कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वैजयन्त

vaijayantaपुं · masc.

In 14 kośas: 16 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.101 · p. 11
वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.28 · p. 3
चामुण्डायां महाचण्डी चण्डमुण्डाप्यथाखुगे ॥ ६० ॥पृश्निगर्भः प्रश्निशृङ्गो द्विशरीरस्त्रिधातुकः ।हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ ॥सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.25
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.44 · p. 12
खदिरो माहिषी दार्वी बिडौजाः सितकुञ्जरः ।प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.38 · p. 384
वैजयन्तौ तु प्रासादध्वजौ वज्रोऽस्त्रियां पुनः ।गिरिकण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.104 · p. 18
चतुर्दन्तः श्वेतगजः सुदामैरावतः पुमान् ।प्रासादो वैजयन्तः स्याज्जम्भाद्यास्तपविद्विषः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.70 · p. 10
तत्प्रासादो वैजयन्तो भास्वरं कामदं शिवम् ।तत्सभा सुरसा धर्मा सुधर्मा नाटकी झरा ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.76 · p. 11
तद्ध्वजे वैजयन्तः स्याज्जर्झरः परभेदकः ।तद्धाट्यां लङ्घिनी बाला पूरणा परमावती ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.45 · p. 6
सुतो जयन्तः प्रासादो वैजयन्तोऽमरावती ।पुरी सभा सुधर्मा च मातलिः सारथिर्हरेः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.197 · p. 27
वैजयन्तस्तु प्रासादः वैजयन्तो ध्वजस्तथा ।पुर्यमरावती ज्ञेया नामापरं सुदर्शनम् ॥ १९७ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.266 · p. 35
तारकारिः महातेजाः कुमारः करवीरकः ।गाङ्गेयो बालचर्यश्च वैजयन्तो दिवाकरः ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.113 · p. 8
अस्योद्यानं कन्दसारं नन्दनमिन्द्रकाननम् ।प्रासादो वैजयन्तोऽस्य पुत्रः स्यात् पाकशासनिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.257 · p. 209
वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः ।ध्वाजिश्च ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.70 · p. 9
ऊर्ध्वधन्वाथ तज्जाया शचीन्द्राणी पुलोमजा ।पूतक्रतायी सैव स्यात् पुरीन्द्रस्यामरावती ।पुत्रो जयन्तः प्रासादो वैजयन्तोऽशनिर्ध्वजः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.55 · p. 7
महासेनो महातेजाः शक्तिपाणिर्गुहोऽग्निभूः ।वैजयन्तः सिद्धसेनः सेनानीः शिखिवाहनः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.9 · p. 9
जयन्ती देवनन्दी तु द्वार्स्थः सूतस्तु मातलिः ।प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.65 · p. 227
अश्मप्रभेदे नरि चन्द्रकान्तो-ऽन्त्ये कैरवेऽथो नरि वैजयन्तः ।गुहे जयन्तेऽरणिवृक्ष धूकानाकेशकन्यासु भवेत्स्त्रियां सः ॥ ६५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.588 · p. 77
वैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः ।तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.173 · p. 226
विवस्वान् वरुणे सूर्ये तत्रगर्यां विवस्वती ।वैजयन्तोऽपि शक्रस्य प्रासादध्वजयोः पुमान् ॥
अनुष्टुप्