कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · अप्कायनामानि

इति पृथ्वीकायः समाप्तः ।

* अथाऽपकायनामानि *

* जलनामानि *

वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
5.2.1854 · p. 303
अनुष्टुप्
पानीयं प्राणदं पाथो मेघपुष्पं च पुष्करम् ।शंवरं संवरं तोयं कीलालं सलिलं कुशम् ॥ १८५५ ॥
5.2.1855 · p. 303
अनुष्टुप्
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
5.2.1856 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पयो यादोनिवासश्च घनरसस्तथोदकम् ।इरा दिव्यं विषं सेव्यं षड्रसं घृतमऽरङ्कुरम् ॥ १८५७ ॥
5.2.1857 · p. 303
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
पिप्पलं पिष्पलं चैव नलिनं मलिनं तथा ।पातालं पावनं चापि कृपीटं कम्बलं पुनः ॥ १८५८ ॥
5.2.1858 · p. 303
अनुष्टुप्
एतन्नामानि नीरस्य मन्यन्ते पण्डितै जनैः ।विशेषनाम पल्लूरं श्वेतजलस्य कथ्यते ॥ १८५९ ॥
5.2.1859 · p. 303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
क्षारं जलं किट्टिमं स्यात् शालूकं गन्धयुग्जलम् ।समलन्तु भवेदन्धमतिस्वच्छन्तु काचिमम् ॥ १८६० ॥
5.2.1860 · p. 303
अनुष्टुप्
अस्ताघमतलस्पृक् चाऽस्थाघमऽस्थागमित्यपि ।अगाधमपि तन्नाम यत् तलं न जनः स्पृशेत् ॥ १८६१ ॥
5.2.1861 · p. 304
अनुष्टुप्
गभीरं गम्भीरं निम्नमस्ताधार्थस्य वाचकम् ।उत्तानमुच्यते तत्र यत्र किञ्चिज्जलं भवेत् ॥ १८६२ ॥
5.2.1862 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्भी (wrong syllable)
अच्छं जलं प्रसन्नं स्यादनच्छं कलुषाऽविले ।
5.2.10 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)

* हिमनामानि *

अवश्यायस्तु प्रालेयं तुषारस्तुहिनं हिमम् ॥ १८६३ ॥
5.2.1863 · p. 304
अनुष्टुप्metre not read in every line
धूमिका धूमरी धूममहिषी महिका तथा ।नीहारो मिहिका चेति नामानि तुहिनस्य वै ॥ १८६४ ॥
5.2.1864 · p. 304
अनुष्टुप्

* हिमानीनामानि *

हिमसन्ततिर्हिमानी हिमराशी प्रयुज्यते ।
5.2.13 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्त (wrong syllable)

* समुद्रनामानि *

समुद्रः सागरः सिन्धुस्तिमिकोशो महाशयः ॥ १८६५ ॥
5.2.1865 · p. 304
अनुष्टुप्metre not read in every line
जलधिर्जलराशिश्च जलनिधिस्तथोदधिः ।महीप्रावार उर्वङ्गो वारिनिधिश्च वारिधिः ॥ १८६६ ॥
5.2.1866 · p. 304
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)
वारीशो वारिराशिश्च सरस्वान् धरणीप्लवः ।अकूवारो महाकच्छोऽकूपारो मकरालयः ॥ १८६७ ॥
5.2.1867 · p. 304
अनुष्टुप्
नदीशो यादईशश्च स्रोतईशश्च दारदः ।यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥
5.2.1868 · p. 305
अनुष्टुप्
पारावारस्तथाऽवारपारो रत्नाकरोऽर्णवः ।प्रसिद्धो रत्नराशिश्च वीचिमाली किल पुनः ॥ १८६९ ॥
5.2.1869 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
एतन्नामानि मन्यन्ते समुद्रस्य च साक्षरैः ।द्वीपान्तरा असङ्ख्यास्ते सप्तैवेति तु लौकिकाः ॥ १८७० ॥
5.2.1870 · p. 305
अनुष्टुप्

