अग्निभू
agnibhūपुं · masc.In 10 kośas: 10 synonym verses.
स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः ।षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८ ॥द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः ।विशाखः शक्तिभृत्क्रौञ्चतारकारिः शराग्निभूः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
कार्तिकेयो महासेनः शरजन्मा षडाननः ।पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ।षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
गौरीपुत्रः षण्मुखः शक्तिपाणिः,क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।स्कन्दः स्वामी तारकारिः कुमारः,सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
शालिनी
genderपुंmasc.
सुब्रह्मण्यः कुमारः स्यात्छूरपद्महरो गुरुः ।स्वामी सुवर्णमाली स्यादग्निभूः कुक्कुटध्वजः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
द्वैमातुरो विघ्नराजो लम्बोदरगजाननौ ।षडाननः शक्तिधरः शरजन्माऽग्निभूर्गुहः ॥ ३८५ ॥
अनुष्टुप्
genderपुंmasc.
लेखिनीरदनो वेदलेखकस्तु गणाधिपः ।कुमारः पार्वतीसूनुः सेनानीरग्निभूर्गुहः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
शरजन्माग्निभूः स्वामी विशाखः क्रौञ्चभेदनः ।तारकारिः शक्तिधरः कुमारो बहुलात्मजः ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
अग्निभूः अग्निजन्मा वै गङ्गोमाकृत्तिकासुतः ।शरभूः शरजन्मा च ब्रह्मचारी दिगम्बरः ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
देवसेनापतिः शम्भुतनयः क्रौञ्चदारणः ।अग्निभूर्बाहुलेयः स्याद् बालचर्यः षडाननः ॥
अनुष्टुप्
genderपुंmasc.
महासेनो महातेजाः शक्तिपाणिर्गुहोऽग्निभूः ।वैजयन्तः सिद्धसेनः सेनानीः शिखिवाहनः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.