कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कान्तार

kāntāraपुं · masc.

In 18 kośas: 29 synonym verses, 10 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.72 · p. 39
प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1 · p. 44
अरण्यमटवी सत्त्रं वार्क्षं च गहनं झषः ।कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥ १११० ॥दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.17
प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.210 · p. 26
अरण्यमटवी सत्त्रं कान्तारं काननं वनम् ।विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥
अनुष्टुप्
genderक्लीneut.
पुण्ड्रः पौण्डः पुण्ड्रकश्च पौण्ड्रकश्च समा इमाः ।कान्तारकश्च कान्तारः श्यामाकः श्यामकः समौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.99 · p. 19
कान्तारमस्त्रियां च स्याद्दुर्गमार्गोऽपि दुर्गमः ।संधिला तु सुरङ्गा स्याद्गूढमार्गो भुवोन्तरा ॥ ९९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.1 · p. 248
अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् ।क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.585 · p. 315
वृष्यो वंशोऽपि कान्तारः स च पञ्चविधः सितः ।कठिनश्वेतकाष्ठेभ्य इक्षुः काण्डाच्च पत्रकः ॥ ५८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.181 · p. 481
अपि वासरकासारविहाराणां तथापि च ।स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ॥ १८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.57 · p. 118
प्राध्वः स्यात्प्रहतः पन्थाः कान्तारोऽस्त्री स दुर्गमः ।प्रान्तरं दूरशून्योऽन्त्येऽथा[पन्था] अपथं भवेत् ॥ ५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 134
अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् ।गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 184
रसालः पुण्ड्रकः पौण्ड्रः सुकुमारक इत्यपि ।दीर्घपर्वा तु कान्तारो वांसिको नीलयष्टिका ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.60 · p. 114
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.42 · p. 5
कार्मुकं तस्य कान्तारः शरास्तस्य तु पल्लवाः ।रजको वाहनं तस्य रथो मलयजः स्मृतः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 13 · p. 6
विपिनं गहनं कक्षमरण्यं काननं वनम् ।कान्तारमटवी दुर्गम् तच्चरः स्याद्वनेचरः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.267 · p. 37
दुरध्वः कापथो व्यध्वा कदध्वा विपथं तथा ।प्रान्तरं दूरशून्योऽसो कान्तारो दुर्गमो मतः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.19 · p. 54
वायुवर्गोऽयमाख्यातो विद्वदम्बुजभानुना ।वनं वार्क्षं झषः कक्षः कान्तारोऽरण्यकानने ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.113 · p. 66
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.156 · p. 230
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.140 · p. 15
वाटिकोपवनं दावः कक्षः कान्तारनिःकुटौ ।अटव्यरण्यं गहनं सान्द्रे कुञ्जो निकुञ्जवत् ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1689 · p. 272
प्रान्तरं दूरशून्योऽध्वा कान्तारो दुर्गमः पथः ।सुरङ्गा च सुरुङ्गा च सन्धिला सन्धिरेव सः ॥ १६८९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1947 · p. 320
वनं वार्क्षं दवो दावो विपिनं गहनं झषः ।अरण्यमटवी सत्रं कान्तारं काननं पुनः ॥ १९४७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2155 · p. 354
कान्तारः कोषकारश्च पुण्ड्रपुण्ड्रकपौण्ड्रकाः ॥ २१५५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.28 · p. 47
महारण्यं महादुर्गपथि कान्तारमस्त्रियाम् ।स्त्रीः गव्यूतिः क्रोशयुग्मं नल्वो हस्तचतुःशतम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.435 · p. 58
काननं विपिनारण्यगहनानि वनं वनी ।अटवी दवदावौ च कान्तारं सत्रमित्यपि ॥ ४३५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.664 · p. 85
तस्मिन्मधुतृणं भेदा वंशकान्तारपुण्ड्रकाः ।मत्कुटः सूक्ष्मपत्रः स्याद्दीर्घलोहितयष्टिका ॥ ६६४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 138 · p. 538
शून्येश्वरस्तु कान्तारः कोषकारस्तु वंशकः ।शतघोरस्त्वीषत्क्षारः पीतच्छायोऽथ तापसः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वी (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.12 · p. 276
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.226 · p. 63
खड्गपत्रोऽप्यथानिक्षुर्वायसालीक्षुपालिका ।इक्षुभेदास्तु कान्तारवंशपुंड्रादयो नरि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.172
महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ॥ १७२ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.816 · p. 94
दुर्गमार्गेऽपि कान्तारं गृहवाट्यां च निष्कुटः ।रूपं मृगेऽपि विज्ञेयं बभ्रुः स्यान्नकुलेऽपि च ॥ ८१६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.59 · p. 174
कान्तारः कानने इ[83]क्षौ कान्तारो दुर्गवर्त्मनि ।मन्दारः सुरवृक्षे स्यात्पारिभद्रार्कपर्णयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.39 · p. 323
स्याद्वासरोऽस्त्री दिवसे च नाग-प्रभेदके ना पुनरिक्षुभेदे ।कान्तारमस्त्री विपिने सुदुर्गमेमार्गेऽङ्घ्रिधूलौ त्वपि पादरः स्यात् ॥ ३९ ॥
upajati mixed
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.436 · p. 84
कान्तारः स्यान्महारण्ये दुर्गमार्गे च तं पुनः ।रभसो वनमात्रे च प्रोक्तवानथ पुंस्ययम् ॥ ४३६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.437 · p. 84
इक्षुभेदेऽथ कादम्बः कलहंसे द्वयोरयम् ।कदम्बसम्बन्धिनि तु त्रिषु स्यान्मार्गणे तु ना ॥ ४३७ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.131 · p. 178
कच्छपे भाण्डभेदेऽथ कदली न्यङ्कुमोचयोः ।कान्तारं विपिने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ १३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.63 · p. 270
कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने ।किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे ।किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः ।कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते ।कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 फो (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2065 · p. 250
अस्त्री वृषाङ्गे प्राधान्ये ककुदो राजलक्षणे ।पुंसीशुभेदे कान्तारः क्लीबे वनदुरध्वनोः ॥ २०६५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.22 · p. 258
रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे ।कान्तार इक्षुभेदे ना न स्त्री व्यध्वे महावने ॥ २२ ॥
अनुष्टुप्

कान्तार as a meaning in nānārtha verses

  • कोषकल्पतरु वनवनं तु कान्तारजल * * * [10b]निवासकप्रस्रवणेषु षण्ढे । सुभूरिवृक्षाम्बुनि रौद्रदेश- काष्ठान्तकीटेष्वपि संप्रदिष्टम् ॥ ८५ ॥ Koṣakalpataru 6.21.85
  • शब्दरत्नावली झाटाझाटा स्त्रियान्तु कान्तारे कृष्णे व्रणादिमार्जने । तटं क्षेत्रे क्लीबलिङ्गं तीरेऽपि च तटी त्रिषु ॥ Śabdaratnāvalī 7.11.16