* विभिन्नसमुद्रनामानि *

लवणवारि नामैव लवणोदो निगद्यते ।क्षीरवारिश्च क्षीरोदे दधिवारिश्च दध्युदः ॥ १८७१ ॥
5.2.1871 · p. 305
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable); pāda 3, syllable 5 श्च (wrong syllable)
आज्योद आज्यवारिश्च सुरावारिः सुरोदकः ।इक्षूदश्चेक्षुवारिः स्याद् स्वादूदः स्वादुबारिकः ॥ १८७२ ॥
5.2.1872 · p. 305
अनुष्टुप्
नामान्येतानि मन्यन्ते समुद्रस्य विशेषतः ।अन्यत्र लावणादयो नामान्यपि प्रसिद्धकाः ॥ १८७३ ॥
5.2.1873 · p. 305
अनुष्टुप्metre not read in every line

* तरङ्गनामानि *

ऊर्मि उत्कलिका भङ्गो वीचिश्च तरङ्गः पुनः ।उल्लोलो लहरी चैव कल्लोलो महति त्विह ॥ १८७४ ॥
5.2.1874 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र (wrong syllable)

*सप्तसमुद्रनामानि-

[१] लावणः [२] रसमयः [३] सुरोदकः [४] सार्पिषः [५] दधिजलः [६] पयःपयाः [७] स्वादुवारिश्चेति सप्तसमुद्रनामानि सन्ति ॥

* आवर्तनामानि *

आवर्त्तो वोलकश्चासौ तालूरः पयसां भ्रमः ।
5.2.24 · p. 306
अनुष्टुप्

* वेलानाम *

वेला नामाऽपि विख्यातः कथ्यते वृद्धिरम्भसः ॥ १८७५ ॥
5.2.1875 · p. 306
अनुष्टुप्

* अब्धिकफनामानि *

अब्धिकफस्तथा फेनो हिण्डीरो हिण्डिरः पुनः ।डिण्डीरश्चापि प्रख्यातः सागरमल उच्यते ॥ १८७६ ॥
5.2.1876 · p. 306
metre not recognised

* जलस्फोटनामानि *

बुद्बुदः स्थासकश्चैव जलस्फोटोऽपि कथ्यते ।
5.2.27 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्र (wrong syllable)

* मर्यादानाम *

मर्यादा कुलभूर्नाम समुद्रपार्श्वभूमयः ॥ १८७७ ॥
5.2.1877 · p. 306
अनुष्टुप्metre not read in every line

* समुद्रतटनामानि *

कुलं कच्छः प्रपातश्च रोधः प्रतीरमित्यपि ।तटं तीरं च विज्ञेयं नद्युदध्योस्तटं सदा ॥ १८७८ ॥
5.2.1878 · p. 306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* पुलिननाम *

पुलिनं सैकतं नाम जलहीनं तटस्थलम् ।
5.2.30 · p. 306
अनुष्टुप्

* द्वीपनाम *

अन्तरीपं तथा द्वीपं ब्रूयादन्तर्जले तटम् ॥ १८७९ ॥
5.2.1879 · p. 307
अनुष्टुप्
यत्र स्थितस्तत् परं च पारं भवति ज्ञायते ।यत्र स्थितस्तदऽवारं उभान्तः स्यात् पात्रमिति ॥ १८८० ॥
5.2.1880 · p. 307
metre not recognised

* नदीनामानि *

नदी धुनी धुनिः सिन्धुः ह्रदिनी ह्रादिनी वहा ।स्रोतः स्रोतस्विनी कर्षूः स्रोतस्वती सरस्वती ॥ १८८१ ॥
5.2.1881 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
शैवलिनी स्रवन्ती च समुद्रदयिता सरित् ।जलधिगाऽऽपगा कुल्या कूलङ्कषा च निम्नगा ॥ १८८२ ॥
5.2.1882 · p. 307
metre not recognised
निर्झरिणी च वाहिनी जम्बालिनी तरङ्गिणी ।रोधोवक्रा तथा द्वीपवती पर्वतजा पुनः ॥ १८८३ ॥
5.2.1883 · p. 307
अनुष्टुप्metre not read in every line
ख्याता हिरण्यवर्णा वै तटिनी च तथैव हि ।एतन्नामानि मन्यन्ते नद्याश्च पण्डितैर्जनैः ॥ १८८४ ॥
5.2.1884 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* गङ्गानदीनामानि *

