कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सिन्धु

sindhuपुं · masc.

In 20 kośas: 44 synonym verses, 11 as a nānārtha head word, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1074 · p. 42
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1080 · p. 42
नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगास्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी ।कर्बुर्द्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर-स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ॥
अनुष्टुप्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 9 च (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.665 · p. 76
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.105 · p. 17
पद्माकरस्तटाकः स्यात्कासारः सरसी सरः ।स्वस्तिकः पुष्करः सिन्धुर्जलाशय इतीर्यते ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.107 · p. 17
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.1 · p. 343
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.31 · p. 347
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.42 · p. 348
विपाशाथ हिरण्यात्स्याद्बाहुर्वाहश्च शोणकः ।काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.49 · p. 349
पलाशिनी नन्दना च धूमा मन्दाकिनी दया ।चित्रोपला चित्रवर्णा सिन्धु रेखारिका तथा ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.124 · p. 475
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.194 · p. 482
कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना ।सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥ १९४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.16 · p. 100
रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च ।महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.53 · p. 104
सिन्धुः स्त्री ह्रदिनी धुनी च तटिनी जम्बालिनी वाहिनीकर्षूर्निर्झरिणी समुद्रगृहिणी शैवालिनी वार्वहा ।स्रो[67a]तस्वत्यपगा नदी जलधिगा स्यान्निम्नगाप्यापगाकुल्या द्वीपवती सरिद्गिरिभवा धेना च कूलंकषा ॥ ५३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.55 · p. 105
गिरेर्नदी गिरिणदी तथा गिरिनदी मता ।क्लीबाव्ययं चोपनदं तथोपनदि च स्मृतम् ॥सप्तगोदावरं सप्तगङ्गं द्वियमुनं तथा ।देशे तून्मत्तगङ्गं स्यात्तथा लोहितगङ्गकम् ॥पारेगङ्गं तु गङ्गायाः पारे पूर्ववदीरितम् ।वहो नदो भिद्य उद्ध्यः सरस्वत्सम(प्त?)सिन्धवः ॥हिरण्यबाहुः शोणः स्यात्स्वर्णवाहोऽप्यसौ भवेत् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.42 · p. 116
उशीनराः क्षीरपाणा राढाः सूला(सुह्माः) प्रकीर्तिताः ।स्यात्सौह्मनागरः सुह्मनगरे त्रितये भवः ।पञ्चापाः स्युः पञ्चनदाः सिन्धवः सिन्धुलक्षिताः ॥ ४२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderपुंस्त्रीm. f.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 24 · p. 12
स्रोतस्विनी धुनी सिन्धुः स्रवन्ती निम्नगाऽपगा ।नदी नदो द्विरेफश्च सरिन्नामा तरङ्गिणी ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.4 · p. 6
देवकीनन्दनः सोमसिन्धुश्रीवत्समाधवाः ।पद्मनाभः पद्मशयो वनमाली पुनर्वसुः ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.351 · p. 48
समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः ।पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.359 · p. 49
वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना ।हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.116 · p. 225
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.278 · p. 20
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.284 · p. 20
आपगा वाहिनी सिन्धुः स्रवन्ती वक्रगामिनी ।गङ्गा भागीरथी देवनदी त्रिपथगामिनी ॥ २८४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.287 · p. 20
महास्रोतस्वतः सिन्धुरटको विप्रनिन्दितः ।ब्रह्मपुत्रो ब्रह्मभद्रो नैलाद्रेयो हरित्प्रभः ॥ २८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.1 · p. 40
समुद्रः सागरः कन्धिः पयोधिर्जलशेवधिः ।नदीनः सिन्धुरम्भोधिः पयस्वान्पवनानुगः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.112 · p. 13
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.114 · p. 13
