इक्षुभेद
ikṣubhedaIn 7 kośas: 0 synonym verses, 12 as a meaning of another word.
इक्षुभेद as a meaning in nānārtha verses
- कोषकल्पतरु वासरस्याद्वासरोऽस्त्री दिवसे च नाग- प्रभेदके ना पुनरिक्षुभेदे । कान्तारमस्त्री विपिने सुदुर्गमे मार्गेऽङ्घ्रिधूलौ त्वपि पादरः स्यात् ॥ ३९ ॥ Koṣakalpataru 6.27.39
- नानार्थार्णवसंक्षेप कान्तारइक्षुभेदेऽथ कादम्बः कलहंसे द्वयोरयम् । कदम्बसम्बन्धिनि तु त्रिषु स्यान्मार्गणे तु ना ॥ ४३७ ॥ Nānārthārṇavasaṃkṣepa 4.437
- नानार्थार्णवसंक्षेप नेपालनेपालस्त्विक्षुभेदे ना नीवृद्धेदे च भूम्नि च । रभसोक्ता तु सुवहानवमालिकयोः स्त्रियाम् ॥ १०४७ ॥ Nānārthārṇavasaṃkṣepa 4.1047
- परमानन्दीयनाममाला कान्तारकच्छपे भाण्डभेदेऽथ कदली न्यङ्कुमोचयोः । कान्तारं विपिने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ १३१ ॥ Paramānandīyanāmamālā 5.7.131
- परमानन्दीयनाममाला पुण्ड्रपुण्ड्रः कीटे च वासन्त्यां चित्रके तिलकेऽपि च । इक्षुभेदे पुण्डरीके पशुर्मेषे मृगान्तरे ॥ २९६ ॥ Paramānandīyanāmamālā 5.19.296
- शिवकोष पुण्ड्रपुण्ड्रं प्रपौण्ड्ररीके स्यात्पुण्ड्रो व्रीहीक्षुभेदयोः । अतिमुक्ते पुण्डरीके वरस्तिन्दुपियालयोः ॥ ३८२ ॥ Śivakoṣa 22.2.382
- शिवकोष नेपालनिचुलः स्थलसम्भूतवेतसे चाम्बुवेतसे । नेपालः स्यादिक्षुभेदे सुवहायां तु योषिति ॥ ४६२ ॥ Śivakoṣa 23.2.462
- शब्दरत्नावली पुण्ड्रपुण्ड्रः स्यान्माधवीवल्ल्यां दैत्यभेदेक्षुभेदयोः । कीटे चित्रे पुण्डरीके ना पुं भूम्नि च निवृति ॥ Śabdaratnāvalī 7.27.32
- शब्दरत्नावली कान्तारकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
- शब्दरत्नाकर वंशचिह्नमेहनयोर्लिङ्गं वेषे बुद्ध्यादिसंगतौ । वंशः पृष्ठास्थ्नि नासोर्ध्वास्थ्नीक्षुभेदे कुले गणे ॥ १९९२ ॥ Śabdaratnākara 4.1.1992
- वैजयन्ती वंशनासोर्ध्वास्थ्नीक्षुभेदे च वहिरुक्ष्णि हयेऽनले । वलो धान्येऽसुरे काके गवां श्वासेऽनिले वहः ॥ ५३ ॥ Vaijayantī 6.1.53
- वैजयन्ती कान्ताररागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे । कान्तार इक्षुभेदे ना न स्त्री व्यध्वे महावने ॥ २२ ॥ Vaijayantī 7.5.22