कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आर्द्रक

ārdrakaक्ली · neut.

In 14 kośas: 13 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.38
आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् ॥ ३७ ॥कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् ।स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.616 · p. 69
आर्द्रकं शृङ्गवेरं स्यादजाजी जीरकः स्मृतः ।वेल्लजं मरिचं प्रोक्तमूषणं च मनीषिभिः ॥ ६१६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.187 · p. 153
कटुभङ्गं विश्वमथ शृङ्गवेरार्द्रके पुनः ।सौपर्णं गुल्ममूलं स्यात्कफारिकन्दरं वरम् ॥ १८७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable); pāda 4, syllable 3 रि (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.85 · p. 35
आर्द्रा स्यात्कालिनी रौद्री तज्ज आर्द्रक उच्यते ।पुनर्वसौ यामकौ च सौरौ जातः पुनर्वसुः ॥ ८५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.79 · p. 166
राहुच्छत्रं च भद्रं च कटु चार्द्रकमित्यपि ।कटुकन्दं शृङ्गवेरं कटुभद्रं तु आर्द्रकम् ॥पिप्पलीविश्वमरिचैस्त्रिकटु स्यात्कटुत्रयम् ।व्योषं त्र्यूषणमेतत्तु सग्रन्थि चतुरूषणम् ॥पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।पञ्चकोलं समरिचं त्वेतदुक्तं षडूषणम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.108 · p. 65
कूष्माण्डककर्कारू कारवेल्लकटिल्लकौ ।सूरणः कथितोऽर्शोघ्न आर्द्रकं शृङ्गबेरके ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 कू (syllables merged)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.456 · p. 84
आल्ले स्यादार्द्रकं शृङ्गबेरं चाथ कुतुम्बरे ।कुस्तुम्बुरुस्तुन्नकं च छत्रा धान्याकमित्यपि ॥ ४५६ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.215 · p. 15
सदाफलं मिष्टरसममृ[म्रू]तं मिहिकाम्रकम् ।आर्द्रकं नागरं तीक्ष्णं शुण्ठ्युष्मा? विश्वभेषजम् ॥ २१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2148 · p. 353
सूरणः सुरणः कन्दो भवेदर्शोघ्न इत्यपि ।प्रसिद्धमाऽऽर्द्रकं चैव शृङ्गबेरकमुच्यते ॥ २१४८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.76 · p. 142
कृष्णजीरे तु मुशवी मुषवी पृथुका पृथुः ।कारवी पृथिवी काला पृथ्वी स्यादुपकुञ्चिका ॥आर्द्रकं शृङ्गवेरं स्यात् शृङ्गवेरार्द्रकञ्च तत् ।धन्याकं धान्यकं धान्यं धनिकञ्च धनीयकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.657 · p. 84
आर्द्रकं शृङ्गिवेरं स्याच्छ्यामिका कालकेशिका ।विशल्या लाङ्गली विद्युद्रक्तपुष्पानलाङ्गिका ॥ ६५७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.214 · p. 62
कटुभंगं शृंगिबेरमार्द्रमार्द्रकमस्त्रियौ ।वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ २१४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.192 · p. 63
पुंन्नपुंसकयोः शस्त्रे स्यादथार्द्रकमस्त्रियाम् ।शृङ्गिबेराख्यकन्दे स्यादथ स्याद्भेद्यलिङ्गकम् ॥ १९२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.193 · p. 63
आर्द्रासंज्ञकनक्षत्रयुक्तकालोद्भवेऽथ नप् ।आर्तवं रजसि स्त्रीणां पुष्पे च रभसोऽपठीत् ॥ १९३ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.15 · p. 2
आढकी तु स्मृता शिम्बिधान्यभेदे च मृद्भिदि ।आर्द्रकं शृङ्गवेरे स्यादार्द्रिका तु वितुन्नके ॥ १५ ॥
अनुष्टुप्

आर्द्रक as a meaning in nānārtha verses