उलूक
ulūkaपुं · masc.In 15 kośas: 12 synonym verses, 3 as a nānārtha head word, 27 as a meaning of another word.
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
अनुष्टुप्
genderपुंmasc.
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
उलूकः कौशिकः प्रोक्तो ध्वाङ्क्षारातिर्निशाटनः ।काकोलो मौकलिर्द्रोणः कृष्णकाको वनाश्रयः ॥ २४६ ॥
अनुष्टुप्
genderपुंmasc.
कुलटः कुक्कुटो गर्तकुक्कुटः पेचिका पुनः ।उलूकः पेचकः कुण्डः काकारिर्हरिलोचनः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः पेचको घूकस्तामसो घोरदर्शनः ।घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
जतुका चर्मचटकाजिनपत्राथ पेचकः ।घूको निशाटः काकारिरुलूकः कौशिकोऽपि सः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
निशाटश्च दिवान्धोऽसावुलूकः काकशात्रवः ।ताम्रचूडो निशावेदी कुर्कुटश्चरणायुधः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
निशाटनो दिवाभीत उलूको वायसान्तकः ।आतापी चिल्हिनी चिल्ही टिट्टिभो रटको रटः ॥ ३६९ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः कौशिको धूकः काकारिः पेचकः पुनः ।दिवान्धश्च दिवाभीतो निशाटः कथ्यते तथा ॥ २३९८ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः काकभीरुः स्यात् कौशिको रूपनाशनः ।नखाशी घर्घरः पेचः शक्राख्यो रक्तनासिकः ॥
अनुष्टुप्
genderपुंmasc.
कौशिको वायसारातिदिवान्धोलूकपेचकाः ।कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः पेचकः कोण्ठः काकारिर्हरिलोचनः ।नक्तंचरो घर्घरको निशादर्शी बहुस्वनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
ईक्ष्वाकुः स्त्री कटुतुम्व्यां सूर्यवंशाधिपे पुमान् ।उलूकः पेचके शक्रे तथा भारतयोद्धरि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
उलूक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पेचकउलूके करिणः पुच्छमूलोपान्ते च पेचकः । Amarakośa 3.3.9
- नामलिङ्गानुशासनम् कौशिकमहेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । Amarakośa 3.3.15
- कोषकल्पतरु पेचकसंपाको नृपतरुधृष्टतर्ककेषु पुंलिङ्गः पुनरपि पेचकोऽस्त्युलूके । स्यान्नीले तमसि मले च बर्हिचन्द्रे स्त्रीलिङ्गं न भजति जातु मेचकोऽपि ॥ ६२ ॥ Koṣakalpataru 6.1.62
- कोषकल्पतरु कौशिककामे भोगे कुतुके कौतुकमच्छिन्नमङ्गले चापि । दीपाङ्गयोः प्रतीकः प्रतिकूलविलोमयोः परवत् । विश्वामित्रे वृत्रशत्रावुलूके व्यालग्राहे गुग्गुलौ कोशविज्ञे । पुंलिङ्गः स्यात्कौशिकः कौशिकी तु कात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥ Koṣakalpataru 6.1.77
- कोषकल्पतरु निशाचरउलूककाकोदरयातुधान- शृगालवाची तु निशाचरः स्यात् । स्त्री पांसुलायामथ यूथतः स्याद् भ्रष्टे पृथक्चारिणि चापि नागे ॥ ९२ ॥ Koṣakalpataru 6.27.92
- नानार्थार्णवसंक्षेप इन्द्रगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.2.2
- नानार्थार्णवसंक्षेप पीयुफालास्थिखण्डकेऽप्येनं द्वे त्विभे पीयुवाक् तु ना । आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.782
- नानार्थार्णवसंक्षेप कुशिककुशिकस्तु क्रोष्टरि द्वे स्यादुलूकेऽप्यथो नपि । क्षुद्रकं फाणिताभिख्ये विकारे स्याद्गुडस्य हि ॥ ५४७ ॥ Nānārthārṇavasaṃkṣepa 4.547
- नानार्थार्णवसंक्षेप कौशिकउलूके कुशिकापत्ये व्यालग्राहे च नप् पुनः । कौशिकं मजवातौ स्यात् कौशिकी तु स्त्रियामियम् ॥ ६०२ ॥ Nānārthārṇavasaṃkṣepa 4.602
