स्कन्द
skandaपुं · masc.In 15 kośas: 16 synonym verses, 2 as a nānārtha head word, 24 as a meaning of another word.
स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः ।षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८ ॥द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः ।विशाखः शक्तिभृत्क्रौञ्चतारकारिः शराग्निभूः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
कार्तिकेयो महासेनः शरजन्मा षडाननः ।पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ।षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
गौरीपुत्रः षण्मुखः शक्तिपाणिः,क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।स्कन्दः स्वामी तारकारिः कुमारः,सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
शालिनी
genderपुंmasc.
व्यामशिष्यस्तूपरुद्रो विष्वक्सेनो गणाधिपः ।कुमारः शरजः स्कन्दस्तारकारिरुमासुतः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः ।रसधातुर्हरतेजो यशोदः खेचरः पुनः ॥ ५८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
क्रौञ्चतारकवैर्यर्थो देवसेनापतिश्च सः ।कामजित्कामदः कान्तः स्कन्दः शीघ्रः शुचिः शिशुः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्द-द्वादशदृग्-विशाख-शिवज-क्रौञ्चारि-षाण्मातुराःस्वामी षा-षडाननौ शरभवः सेनापतिः शक्तिभृत् ।सेनानीः शिखिवाहनः शिखिभवः स्यात्कार्त्तिकेयो महा-सेनस्तारकजित्कुमार-गिरिजाभू-बाहुलेया गुहः ॥ ९० ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
बालग्रहाः स्कन्दमुखा आविष्टस्त्रिषु तद्वशः ।तथोन्मादयुगुन्मत्तोऽथोन्मदिष्णुस्तु सोन्मदः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
वृषाकपिः समीगर्भो हव्यवाहो हुताशनः ।तदादिसूनुः सेनानीः स्कन्दश्च शिखिवाहनः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
गंगासुतो महातेजाः कुमारोमासुतौ गुहः ।स्कन्दः स्वामी विशाखश्च सेनानीस्तारकान्तकृत् ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
बाहुलेयः शक्तिधरः शूरः स्कन्दो बुधाधिपः ।विष्णु संकर्षणः कृष्णः पुरातनचिरन्तनौ ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
कार्त्तिकेयो गुहः स्कन्दः सेनानीः पार्वतीसुतः ।षाण्मातुरो महासेनः षण्मुखः शिखिवाहनः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्दः स्वामी च सेनानी पार्वतीनन्दनस्तथा ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्दो विशाखः सेनानीः स्वामी द्वादशलोचनः ।कृकवाकुध्वजः शक्तिधरः षाण्मातुरः स्थिरः ।शरजन्मा महाबाहुर्युद्धरङ्गः शिखिध्वजः ॥
अनुष्टुप्
genderपुंmasc.
हेरम्बपञ्चकरषण्मुखपूर्वजन्म-द्वैमातुराः परशुभृद्रणनायकश्च ।कार्तिकेयशरजन्मवह्निभूस्कन्दषण्मुखकलापिवाहनाः ॥ ६२ ॥
वसन्ततिलकाtwo metres in one verse
genderपुंmasc.
द्वैमातुरः परशुभृदाखुयानो गणाधिपः ।कुमारः शरजः स्कन्दुस्तारकारिरुमासुतः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्द as a meaning in nānārtha verses
- कोषकल्पतरु विशाखस्कन्दे विशाखो नरि तर्कके च कटिल्लके तद्वदुदाहरन्ति । Koṣakalpataru 6.2.12
- कोषकल्पतरु महासेनउद्वाहनं तु पाणिग्रहणे क्षेत्रे द्विसीत्ये च । रज्ज्वां स्त्रियामथ महासेनः सैन्याधिपे स्कन्दे ॥ २५ ॥ Koṣakalpataru 6.21.25
- कोषकल्पतरु कुमारकणे सुनारस्तु भुजङ्गभाण्डे स्तन्ये च शून्याः कलविङ्ककेऽपि । शिशौ कुमा[57a]रो युवराजकीर- स्कन्दाश्वचारे वरुणद्रुमे ना ॥ ४६ ॥ Koṣakalpataru 6.27.46
- कोषकल्पतरु गुहईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ Koṣakalpataru 6.32.43
