पेचक
pecakaपुं · masc.In 15 kośas: 19 synonym verses, 8 as a nānārtha head word, 10 as a meaning of another word.
वाहित्थाधः प्रतिमानं पुच्छमूलं तु पेचकः ॥ १२२७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
घूके निशाटः काकारिः कौशिकोलूकपेचकाः ।दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ ॥कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः ।
अनुष्टुप्
genderपुंmasc.
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता ।पेचकः पुच्छमूलं तु पद्मं स्याद्विन्दुजालकम् ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
कुलटः कुक्कुटो गर्तकुक्कुटः पेचिका पुनः ।उलूकः पेचकः कुण्डः काकारिर्हरिलोचनः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
अपरावरे तु पश्चाज्जङ्घाद्यवयवे न ना ।आरालं पुच्छमूलस्योपान्ते स्यात्पेचकः पुमान् ॥ १६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंmasc.
उलूकः पेचको घूकस्तामसो घोरदर्शनः ।घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
चलचञ्चुस्तथाङ्गारभोजी लट्वा तु पेचकः ।पुच्छाधोभागरक्तोऽथ कामी गृहकपोतकः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
जतुका चर्मचटकाजिनपत्राथ पेचकः ।घूको निशाटः काकारिरुलूकः कौशिकोऽपि सः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
समानौ शिरसः पिण्डौ कुम्भौ तत्रान्तरं विदुः ।वातकुम्भः पुच्छमूले पेचकः कथितो बुधैः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
वायसो मौकुलिश्चैकदृग्वृद्धो द्रोण उच्यते ।जलकाकस्तथा मद्गुर्घूकः कौशिकपेचकौ ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
उलूके पेचकः पेचो नीले स्यात्खञ्जरीटकः ।लोहपृष्ठश्च कङ्कश्च दृढे तस्मिन्प्रकीर्तितः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
तस्याधो वातकुम्भः स्यात् वाहित्थं च ततोऽप्यधः ।प्रतिमानं वाहित्थाधः पेचकः पुच्छमूलकम् ॥ २२२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
उलूकः कौशिको धूकः काकारिः पेचकः पुनः ।दिवान्धश्च दिवाभीतो निशाटः कथ्यते तथा ॥ २३९८ ॥
अनुष्टुप्
genderपुंmasc.
नागो जलकरङ्कः स्यात् पेचको भेक इत्यपि ।दर्दुरो मेघनामेति क्वचित् केचित् प्रचक्षते ॥
अनुष्टुप्
genderपुंmasc.
श्येनः पत्री कपोतारीः पतद्भीरुः शशादनः ।पेचको बायसारातिर्दिवाभीतिर्निशाचरः ॥
अनुष्टुप्
genderपुंmasc.
कौशिको वायसारातिदिवान्धोलूकपेचकाः ।कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥
अनुष्टुप्
genderपुंmasc.
उलूकः पेचकः कोण्ठः काकारिर्हरिलोचनः ।नक्तंचरो घर्घरको निशादर्शी बहुस्वनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
पेचको द्विरदपुच्छसमीपे काकशाश्वतविरोधिखगे च ।गण्डकौ पशुवरचतुष्कौ गण्डकी च सरिदन्तरमुक्ता ॥
स्वागताmetre not read in every linenearly स्वागता
संपाको नृपतरुधृष्टतर्ककेषुपुंलिङ्गः पुनरपि पेचकोऽस्त्युलूके ।स्यान्नीले तमसि मले च बर्हिचन्द्रेस्त्रीलिङ्गं न भजति जातु मेचकोऽपि ॥ ६२ ॥
प्रहर्षिणी
meaningsउलूक
ऋषिभेदे गोत्रकृति द्वे तु वृश्चिकसर्पयोः ।पेचको ना हस्तिपुच्छमूलोपान्ते द्वयोः पुनः । ॥ १२१२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
meaningsहस्तिपुच्छमूलोपान्त
उलूके पेचिका तु स्त्री पिङ्गलासंज्ञपक्षिणि ।पेटकस्तु द्वयोर्वृन्दे पिटके तु पुमानयम् ॥ १२१३ ॥
अनुष्टुप्
meaningsउलूक
doubtful
पाचलोऽग्नौ समीरे च पिङ्गला स्नायुवेश्ययोः ।पेचको गजलाङ्गूलमूले घूके निशाचरे ॥ ३१३ ॥
अनुष्टुप्
पेचकः स्यादुलूके तु गजलाङ्गुलमूलके ।पेटकं पुस्तकादीनां न्यासपात्रे कदम्बके ॥
अनुष्टुप्
प्रियकः कृकलासेऽपि पेचकस्त्वचि हस्तिनाम् ।पुच्छमूले प्रपातस्तु पाते रोधसि सौप्तिके ॥ ५३ ॥
अनुष्टुप्
पेचक as a meaning in nānārtha verses
- धरणिकोश उलूकउलूकः कुरुयोधः स्यादुलूकाविन्द्रपेचकौ । पिनाको हरकोदण्डं पिनाकं शूलमात्रके ॥ Dharaṇikośa 1.2.15
- धरणिकोश कौशिककौशिकः शतमखेऽहितुण्डिके पेचके मुनिवरे च गुग्गुलौ । कौशिकोऽपि च नकुलेऽथ कौशिकी चण्डिका सरिदन्तरं च सा ॥ Dharaṇikośa 1.3.12
- धरणिकोश घर्घरघर्घरः पेचके प्रोक्तश्चलद्वारि नदान्तरे । झर्झरः स्यात्कलियुगे वाद्यभाण्डे च झर्झरः ॥ Dharaṇikośa 26.2.39
- धरणिकोश निशाचरनिषद्वरस्तु जम्बालो निशा निषद्वरी मता । निशाचराः समाख्याता भूतराक्षसपेचकाः ॥ Dharaṇikośa 26.2.74
- शब्दरत्नावली पाकपाकः परिणतौ स्थाल्यां शावके पेचकेऽपि च । केशादीनां जराशौक्ले राष्ट्रादिभङ्गभीतिषु ॥ Śabdaratnāvalī 7.1.14
- शब्दरत्नावली उलूकईक्ष्वाकुः स्त्री कटुतुम्व्यां सूर्यवंशाधिपे पुमान् । उलूकः पेचके शक्रे तथा भारतयोद्धरि ॥ Śabdaratnāvalī 7.1.35
- शब्दरत्नावली काकरूकपरमर्मज्ञशिष्ये ना शठे कापाटिकस्त्रिषु । काकरूको दम्भनग्नस्त्रीजित्पेचकभीरुषु ॥ Śabdaratnāvalī 7.1.163
- शब्दरत्नावली निशाचरधृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि । नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥ निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु । वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥ Śabdaratnāvalī 7.27.130
- शब्दरत्नावली आलुअलिः सुरायां भ्रमरे काककोकिलयोरपि ॥ आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥ Śabdaratnāvalī 7.28.2
- त्रिकाण्डशेष काकरुककुलकौ नाककाकेन्दू क आत्मा च सुखं च कम् । पेचके स्त्रीजिते काकरुको कौलेयकः शुनि ॥ १० ॥ Trikāṇḍaśeṣa 3.3.10