- नानार्थार्णवसंक्षेप पेचकउलूके पेचिका तु स्त्री पिङ्गलासंज्ञपक्षिणि । पेटकस्तु द्वयोर्वृन्दे पिटके तु पुमानयम् ॥ १२१३ ॥ Nānārthārṇavasaṃkṣepa 4.1213
- नानार्थार्णवसंक्षेप दिवाभीतदिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्तु चोरे व्यवहितेऽप्यथ दिव्येलको द्वयोः ॥ २७३ ॥ Nānārthārṇavasaṃkṣepa 6.273
- नानार्थार्णवसंक्षेप नक्तञ्चरखदिरीसंज्ञके शाके नमस्कारस्तु ना नतौ । नक्तञ्चर उलूके द्वे राक्षसे च त्रिषु त्वयम् ॥ २९९ ॥ Nānārthārṇavasaṃkṣepa 6.299
- नानार्थार्णवसंक्षेप महापक्षिन्महापक्षी पुनर्द्वे स्यादुलूके सादि पूर्ववत् । मातामहस्तु ना मातुस्ताते मातुस्तु भूम्नि च ॥ ४९५ ॥ Nānārthārṇavasaṃkṣepa 6.495
- नानार्थार्णवसंक्षेप महाशकुनमण्डूकपर्णी भण्डीरीसंज्ञवल्ल्यां द्वयोः पुनः । महाशकुन उलूके महत्यपि विहङ्गमे ॥ ७५ ॥ Nānārthārṇavasaṃkṣepa 7.75
- नानार्थार्णवसंक्षेप हरिलोचनकृष्णमुद्गे त्रिषु त्वेष हरिमन्थसमुद्भवे । हरिलोचन इत्येष उलूके स्याद्द्वयोरथ ॥ ११३ ॥ Nānārthārṇavasaṃkṣepa 7.113
- शब्दरत्नावली कौशिककौशिको नकुलोलूकव्यालग्राहिषु गुग्गुलौ । कोषज्ञे कोषकारेऽपि विश्वामित्रमहेन्द्रयोः ॥ Śabdaratnāvalī 7.1.62
- शब्दरत्नावली पेचकपेचकः स्यादुलूके तु गजलाङ्गुलमूलके । पेटकं पुस्तकादीनां न्यासपात्रे कदम्बके ॥ Śabdaratnāvalī 7.1.109
- शब्दरत्नावली दिवाभीतदिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥ द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च । स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥ नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् । नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥ Śabdaratnāvalī 7.16.163
- शब्दरत्नावली घर्घरखण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः । गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥ गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् । गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥ गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् । घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥ Śabdaratnāvalī 7.27.71
- शब्दरत्नाकर कौशिकगुग्गुलूलूकशक्रर्षिव्यालग्राहिषु कौशिकः । कृतान्तो दैवसिद्धान्तयमाकुशलकर्मसु ॥ २०६१ ॥ Śabdaratnākara 4.1.2061
- शब्दरत्नाकर दिवाभीततारकारिर्गुहे भानौ तेजोनिधिरिनेऽनले । दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ॥ २२१० ॥ Śabdaratnākara 4.1.2210
- शब्दरत्नाकर तमोविहारिन्काशे चामरपुष्पः स्यात् केतकीसहकारयोः । तमोविहारी खद्योत उलूके चोररक्षसोः ॥ २२३५ ॥ Śabdaratnākara 4.1.2235
- त्रिकाण्डशेष दिवाभीतदुर्गतिर्नरके नैःस्व्ये दुर्जातं व्यसनेपि च । दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे ॥ १५९ ॥ Trikāṇḍaśeṣa 3.3.159
- वैजयन्ती पीयुपीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे । पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥ Vaijayantī 6.1.32
- वैजयन्ती कौशिककौशिको गुल्गुलूलूकशक्रर्षिष्वाहितुण्डिके । कलंकोंऽकेऽपवादे च कलहो द्वन्द्वयुद्धयोः ॥ १७ ॥ Vaijayantī 7.1.17
- वैजयन्ती दिवाभीतदिवाभीतो दिवाकीर्ती पुनश्चण्डालनापितौ । दर्दुरीकोऽनले वाद्ये पार्थाग्नीन्द्रा धनञ्जयाः ॥ २४ ॥ Vaijayantī 8.1.24
- वैजयन्ती इन्द्रगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Vaijayantī 8.6.2