अभ्र
abhraक्ली · neut.In 24 kośas: 36 synonym verses, 11 as a nānārtha head word, 13 as a meaning of another word.
व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे ।अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः ॥ १६३ ॥
upajati 12
genderक्लीneut.
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderक्लीneut.
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् ।घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
मेघोऽभ्रो जलदो दभ्रान् तडित्वान् जलली जली ।कमली कमलाः कन्दो घनश्चाथ घनाघनः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
ज्वालः स्याज्ज्वालया सार्धं कीलः स्यात् कीलया सह ।दवाग्निरपि दावाग्निरभ्रं चाब्भ्रं खमेघयोः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
शातकौम्भं शातकुम्भं भर्मं भर्म मणिर्मणी ।लोहो लौहोऽभ्रकं चाभ्रं समौ पारदपारतौ ॥ २४५ ॥
अनुष्टुप्
genderक्लीneut.
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
अभ्रो मेघो वारिवाहो जलदो धूमसम्भवः ।जलमुक् पुष्पदः कन्दो बलाहकवलाहकौ ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
काञ्चनं हिरणं भर्म गाङ्गेयं शतकुम्भजम् ।तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३७ ॥
अनुष्टुप्
genderक्लीneut.
वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः ।सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
जीमूतोऽभ्रचरो गडेर-सरटौ धाराधरः कंधरो ।नभ्राडभ्र-तमाल-सानुग-नभो-धूमाश्च धूमोद्भवः ॥ ६ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
अभ्रं स्यादभ्रकं व्योमाभिधं विमलमद्रिजम् ।गिरिजामलमच्छं तदमलं गिरिजं समे ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
चित्यं चैत्यं माल्यं गद्यं पद्यं कवेः काव्ये ।क्षेत्रं सत्रं शिबिरं स्फारमगारं कलत्रमभ्रं च ॥ ६ ॥
उद्गीतिः
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.doubtful
आकाशोऽस्त्री नभो व्योमान्तरीक्षं खं मरुत्पथः ।पुष्कराभ्रे तथा विष्णुपदं मेघाश्रयोऽपि च ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.doubtful
जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः ।धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
द्रुवयं द्वापरक्षेत्रे शृङ्गबेराभ्रनागरम् ।अगारमुत्तरं तीरं कलेवरकुकुन्दरे ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
ज्योत्स्नावती चन्द्रवती ज्योत्स्नी चन्द्रिकयान्विता ।अभ्रं मेघो वारिवाहो जलविड्घूमयोनयः ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् ।धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
आकाशमम्बरं चाऽभ्रमन्तरिक्षं घनाश्रयः ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
जीमूतो जलदश्चाऽभ्रं जलमुक् जलदस्तथा ।वारिमुक् वारिवाहश्च वारिधरश्च वारिदः ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderक्लीneut.
नीलो मुकुन्द-नन्दौ च निधिभेदा अमी नव ।अन्तरीक्षमन्तरिक्षमभ्रं गगणमम्बरम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderक्लीneut.
अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः ।अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥
अनुष्टुप्
genderक्लीneut.
अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ ।ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable); pāda 4, syllable 3 भ्र (wrong syllable)
genderपुंक्लीm. n.
पारतः पारदः सूते चलश्च चपलोऽभ्रके ।अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
विष्णुपदं वियदम्बरमभ्रमनन्तं नभोऽन्तरिक्षं खम् ।व्योमसुरवर्त्मपुष्करगगनानि द्योदिवौ स्त्रियावस्त्री ॥ १५९ ॥
गीतिः
genderपुंक्लीm. n.
अभ्रं मेघबलाहकवारिदवारिधरमुदिरजीमूताः ।स्तनयित्नुघनतटित्वद्धाराधरधूमयोनितोयमुचः ॥ २१३ ॥
गीतिः
genderक्लीneut.
प्राणस्तेजः स्थिरा वार्द्युर्वायुश्चापि प्रभा च ज्या ।कमभ्रं नाद-दावौ च कुः पाथो व्योम तो रयः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च (wrong syllable)
genderक्लीneut.
