All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
आकाशभानुः · अण्डजमरीचिः
इति शब्दमरीचिः ।
पतङ्गः पतगः पक्षी खगः पत्ररथोऽण्डजः ॥ ३६५ ॥
6.3.365 · p. 26
हंसः श्वेतगरुत्श्वेतपक्षो मानसमन्दिरः ।राजहंसो रक्तवक्त्रचरणोऽण्डजनायकः ॥ ३६६ ॥
6.3.366 · p. 26
अनुष्टुप्
खञ्जरीटः खञ्जनकः चक्रवाको रथाङ्गकः ।तार्क्ष्यो गरुत्मान् गरुडो वैनतेयोऽण्डजेश्वरः ॥ ३६७ ॥
6.3.367 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
नागान्तकः पक्षिसिंहः[ह्वः] काश्यपिर्विष्णुवाहनः ।गृध्रो दाक्षाय्यको दाक्षः पत्त्री शेनः शशादनः ॥ ३६८ ॥
6.3.368 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निशाटनो दिवाभीत उलूको वायसान्तकः ।आतापी चिल्हिनी चिल्ही टिट्टिभो रटको रटः ॥ ३६९ ॥
6.3.369 · p. 26
अनुष्टुप्
नीलकण्ठो मणिग्रीवोऽशोकश्चाषः किकीदिविः ।ताम्रचूडः कुक्कुटकः कृकवाकुः पदायुधः ॥ ३७० ॥
6.3.370 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
काकः करटकोऽरिष्टो द्विको ध्वाङ्क्षः सकृत्प्रजः ।श्यामकाको द्रोणकाकः काकोलः काकनायकः ॥ ३७१ ॥
6.3.371 · p. 26
अनुष्टुप्
काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ ।शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥
6.3.372 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पक्षिव्याघ्रस्तीक्ष्णतुण्डो नखशस्त्रः खगान्तकः ।चटकद्विट् क्रूरपातः क्रूरदृक् खगचित्रकः ॥ ३७३ ॥
6.3.373 · p. 26
अनुष्टुप्
कुक्कुभस्तित्तिरो लावो जीवो वाटेयको कटिः ।श्यामा कुमारी दुर्गोमा पोदकी भूमिदारिका ॥ ३७४ ॥
6.3.374 · p. 26
अनुष्टुप्
कपिञ्जलः पक्षिमल्लः चकोरो रक्तलोचनः ।कुरङ्गलीलोऽनिलजः पिङ्गलो रात्रिसञ्चरः ॥ ३७५ ॥
6.3.375 · p. 26
अनुष्टुप्
कृष्णचूडः कृमिरिपुर्वुल्वुलो नीलपिङ्गलः ।सारिका स्मारिका सारी पारावतकपोतकौ ॥ ३७६ ॥
6.3.376 · p. 26
अनुष्टुप्
कीरः शुकः खगबुधः कैदारः शाल्मलिप्रियः ।हंसस्त्री वरटा हंसी कादम्बः कलहंसकः ॥ ३७७ ॥
6.3.377 · p. 26
अनुष्टुप्
भारद्वाजः पक्षिमुनिर्दधित्थः पाण्डुपक्षतिः ।अलिर्मिलिन्दो भ्रमरो लम्बो मधुपोऽसितः ॥ ३७८ ॥
6.3.378 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्दो (syllables merged)
शिलीमुखो मधुकरः षट्पदः पुष्पधूलिपः ।दीपप्रियः शलभकः पतङ्गो ज्योतिरन्तकः ॥ ३७९ ॥
6.3.379 · p. 26
अनुष्टुप्
भम्भरा मक्षिका नीला खद्योतो ज्योतिरिङ्गणः ।अरण्यमक्षिका दंशः सरघा मधुमक्षिका ॥ ३८० ॥
6.3.380 · p. 27
अनुष्टुप्
छदःपत्रं गरुत्पक्षं पतत्रं पुङ्खमाण्डजम् ।चञ्चुस्त्रोटिः चञ्चुकिका पक्षतिः पक्षमूलकम् ॥ ३८१ ॥
6.3.381 · p. 27
अनुष्टुप्
संडीनोड्डानकोड्डीना उड्डियानं खगेरिताम् ।स्तोकसङ्घातनिकरव्रातव्यूहसमूहकाः ॥ ३८२ ॥
6.3.382 · p. 27
अनुष्टुप्
आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा ।कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥
6.3.383 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति अण्डजमरीचिः ।