गङ्गा भागीरथी ख्याता त्रिपथगा त्रिमार्गगा ।त्रिस्रोताः खापगा स्वर्ग्यापगा स्वरापगा तथा ॥ १८८५ ॥
5.2.1885 · p. 307
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable); pāda 4, syllable 3 स्व (wrong syllable)
त्रिदशदीर्घिका सिद्धापगा सरिद्वरा पुनः ।विष्णुपदी च स्वर्वापी मन्दाकिनी कुमारसूः ॥ १८८६ ॥
5.2.1886 · p. 307
metre not recognised
भीष्मसूः ऋषिकुल्या च जह्नुकन्या च जाह्नवी ।हैमवती तथा हरशेखरा चेति नामानि ज्ञायताम् ॥ १८८७ ॥
5.2.1887 · p. 308
अनुष्टुप्metre not read in every line

* यमुनानदीनामानि *

यमुना सूर्यजा चैव कलिन्दतनया यमी ।कलिन्दपुत्री कालिन्दी स्युर्यमभगिनी पुनः ॥ १८८८ ॥
5.2.1888 · p. 308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्य (wrong syllable)

* नर्मदानदीनामानि *

नर्मदा मेकलाद्रिजा तथा मेकलकन्यका ।इन्दुजा पूर्वगङ्गा च रेवा च मेखलाद्रिजा ॥ १८८९ ॥
5.2.1889 · p. 308
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 द्रि (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
पुनर्मेकलकन्याऽपि नर्मदायाश्च नाम वै ।
5.2.42 · p. 308
अनुष्टुप्

* गोदावरीनदीनाम *

गोदा गोदावरी नाम्नी नदी ख्यातैव वर्तते ॥ १८९० ॥
5.2.1890 · p. 308
अनुष्टुप्

* तापीनदीनामानि *

तापी च तपनी नाम्नी प्रख्याता तपनात्मजा ।
5.2.44 · p. 308
अनुष्टुप्

* शतद्रुनदीनाम *

शतद्रुश्च शुतुद्रिः स्यात् लोके सतलजो नदी ॥ १८९१ ॥
5.2.1891 · p. 308
अनुष्टुप्

* कावेरीनदीनाम *

तथा ख्याता हि कावेरी स्यादऽर्धजाह्नवी पुनः ।
5.2.46 · p. 309
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ध (wrong syllable)

* करतोयानदीनाम *

करतोया नदी ख्याता सदानीराऽपि कथ्यते ॥ १८९२ ॥
5.2.1892 · p. 309
अनुष्टुप्metre not read in every line

* चन्द्रभागानदीनामानि *

चन्द्रका चन्द्रभागा च चान्द्रभागाऽपि मन्यते ।
5.2.48 · p. 309
अनुष्टुप्

* गोमतीनदीनामानि *

गोमती गौतमी चैव वासिष्ठी कथ्यतेऽपि वै ॥ १८९३ ॥
5.2.1893 · p. 309
अनुष्टुप्

* सरस्वतीनदीनाम *

ब्रह्मपुत्री नदी स्याद्वै प्रसिद्धाऽपि सरस्वती ।
5.2.50 · p. 309
अनुष्टुप्

* विपाशानदीनाम *

पुनर्नदी विपाशा च विपाड्नामाऽपि मन्यते ॥ १८९४ ॥
5.2.1894 · p. 309
अनुष्टुप्

* बाहुदानदीनामानि *

आर्जुनी तटिनी स्याच्च बाहुदा सैतवाहिनी ।
5.2.52 · p. 309
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)