विभुः खं स्वर्द्युरभ्रं च व्योम शून्यं नभो वियत् ।हंसश्चाकाशवर्णानां संज्ञा माया विसर्गतः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
विभुः-ऌ, स्वः-ॡ, खं-अं, द्युः-ङ, अभ्रं-ञ, व्योम-ण, शून्यं-न, नभः-म, वियत्-श, हंसः-ह
metre not recognised
genderक्लीneut.
आर्द्रा ऋक्षे क्लिन्नमार्द्रमस्त्रमायुधलोहयोः ।अभ्रं व्योम…शुभ्रं शुक्रप्रदीप्तयोः ॥
metre not recognised
meaningsव्योमन्
अभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः ।अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥ ३ ॥
अनुष्टुप्
meaningsअभ्रकाह्वयधातु
अस्रस्तु वालके क्लीबं कुङ्कुमेऽभ्रं तु मुस्तके ॥ ३७० ॥
meaningsमुस्तक
अभ्र as a meaning in nānārtha verses
- कोषकल्पतरु मेघपुष्पअपह्नवे प्रेम्णि तथापलापो ऽथो हेमपुष्पं च जपाप्रसूने । स्याच्चम्पके तद्वदुशन्त्यशोके ऽथो मेघपुष्पं जलमुस्तकाभ्रे ॥ २१ ॥ Koṣakalpataru 6.22.21
- नानार्थार्णवसंक्षेप अश्नवृक्षावयवभेदे च स्यादगो गिरिवृक्षयोः । अश्नोऽभ्रे भूधरेऽथाभो(?)वायावात्मन्यथार्कवाक् ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 2.2.8
- नानार्थार्णवसंक्षेप ग्रावन्ग्रावा शैलशिलाभ्रेषु गुणो मौर्व्यप्रधानयोः । उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 2.2.47
- नानार्थार्णवसंक्षेप तोग्महरिद्यवे ना हरितवर्णे चाथ त्रि तद्वति । क्ली त्वभ्रे कर्णमूलेऽथ तोडं सशिखमुण्डने ॥ ५६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.564
- नानार्थार्णवसंक्षेप नभस्नभः (क्लीबाभ्रयोः स्वर्गे? स्वर्गाभ्रयोः क्लीबं) सूर्ये वारिणि चाथ तत् । नभसी इति तु द्यावापृथिव्योरस्त्रियां पुनः ॥ ६७४ ॥ Nānārthārṇavasaṃkṣepa 2.5.674
- नानार्थार्णवसंक्षेप मर्कमनुष्ये मर्कशब्दस्तु देवदारुतरौ पुमान् । मनोविरिञ्चयोंर्वायौ कश्चित् त्वाहाभ्रचन्द्रयोः ॥ ९४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.948
- शब्दरत्नावली गिरिजकुटजः स्यादगस्त्ये तु द्रोणे वृक्षविशेषके । गिरिजं शैलजे चाभ्रे शिलाजतुनि लोहके ॥ Śabdaratnāvalī 7.8.23
- शब्दरत्नावली मेघपुष्पपिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले । बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः ॥ मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः । विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥ Śabdaratnāvalī 7.21.22
- शब्दरत्नावली शुभशारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् । शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥ शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् । शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥ शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु । शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥ Śabdaratnāvalī 7.27.46
- शब्दरत्नावली निर्मलधवलं सुन्दरे शुभे त्रिषु ना वृषपुङ्गवे । निर्मलं क्लीबमभेऽपि निर्माल्ये विमले त्रिषु ॥ Śabdaratnāvalī 7.28.70
- वैजयन्ती नागग्राहाभ्राहिगजा नागा नाभिः क्षत्रे महानृपे । न्यंकुर्गुरुकुलेवासी शिष्यो मुनिमृगावपि ॥ ३० ॥ Vaijayantī 6.1.30
- वैजयन्ती तोक्मकर्णमूलेऽभ्रहरितोस्तोक्मं तोक्मो हरिद्यवः । दंडोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे ॥ ३८ ॥ Vaijayantī 6.5.38
- वैजयन्ती स्तनयित्नुस्तनयित्नुर्गर्जितेऽभ्रे विरोधे तु समुच्छ्रयः । उन्नतावप्यथ क्रोष्टौ शुनि सालावृको वृके ॥ ४६ ॥ Vaijayantī 8.1.46