कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ताम्रचूड

tāmracūḍaपुं · masc.

In 15 kośas: 12 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.143 · p. 50
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.17
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.247 · p. 30
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ।किकिदीविः स्मृतश्चाषः शकुन्तो भास उच्यते ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.130 · p. 332
ताम्रचूडो विवृत्ताक्षः कुक्कुटश्चरणायुधः ।कालज्ञः कृकवाकुः स्यान्नियोद्धा नखरायुधः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 197
शिखण्डिकस्ताम्रचूडः [70b]कावृकश्चरणायुधः ।बह्वपत्यश्च कालज्ञो बोधी स्याद्रणकुक्कुटः ।शौण्डी दक्षो विवृत्ताक्षो देवट्टी त्वम्बुकुक्कुटी ॥ ८७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.226 · p. 80
निशाटश्च दिवान्धोऽसावुलूकः काकशात्रवः ।ताम्रचूडो निशावेदी कुर्कुटश्चरणायुधः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.370 · p. 26
नीलकण्ठो मणिग्रीवोऽशोकश्चाषः किकीदिविः ।ताम्रचूडः कुक्कुटकः कृकवाकुः पदायुधः ॥ ३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.94 · p. 11
ताम्रचूडः कुर्कुटश्च कृकवाकुः शिखण्डिकः ।प्रभातज्ञो निशावेदी वृक्षाक्षश्चरणायुधः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2401 · p. 387
मयूरचटकश्चर्मचूडश्च चरणायुधः ।शौण्डश्च दीर्घनादो वै ताम्रचूडो नखायुधः ॥ २४०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.45 · p. 85
अथ भृङ्गो भृङ्गराजो भृङ्गको राजवासनः ।कुक्कुटो रात्रिरेदी स्यात्ताम्रचूड उषाकरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.799 · p. 101
पिकः परभृतश्चाथ कपिञ्जलशरू समौ ।कृकवाकौ ताम्रचूडचरणायुधकुक्कुटाः ॥ ७९९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.13 · p. 27
कुक्कुटो दीर्घवाग्दक्षः शिखी चूलिक आरणी ।कृकवाकुर्विवृत्ताक्षस्ताम्रचूडः शिखण्डिकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.254 · p. 48
रक्षके ताम्रचूडस्तु द्वयोः कुक्कुटपक्षिणि ।पूर्ववच्चात्र लिङ्गादि ताम्रवृन्तस्तु पुंस्ययम् ॥ २५४ ॥
अनुष्टुप्

ताम्रचूड as a meaning in nānārtha verses

  • धरणिकोश कुक्कुटकुक्कुटस्ताम्रचूडः स्यात् [23] कुक्कुटोऽग्निकणेऽपि च । उच्चटे जीर्णदन्ते च तालमध्ये च कुक्कुटः ॥ Dharaṇikośa 10.3.10
  • धरणिकोश दक्षदक्षः स्याच्चतुरे वह्नौ ताम्रचूडे प्रजापतौ । दक्षः स्यात्पुंगवे स्थाणोर्दक्षो वामतरेऽपि च ॥ Dharaṇikośa 33.3.4
  • कोषकल्पतरु कुक्कुटनिषादशूद्रात्मजताम्रचूड- स्फुलिङ्गवाची किल कुक्कुटोऽस्त्री । स्त्री तालमध्ये लसुनप्रभेदे स्याद्दम्भचर्योच्चटयोश्च तद्वत् ॥ ३० ॥ Koṣakalpataru 6.10.30
  • कोषकल्पतरु दक्षऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ Koṣakalpataru 6.30.48
  • परमानन्दीयनाममाला कृकवाकुकुरुविन्दास्तु कुल्माषमुस्ताहिङ्गुलदर्पणाः । कृकवाकुस्ताम्रचूडे मयूरे कृकलासके ॥ १४३ ॥ Paramānandīyanāmamālā 5.7.143
  • शब्दरत्नावली कृकवाकुमयूरे ताम्रचूडे च कृकवाकुरुदाहृतः । पटोल्ल्यां घोषके स्त्री स्यात् कचे कोषातकः पुमान् ॥ Śabdaratnāvalī 7.1.165
  • शब्दरत्नावली कुक्कुटकुक्कुट्यसत्यचर्मायां ताम्रचूडे पुमानपि ॥ Śabdaratnāvalī 7.11.40
  • शब्दरत्नावली दक्षतृषा कामसुतावाञ्छापिपासास्वपि च स्त्रियाम् । पिपासितस्य वाञ्छायामपि तृट् सैव कीर्त्यते ॥ दक्षः पटौ ताम्रचूडे महेशे च प्रजापतौ । वृषभे वृक्षभेदे स्याद्दक्षा स्त्री चतुराभुवोः ॥ Śabdaratnāvalī 7.31.8
  • त्रिकाण्डशेष दक्षदक्षः प्रजापतौ ताम्रचूडे हरवृषे पटौ । पौरुषं मानभेदे च पुन्नागे पुरुषो नरे ॥ ४३९ ॥ Trikāṇḍaśeṣa 3.3.439