुष्टिवर्धनः ॥ २८ ॥
2.3.28 · p. 28
अनुष्टुप्
किकिदीविः स्वर्णचूडश्चाषो राजविहंगमः ।मणिकण्ठश्चित्रवाजो विशोकः पूर्णकूटकः ॥ २९ ॥
2.3.29 · p. 28
अनुष्टुप्
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।दाक्षाय्यश्चाप्यथ श्येनो वर्तुलाक्षः शशादनः ॥ ३० ॥
2.3.30 · p. 28
अनुष्टुप्
कंकस्तु कर्कटस्कंधः पर्कटः कमलच्छदः ।दीर्घपादः प्रियापत्यो लोहपृष्ठश्च मल्लकः ॥ ३१ ॥
2.3.31 · p. 28
अनुष्टुप्
पूर्णकूटे कुटपुरिः शकुन्ते भासकुक्कुटौ ।चातकस्त्वंबुजोऽनंबुः पौरेन्द्रः स्तोककः खगः ॥ ३२ ॥
2.3.32 · p. 28
अनुष्टुप्
सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः ।दार्वाघाटे शतपत्रो लक्ष्मणा सारसप्रिया ॥ ३३ ॥
2.3.33 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
क्रौञ्चस्तु क्रुङ्ङथोत्क्रोशः कुररो मत्स्यनाशनः ।टिट्टिभस्तु कटुक्काण उत्पादशयनोऽण्डुकः ॥ ३४ ॥
2.3.34 · p. 28
अनुष्टुप्
तित्तिरिस्तु खरक्वाणो वरिष्ठश्चेश्वरप्रियः ।चकोरस्तु चलच्चञ्चुरुत्पिबश्चन्द्रिकाप्रियः ॥ ३५ ॥
2.3.35 · p. 28
अनुष्टुप्
कृकरे त्वथ्यैकृणौ दात्यूहे कालकण्ठकः ।मयूरो बर्हिणी बर्ही शुक्लापांगः शिखावलः ॥ ३६ ॥
2.3.36 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ्यै (syllables merged)
वर्षामदः शिखी केकी शिखण्डी चित्रपत्रकः ।भुजंगारिः शापटिको मयूकश्चित्रपिंगलः ॥ ३७ ॥
2.3.37 · p. 29
अनुष्टुप्
मार्जारकण्ठः केकालिर्विष्किरो नर्तनप्रियः ।मेघनादानुलासी च दार्वण्डश्चन्द्रकीति च ॥ ३८ ॥
2.3.38 · p. 29
अनुष्टुप्
शब्दोऽस्य केका बर्हस्तु प्रचलाककलापकौ ।शिखण्डः पिञ्छमप्यस्य मेचको बर्हचन्द्रकः ॥ ३९ ॥
2.3.39 · p. 29
अनुष्टुप्
पक्षिभेदाः खिलिखिलश्रीकर्णीयकवर्तकाः ।लावकुक्कुटहारीतजीवञ्जीवादयोऽपि च ॥ ४० ॥
2.3.40 · p. 29
अनुष्टुप्
हंसादयो जलचरा ग्राम्याः स्युः कुक्कुटादयः ।वनजाः पीतमुण्डाद्या भृंगाद्याः क्षुद्रपक्षिणः ॥ ४१ ॥
2.3.41 · p. 29
अनुष्टुप्
भृंगे भ्रमरभृंगाणमधुलिण्मधुपालिनः ।अलिर्द्विरेहफो लोलंबो भसलः पुष्पलोलुपः ॥ ४२ ॥
2.3.42 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 भस (syllable split)
इन्दिन्दिरो मधुकरश्चञ्चरीको मधुव्रतः ।शित्पुटः षट्पदश्चाथ पतंगः शलभः समौ ॥ ४३ ॥
2.3.43 · p. 29
अनुष्टुप्
जतुकाजिनपत्रा स्यात् परोष्णी तैलपायिका ।मलिम्लुचास्तु मशका भंभराली तु मक्षिका ॥ ४४ ॥
2.3.44 · p. 29
अनुष्टुप्
चर्वणा मक्षिका नीला सरघा मधुमक्षिका ।अरण्यमक्षिका दंशो दंशी तज्जतिरल्पिका ॥ ४५ ॥
2.3.45 · p. 29
अनुष्टुप्
कषायिका तु जलजा घोणा कुंभीरमक्षिका ।गण्डोली वरटा न क्ली गृहिणी गृहकारिका ॥ ४६ ॥
2.3.46 · p. 29
अनुष्टुप्
अन्वर्थाख्या कोष्ठकारी कण्टका कण्टकानना ।निशामणिर्ध्वान्तमणिः खद्योतो ज्योतिरिंगणः ॥ ४७ ॥
2.3.47 · p. 29
अनुष्टुप्
भृंगारी झीरिका चीरी झिल्लिकाथ प्लुषिः पुमान् ।पुत्तिका च पतंगी च पूत्यण्डाः क्षुद्रपक्षिणः ॥ ४८ ॥
2.3.48 · p. 30
अनुष्टुप्
छदः पक्षो गरुद्वाजश्छदनं च तनूरुहम् ।पतत्रं च कुलायस्तु पञ्जरं नीडमस्त्रियाम् ॥ ४९ ॥
2.3.49 · p. 30
अनुष्टुप्
पेशी कोशश्च डिंबोऽण्डं त्रोटिश्चंचुः सृपाटिका ।डयनं गतिरुड्डीनसंडीनादि विशेषकम् ॥ ५० ॥
2.3.50 · p. 30
अनुष्टुप्