कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शृङ्गबेर

śṛṅgaberaक्ली · neut.

In 5 kośas: 5 synonym verses, 2 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.38
आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् ॥ ३७ ॥कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् ।स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.206 · p. 114
आर्द्रके तु शृङ्गबेरं कटुभङ्गं कटूत्कटम् ।शुण्ठी महौषधं विश्वा नागरं विश्वभेषजम् ॥ २०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.95 · p. 222
द्रुवयं द्वापरक्षेत्रे शृङ्गबेराभ्रनागरम् ।अगारमुत्तरं तीरं कलेवरकुकुन्दरे ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.96 · p. 223
प्रान्तरं शृङ्गबेरं च मण्डूराररचामरम् ।कटीरक्रूरदूराणि स्फारवैरे च चत्वरम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.456 · p. 84
आल्ले स्यादार्द्रकं शृङ्गबेरं चाथ कुतुम्बरे ।कुस्तुम्बुरुस्तुन्नकं च छत्रा धान्याकमित्यपि ॥ ४५६ ॥
अनुष्टुप्
genderक्लीneut.

शृङ्गबेर as a meaning in nānārtha verses