दिवान्ध
divāndhaपुं · masc.In 9 kośas: 10 synonym verses.
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
अनुष्टुप्
genderपुंmasc.
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
नक्तंचरोऽपि काकारिर्दिवान्धः कुधिरित्यपि ।नखादी चाथ मांसेष्टा दिवास्वापी निशाचरी ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः ।प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नेत्रपुष्पं तु शुक्र स्यात्तिमिरं दृगपाटवम् ।लिङ्गनाशो दृगान्ध्यं स्याद्दिवान्धाद्यास्तु दृग्गदाः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
निशाटश्च दिवान्धोऽसावुलूकः काकशात्रवः ।ताम्रचूडो निशावेदी कुर्कुटश्चरणायुधः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः कौशिको धूकः काकारिः पेचकः पुनः ।दिवान्धश्च दिवाभीतो निशाटः कथ्यते तथा ॥ २३९८ ॥
अनुष्टुप्
genderपुंmasc.
दिवान्धो हरिनेत्रश्च दिवाभीतोऽपि भीरुकः ।व्याघ्राटः स्याद्भरद्वाजो भारद्वाजक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कौशिको वायसारातिदिवान्धोलूकपेचकाः ।कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥
अनुष्टुप्
genderपुंmasc.
पारावतोऽथ शक्राख्यो दिवान्धो वक्रनासिकः ।हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.