नदी तरङ्गिणी सिन्धुस्तटिनी निम्नगा धुनी ।श्रो[स्रो]तस्विनी शैवलिनी स्रवन्ती ह्रदिनी सरित् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1865 · p. 304
समुद्रः सागरः सिन्धुस्तिमिकोशो महाशयः ॥ १८६५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1881 · p. 307
नदी धुनी धुनिः सिन्धुः ह्रदिनी ह्रादिनी वहा ।स्रोतः स्रोतस्विनी कर्षूः स्रोतस्वती सरस्वती ॥ १८८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.32 · p. 38
सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः ।समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.108 · p. 43
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.121 · p. 44
अमोघानन्दनब्रह्मपुत्रलौहित्यलोहिताः ।कुमारो घर्घरः सिन्धुभैरवाद्यास्तथा परे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.47 · p. 49
अथ सिन्धुः सिन्धुखेलस्तुरुण्डः पारदण्डकः ।पारसीकः पारसिको यवनो जवनोऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.315 · p. 42
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.343 · p. 46
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.351 · p. 47
ऋषिकुल्या शुक्तिमती सिन्धुश्चर्मण्वती शिप्रा ।देवस्मृतिर्वितस्ता तमसा तपती दृषद्वती तापी ॥ ३५१ ॥
उद्गीतिः
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.377 · p. 51
कोसलकेकयहूणा घूर्जरयौधेयहेहया मत्स्याः ।गान्धारसिन्धुजावकसिंहलकाम्बोजसोमकाम्बष्ठाः ॥ ३७७ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.386 · p. 52
तुलुष्का यवनाश्वेद्याश्चेदयो दारुकाश्च ते ।सिन्धवोऽमी तु काश्मीरप्रमुखाः पुंसि भूम्नि च ॥ ३८६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.1 · p. 25
पाथोधिसिन्धुमकरालयवारिराशि- गंगाधरेन्दुजनकास्तिमिरूर्मिमाली ।वार्धिर्मितद्रुतिमिकोषमहाशयाश्चक्लीबं च शैलशिबिरं धरणीप्लश्च ॥ १ ॥
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.23 · p. 28
तलोदा चाम्पिला सिन्धुर्ऋषिकुल्या वहा च सा ।अवगा गान्दिनी गङ्गा हैमवत्युग्रशेखरा ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.27 · p. 37
टर्कवाहीककाश्मीरतुरुष्केषु ससिन्धुषु ।बाह्लीका वाह्लिका कीराः शाखयो दारदाः क्रमात् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.23 · p. 155
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.194
देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.838 · p. 96
नदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः ।मैथुनं कथ्यते सद्भिः सम्बन्धग्राम्यधर्मयोः ॥ ८३८ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास धार्धश्लोकः Dharaṇikośa 18.2.6 · p. 101
सिन्धुर्नद्यां समुद्रे च नददेशप्रभेदयोः ।गन्धो लेशे तथामोदे गन्धः संबन्धमात्रके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.65 · p. 241
कर्पूररात्रिंचरयोरथो नासिन्धुर्नदेऽब्धौ वमथौ च देशे ।नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो-स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1520 · p. 172
स्फिगुर्गुदे ना स्त्री त्वेषा शरीरावयवान्तरे ।सिन्धुस्तु नद्यां स्त्री ना तु समुद्रेऽपि नदान्तरे ॥ १५२० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1521 · p. 172
अशीत्यक्षरकेच्छन्दोभेदे च कृतसंज्ञके ।गजानां दानतोये च कटनेत्रसमुद्भवे ॥ १५२१ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1522 · p. 172
नीवृद्भेदे तु पुंभूम्नि सिन्धवो द्वे तु कुञ्जरे ।क्ली तु सैन्धवसंज्ञे स्याल्लवणे सीमवाक् तु ना ॥ १५२२ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास सकारादयः Paramānandīyanāmamālā 5.27.365 · p. 208
स्थूलः पीने जडे सालो दुर्गे वृक्षान्तरे स्मृतः ।सिन्धुर्दन्तिमदे नद्यां नदसागरयोरपि ॥ ३६५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.20 · p. 232
सिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् ।सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2019 · p. 245
स्त्री सिन्धुरापगायां ना देशभेदसमुद्रयोः ।संधिः सुरुङ्गानाट्याङ्गरन्ध्रसंश्लेषयोनिषु ॥ २०१९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.97 · p. 238
सारो बले स्थिरांशेऽर्थे पुमान्न्याय्ये वरेऽर्थवत् ।स्त्री नद्यां ना नदे सिन्धुर्देशभेदेंऽबुधौ गजे ॥ ९७ ॥
अनुष्टुप्

सिन्धु as a meaning in nānārtha verses