* वैतरणीनदीनाम *

वैतरणी नदी नाम नरकस्थाऽपि कथ्यते ॥ १८९५ ॥
5.2.1895 · p. 309
अनुष्टुप्metre not read in every line

* मुरलानदीनाम *

मुरला निम्नगा नाम मुरन्दलाऽपि मन्यते ।
5.2.54 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द (wrong syllable)

* सुरवेलानदीनाम *

सुनन्दिनी नदी नाम सुरवेलाऽपि कथ्यते ॥ १८९६ ॥
5.2.1896 · p. 310
अनुष्टुप्metre not read in every line

* चर्मण्वतीनदीनाम *

रन्तिनदी नदी नाम चर्मण्वती च मन्यते ।
5.2.56 · p. 310
metre not recognised

* सिन्धुसङ्गमनाम *

सिन्धुसङ्गमः सम्भेदः नद्याः सङ्गम उच्यते ॥ १८९७ ॥
5.2.1897 · p. 310
metre not recognised

* स्रोतनाम *

स्रोतो भवति तल्लोके यत्राऽम्भःसरणं स्वतः ।
5.2.58 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* प्रवाहनामानि *

ओघो धारा रयो वेणी पुनः प्रवाह उच्यते ॥ १८९८ ॥
5.2.1898 · p. 310
अनुष्टुप्metre not read in every line

* घट्टनामानि *

अवतारस्तथा तीर्थो घट्टोऽपि कथ्यते पुनः ।
5.2.60 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)

* पूरनामानि *

अम्बुवृद्धिः प्लवः पूरश्चेति नामानि मन्यते ॥ १८९९ ॥
5.2.1899 · p. 310
अनुष्टुप्metre not read in every line

* वक्राणिनामानि *

वक्राणि पुटभेदाश्च चक्राणि कथ्यतेऽपि वै ।
5.2.62 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)

* भ्रमानाम *

जलनिर्गमनस्ताभ्यः भ्रमाश्च जलनिर्गमाः ॥ १९०० ॥
5.2.1900 · p. 311
अनुष्टुप्metre not read in every line

* जलोच्छ्वासानामानि *

परिवाहाः परीवाहाः जलोच्छ्वासाः पयोगमाः ।
5.2.64 · p. 311
अनुष्टुप्

* कूपकानाम *

जलार्थमिह खन्यन्ते कूपकाश्च विदारकाः ॥ १९०१ ॥
5.2.1901 · p. 311
अनुष्टुप्

* प्रणालीनाम *

प्रणाली जलमार्गस्तु मकरास्यनिभो भवेत् ।
5.2.66 · p. 311
अनुष्टुप्

* नीकानामानि *

नीका कुल्या तथा पानं सारणी सारणिः पुनः ॥ १९०२ ॥
5.2.1902 · p. 311
अनुष्टुप्
जलस्य खातकायाश्च तन्नामानि सम्भवन्ति हि ।
5.2.68 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* वालुकानाम *

वालुका सिकता नाम वालुकायाश्च कथ्यते ॥ १९०३ ॥
5.2.1903 · p. 311
अनुष्टुप्metre not read in every line

* बिन्दुनामानि *

पृषत् च पृषतो विप्रुट् बिन्दुश्च मन्यतेऽपि वै ।
5.2.70 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* कर्दमनामानि *

कर्दमश्चिकिलः पङ्कश्चिक्खल्लश्च निषद्वरः ॥ १९०४ ॥
5.2.1904 · p. 312
अनुष्टुप्metre not read in every line
विस्कल्लश्चापि जम्बालः ख्यातः शादस्तथा किल ।कर्दमस्येति नामानि कथ्यन्ते पण्डितै जनैः ॥ १९०५ ॥
5.2.1905 · p. 312
अनुष्टुप्

* शोणनामानि *

शोणो हिरण्यबाहुश्च हिरण्यवाहोऽपि मन्यते ।
5.2.73 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* नदनामानि *