द्वैमातुरो विघ्नराजो लम्बोदरगजाननौ ।षडाननः शक्तिधरः शरजन्माऽग्निभूर्गुहः ॥ ३८५ ॥
6.3.385 · p. 27
अनुष्टुप्
कार्त्तिकेयस्तारकजित्कुमारः क्रौञ्चदारणः ।झषकेतुः स्मरो मारः पुष्पधन्वा मनोभवः ॥ ३८६ ॥
6.3.386 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ता (wrong syllable)
शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः ।अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥
6.3.387 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
अपर्णोमा हैमवती शिवाऽम्बा गिरिशप्रिया ।शिवः शम्भुर्महादेवो रेरिहाणोऽन्धकद्विषत् ॥ ३८८ ॥
6.3.388 · p. 27
अनुष्टुप्
गङ्गाधरस्त्रिनयनः शङ्करश्चन्द्रशेखरः ।रुद्रः स्थाणुः पशुपतिर्भगः शूली पिनाकधृक् ॥ ३८९ ॥
6.3.389 · p. 27
अनुष्टुप्
वृषाङ्को नीलकण्ठेशौ भगाली त्रिपुरान्तकृत् ।पिनाकः शम्भुकोदण्डो जटाजूटः कपर्द्दकः ॥ ३९० ॥
6.3.390 · p. 27
अनुष्टुप्
प्रमथाद्याः पारिषदाः नन्दिभृङ्ग्यादयो गणाः ।ब्राह्मी माहेश्वरी काली कौमारी शक्रवल्लभा ॥ ३९१ ॥
6.3.391 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
अपराजिता नारसिंही चामुण्डेत्यष्टमातरः ।शतधामा पृष्णिगर्भः पाञ्चजन्यधरोऽच्युतः ॥ ३९२ ॥
6.3.392 · p. 27
metre not recognisednearly अनुष्टुप्
गदी नारायणो विष्णुर्वैकुण्ठो विष्टरश्रवाः ।त्रिविक्रमो वासुदेवः कौस्तुभी गरुडध्वजः ॥ ३९३ ॥
6.3.393 · p. 27
अनुष्टुप्
हृषीकेशो हरिः शौरिः श्रीवत्साङ्को रमापतिः ।कौमोदकी विष्णुगदा शौरिचक्रं सुदर्शनम् ॥ ३९४ ॥
6.3.394 · p. 27
अनुष्टुप्
शारङ्गाच्युतकोदण्डौ पृष्णिगर्भासिनन्दकौ ।इन्दिराऽब्धिसुता लक्ष्मी कमला कमलालया ॥ ३९५ ॥
6.3.395 · p. 28
अनुष्टुप्
विष्णुप्रिया लोकमाता रमा मा श्रीः शशिस्वसा ।हलायुधः कामपालो रेवतीरमणो बलः ॥ ३९६ ॥
6.3.396 · p. 28
अनुष्टुप्
बलभद्रः प्रलम्बारिर्बलदेवोऽच्युताग्रजः ।आत्मभूः सृष्टिकृद्ब्रह्मा चतुर्वक्त्रः प्रजापतिः ॥ ३९७ ॥
6.3.397 · p. 28
अनुष्टुप्
हिरण्यगर्भो द्रुहिणो विरञ्चिः सुरपूर्वजः ।अजः पितामहः स्रष्टा पद्मयोनिः श्रुतीक्षकः ।सावित्री वेदजननी गायत्री ब्रह्मवल्लभा ॥ ३९८ ॥
6.3.398 · p. 28
अनुष्टुप्
इति निगदित एषः शाब्दिकानन्दकारि-रुचिरुचिरसुवर्णोद्भासमानः प्रकाशः ।क्षितिगगनतुरङ्गक्षोणिसङ्ख्येऽर्कवर्षे (१७०१)शुचिधवलसुषष्ठ्यां भानुवारे च हस्ते ॥ ३९९ ॥
6.3.399 · p. 28
मालिनी
पञ्चतत्त्वप्रकाशोऽयं वेणीदत्तेन धीमता ।प्रकाशितः प्रकाशार्थः श्रीविश्वेशकृपाज्ञया ॥ ४०० ॥
6.3.400 · p. 28
अनुष्टुप्
इति श्रीयाज्ञिकवंशावतंसनीलकण्ठात्मजजगज्जीवनसूनुवेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे आकाशभानुः ।
समाप्तश्चायं पञ्चतत्त्वप्रकाशो नाम ग्रन्थराजः ।
श्रीमन्माधवसूनुना सुविलसच्छास्त्रज्ञताशालिना ।सच्छीलैकगुणाब्धिना गिरिधरेणासादितः साधुना ॥ ४०१ ॥
6.3.401 · p. 28
शार्दूलविक्रीडितम्
काश्यां वंशीधराज्ञाप्रकलनपटुना जायतां तत्सुखाय ।श्रीमद्वेणीप्रसादाद्बहुतरसमयं पञ्चतत्त्वप्रकाशः ॥ ४०२ ॥
6.3.402 · p. 28
स्रग्धरा