All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
लिङ्गानुशासनम् · नपुंसकलिङ्गसंग्रहः
इति स्त्रीलिङ्गं समाप्तम् ।
[ अथ नपुंसकलिङ्गसंग्रहः ।]
भूम्ना नान्तं तथा लान्तं त्वान्तं तान्तं नपुंसके ।स्त्वन्तं नामाथ संयुक्तररुयान्तं तथैव हि ॥ ७० ॥
6.3.70 · p. 219
अनुष्टुप्
मनन्तं कर्तृभिन्नार्थे द्विस्वरं सन्तमप्यदः ।वेधआदीन् विहायाथ शब्दान्कतिपयान्ब्रुवे ॥ ७१ ॥
6.3.71 · p. 219
अनुष्टुप्
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
6.3.73 · p. 220
अनुष्टुप्
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
6.3.74 · p. 220
उपेन्द्रवज्रा
वल्कलान्तिकदुःखानां वाससो लवणस्य च ।रत्नादीनां सभेदानां नामानि स्युर्नपुंसके ॥ ७५ ॥
6.3.75 · p. 220
अनुष्टुप्
आतपत्रे पुण्डरीकं कं शीर्षेऽथ द्रवे मधु ।सद्माङ्गयोः पुरं क्लीबे घटार्थे खपुरं पुनः ॥ ७६ ॥
6.3.76 · p. 220
अनुष्टुप्
दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् ।असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥
6.3.77 · p. 220
अनुष्टुप्
अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः ।सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥
6.3.78 · p. 220
अनुष्टुप्
इभबिन्दौ पद्ममुक्तं वेध्यार्थे लक्षमेव हि ।पुण्याहं सुदिनाहं च पथः संख्याव्ययोत्तरः ॥ ७९ ॥
6.3.79 · p. 220
अनुष्टुप्
भूमोऽसंख्यात एकार्थे द्वन्द्वैकत्वेऽपि षण्ढता ।अव्ययीभाव आख्यातः समासः क्लीबलिङ्गगः ॥ ८० ॥
6.3.80 · p. 220
अनुष्टुप्
क्रियाविशेषणं सर्वं क्लीबेऽव्ययविशेषणम् ।क्तानाः कृत्याः खल्ञिनौ च भावार्थे प्रत्यया इमे ॥ ८१ ॥
6.3.81 · p. 221
अनुष्टुप्
गायत्र्यादीनि नामानि वृत्तानामण्युतान्यथ ।अव्यक्तवाचकाः क्लीबे यथा किंयत्तदादयः ॥ ८२ ॥
6.3.82 · p. 221
अनुष्टुप्
तत्पुरुषे बहूनां चेच्छाया शालां विना सभा ।वर्जयित्वैव राजादिसभामिनसभं तथा ॥ ८३ ॥
6.3.83 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
वास्तुकं मौक्तिकं जाल[6]कं जापकंकारकं गौरिकं तोटकं खेटकम् ।वेणुकं रूपकं सौप्तिकं माक्षिकंक्लीतकं नाटकं नाणकं चाह्निकम् ॥ ८४ ॥
6.3.84 · p. 221
स्रग्विणी
मार्द्वीकधान्याकशलाकतोका-लीकोल्मुकान्यल्कबुकालिकानि ।एडूकशल्के कुहकं त्रिकं चहल्लीसकं पुष्पककौतुके च ॥ ८५ ॥
6.3.85 · p. 221
इन्द्रवज्रा
रूचकं किबुकशालूके चिबुकं कवकं तथा ।शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥
6.3.86 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनूकं कुतुकं तिन्तिडीकं कुलकचित्रके ।छत्राकं खं स्फिगं लिङ्गं प्रगमङ्गं नपुंसके ॥ ८७ ॥
6.3.87 · p. 221
अनुष्टुप्
बीजं पिञ्जं चोचफाण्टे ललाटंव्युष्टं रिष्टं चीनपिष्टं कृपीटम् ।इष्टं गोष्ठं पृष्ठपिङ्गाणके चत्राणं तीक्ष्णं कार्मणं कारणं च ॥ ८८ ॥
6.3.88 · p. 222
शालिनी
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
6.3.89 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुराणं हिरणं क्षूणं घोरणोष्णोर्णमित्यपि ।श्रीपर्णघ्राणपर्याणप्रादेशान्तान्यृणं शणम् ॥ ९० ॥
6.3.90 · p. 222
अनुष्टुप्
वृन्तं शीताश्मन्तभूतानि वार्त्तंतूस्तं तुन्दं गोदमुक्थं कुशीदम् ।वृन्दाच्छोदे शिल्पतल्पास्पदानिवाहित्थं स्यात्कूर्परूपे पदं च ॥ ९१ ॥
6.3.91 · p. 222
शालिनी
निशान्तं कुसिदं निम्नमन्तरीपं त्रिविष्टपम् ।परीपपुष्पशुल्बानि कुटुम्बनिकुरम्बके ॥ ९२ ॥
6.3.92 · p. 222
अनुष्टुप्
प्रसभं तलभं शुष्मं धामाध्यात्मेर्मपुष्करम् ।किलिभं तोक्मशूक्ष्मे च तिग्मयुग्माजिराणि च ॥ ९३ ॥
6.3.93 · p. 222
अनुष्टुप्
शयनीयं त्रिसन्ध्यं च सायखेयेन्द्रियाण्यपि ।भयं किशलयं सत्रकलत्रद्वापराणि च ॥ ९४ ॥
6.3.94 · p. 222
अनुष्टुप्
द्रुवयं द्वापरक्षेत्रे शृङ्गबेराभ्रनागरम् ।अगारमुत्तरं तीरं कलेवरकुकुन्दरे ॥ ९५ ॥
6.3.95 · p. 222
अनुष्टुप्
प्रान्तरं शृङ्गबेरं च मण्डूराररचामरम् ।कटीरक्रूरदूराणि स्फारवैरे च चत्वरम् ॥ ९६ ॥
6.3.96 · p. 223
अनुष्टुप्
उशीरमक्षरं चैव सिन्दूरशिबिरोदरम् ।यवसं तरसं मत्सं विसमर्पिशकिल्बिषे ॥ ९७ ॥
6.3.97 · p. 223
अनुष्टुप्
किण्वं दिवं सान्त्वमुलूखलं चपातालसत्त्वे वृशविश्वशीर्षम् ।मन्दाक्षपीयूषमहानसानिकासीससंयज्जगदर्पिषाणि ॥ ९८ ॥
6.3.98 · p. 223
इन्द्रवज्रा
शलाल्वालुभसद्रोमललामानि पृषत्तथा ।पुरीतत्सक्थिनी यातु स्वादुतुम्बुरुणी अ[7]पि ॥ १०० ॥
6.3.100 · p. 223
अनुष्टुप्
ऋचीषं च मिषं क्लीबमृजीषं त्वाशुना सह ।इत्थमन्यानि नामानि ज्ञातव्यानि बुधैः स्वयम् ॥ १०१ ॥
6.3.101 · p. 223
अनुष्टुप्