उद्ध्यो नदो वहो भिद्यः सरस्वान् बृहती नदी ॥ १९०६ ॥
5.2.1906 · p. 312
अनुष्टुप्metre not read in every line

* ह्रदनामानि *

ह्रदोऽगाधजलो द्रहो नद्यगाधा च कथ्यते ।
5.2.75 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्र (wrong syllable)

* कूपनामानि *

कूपोऽन्धुरुदपानश्च प्रहिनामाऽपि मन्यते ॥ १९०७ ॥
5.2.1907 · p. 312
अनुष्टुप्metre not read in every line

* त्रिकानामानि *

नेमी नेमिस्त्रिका कूपे जलं भर्तुं च क्रियते ।
5.2.77 · p. 312
अनुष्टुप्metre not read in every line

* नान्दीमुखनामानि *

नान्दीमुखो विनाहश्च वीनाहो मुखबन्धने ॥ १९०८ ॥
5.2.1908 · p. 313
अनुष्टुप्metre not read in every line
पुनर्नान्दिपटो नाम तस्यैवार्थेऽपि कथ्यते ।
5.2.79 · p. 313
अनुष्टुप्

* आहावनामानि *

आहावश्च निपानं स्यादुपकूपजलाशये ॥ १९०९ ॥
5.2.1909 · p. 313
अनुष्टुप्

* वापीनामानि *

वापिर्वापी दीर्घिका च महाकूपो हि कथ्यते ।
5.2.81 · p. 313
अनुष्टुप्

* लघुकूपनामानि *

क्षुद्रकूपश्चुरी चुण्ढी व्रतको लघुकूपकः ॥ १९१० ॥
5.2.1910 · p. 313
अनुष्टुप्

* घटीयन्त्रनामानि *

उद्घाटकं घटीयन्त्रमुद्घाटनमुद्घातनम् ।
5.2.83 · p. 313
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 मु (wrong syllable); pāda 3, syllable 7 ट्ट (wrong syllable)

* अरघट्टकनाम *

पादावर्तोऽरघट्टकः घटीयन्त्रविशेषकम् ॥ १९११ ॥
5.2.1911 · p. 313
metre not recognised

* अखातनाम *

अखातं देवखातं चेत्यकृत्रिमसरः किल ।
5.2.85 · p. 313
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)

* खातकनामानि *

कथ्यते खातकं चैव पुष्करिणी तडागिका ॥ १९१२ ॥
5.2.1912 · p. 314
अनुष्टुप्metre not read in every line

* तडागनामानि *

पद्माकरस्तडागश्च कासारः सरसी महान् ।सरः ख्यातस्तटाकश्च तडाकोऽपि हि कथ्यते ॥ १९१३ ॥
5.2.1913 · p. 314
अनुष्टुप्

* लघुतडागनामानि *

वेशन्तः पल्वलस्तल्लस्तडागो लघुरेव सः ।
5.2.88 · p. 314
अनुष्टुप्

* खातिकानामानि *

खातिका परिखा खेयं प्रसिद्धमतिवर्तते ॥ १९१४ ॥
5.2.1914 · p. 314
अनुष्टुप्

* आवालनामानि *

आवालं चाऽऽलवालं चाऽऽवापः स्थानकमुच्यते ।
5.2.90 · p. 314
अनुष्टुप्

* आधारनाम *

आधार रम्भसां बन्धो मन्यते पण्डितैर्जनैः ॥ १९१५ ॥
5.2.1915 · p. 314
अनुष्टुप्

* निर्झरनामानि *

उत्सः प्रस्रवणं स्रवः स्यान्निर्झरो झरो सरिः ।
5.2.92 · p. 314
अनुष्टुप्metre not read in every line

* जलाशयनाम *

प्रोक्ता जलाशयाः ख्याताः जलाधारास्तथा सदा ॥ १९१६ ॥
5.2.1916 · p. 315
अनुष्टुप्metre not read in every line