- नानार्थार्णवसंक्षेप गुहगुहा स्त्री पृश्निपर्णीति प्रसिद्धायां च वीरुधि । गह्वरे पर्वतस्यापि स्कन्दे तु स पुमान् गुहः ॥ ३५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.355
- नानार्थार्णवसंक्षेप वीरस्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद्विचार्यं विचक्षणैः ॥ १२६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1263
- नानार्थार्णवसंक्षेप शिशुशिशुः पुंस्यृषिभेदे च स्कन्दे च द्वे तु बालके । शिग्रुर्भोजनशाके स्त्री ना तु शोभाञ्जनद्रुमे ॥ १३७० ॥ Nānārthārṇavasaṃkṣepa 2.5.1370
- नानार्थार्णवसंक्षेप कुमारपादपे रभसोऽथ द्वे कुमुखः सूकरे त्रि तु । कुत्सितास्ये कुमारस्तु स्कन्दे ना वरुणद्रुमे ॥ ५१३ ॥ Nānārthārṇavasaṃkṣepa 4.513
- नानार्थार्णवसंक्षेप गाङ्गेयगाङ्गेयस्तु पुमान् स्कन्दे भीष्मे चाथाभिधेयवत् । अपत्यमात्रे गङ्गायाः क्ली तु हेमकशेरुणोः ॥ ६६६ ॥ Nānārthārṇavasaṃkṣepa 4.666
- नानार्थार्णवसंक्षेप सेनानीस्यूते प्रसेवसंज्ञे ना त्रि तु सेवितरि स्मृतः । सेनानीस्तु पुमान् स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ २००२ ॥ Nānārthārṇavasaṃkṣepa 4.2002
- नानार्थार्णवसंक्षेप ब्रह्मचारिन्अत्रापि पूर्ववत् सादि ब्रह्मचारी पुनर्नरि । उपनीते तथा स्कन्दे स्त्रियां तु ब्रह्मचारिणी ॥ ४२४ ॥ Nānārthārṇavasaṃkṣepa 6.424
- नानार्थार्णवसंक्षेप बाहुलेयदुर्गायां त्रिषु तु ज्ञेयः स्यादमैथुनकारिणि । बाहुलेयस्तु ना स्कन्दे द्वयोस्तु बहुलासुते ॥ ४२५ ॥ Nānārthārṇavasaṃkṣepa 6.425
- नानार्थार्णवसंक्षेप सुब्रह्मण्यअथ सिन्धूद्भवं क्लीबे सैन्धवे सादि पूर्ववत् । सुब्रह्मण्यस्तु ना स्कन्द ऋत्विग्भेदे तु नृस्त्रियोः ॥ ६७४ ॥ Nānārthārṇavasaṃkṣepa 6.674
- परमानन्दीयनाममाला गुहगुप्तो दासीसुते गूढे गुहः स्कन्दे च गहरे । गन्धर्वः खेचरे त्वश्वे गायने हरिणान्तरे ॥ १६० ॥ Paramānandīyanāmamālā 5.9.160
- शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
- शब्दरत्नावली पर्वतद्विजिह्वः सूचके चौरे दुःसाध्ये च भुजङ्गमे । नितम्बः स्त्रीकटीपश्चाद्भागे तत्कटिमात्रके । पर्वतःस्कपिकटके स्कन्दे वेधसि कुत्रचित् ॥ Śabdaratnāvalī 7.23.13
- शब्दरत्नावली कुमारकुमारः स्कन्दशुकयोर्युवराजाश्ववारयोः । बालके वरुणे पुंसि क्लीबं स्याज्जात्यकाञ्चने ॥ Śabdaratnāvalī 7.27.64
- शब्दरत्नाकर गुहव्यूहे स्तम्बे गदे गुल्मो गदः कृष्णानुजे रुजि । गण्डः कपोले पाषाणे गुहः स्कन्दे गुहा दरी ॥ १९१३ ॥ Śabdaratnākara 4.1.1913
- शब्दरत्नाकर वीरकीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च । वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥ Śabdaratnākara 4.1.1999
- शब्दरत्नाकर गाङ्गेयगन्धर्वो गायके सप्तौ देवयोनौ मृगान्तरे । चामीवरे तु गाङ्गेयं गाङ्गेयः स्कन्दभीष्मयोः ॥ २०८७ ॥ Śabdaratnākara 4.1.2087
- शब्दरत्नाकर बाहुलेयबाहुलेयो वृषे स्कन्दे भूतनाथः शिवे नृपे । महाकालो हरे हालाहले बाणासुरेऽपि च ॥ २२२० ॥ Śabdaratnākara 4.1.2220
- वैजयन्ती वीरवीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः । गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥ Vaijayantī 6.5.82
- वैजयन्ती विशाखवेदना दुःखानुभवे ज्ञाने च स्त्रीनपुंसकम् । स्कन्दे विशाख ऋक्षे स्त्री विहासः स्फुटहासयोः ॥ ८३ ॥ Vaijayantī 7.5.83
- वैजयन्ती ब्रह्मचारिन्पद्मी गजे पद्मिनी तु नलिन्यां हस्तिनीश्रियोः । ब्रह्मचारी व्रती स्कन्दो दुर्गा तु ब्रह्मचारिणी ॥ ३० ॥ Vaijayantī 8.5.30