All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
लान्ताः · लत्रिः
व्रीहिभेदे कोविदारे मधुभेदे च न द्वयोः ।उत्पलं पुष्करे कुष्ठे कमलं जलजे जले ॥ ४४९ ॥
23.2.449 · p. 41
अनुष्टुप्
ताम्रे च कपिलश्चित्रे कौन्तीशिंशिपयोः स्त्रियाम् ।कदला कदली पृश्न्यां कन्दली कन्दलावपि ॥ ४५० ॥
23.2.450 · p. 41
अनुष्टुप्
काष्टीलिकायां कदलो शाल्मली भूरुहेऽपि च ।कराला कालमालायां तैले सर्जरसस्य च ॥ ४५१ ॥
23.2.451 · p. 41
अनुष्टुप्
पुमान् क्लीबं तु रोध्रे स्यात्कट्फलः सोमवल्कले ।कट्फला कृष्णवृन्तायां कन्दलोऽभिनवोद्भिदि ॥ ४५२ ॥
23.2.452 · p. 41
अनुष्टुप्
स्त्री रम्भाभूमिकन्दल्योः काकोली न स्त्रियां विषे ।काणायां स्त्र्यथ कीलालं कुङ्कुमे वालकेऽपि च ॥ ४५३ ॥
23.2.453 · p. 41
अनुष्टुप्
कुवलं तूत्पले मुक्ताफलेऽपि कुवलीफले ।कुण्डल्यारग्वधे कन्दरोहिण्यामप्यथ द्वयोः ॥ ४५४ ॥
23.2.454 · p. 41
अनुष्टुप्
कोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः ।ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥
23.2.455 · p. 41
अनुष्टुप्
गौरिलस्तु कटुस्नेहे लोहचूर्णेऽपि चक्रला ।गुञ्जायां छत्रमुस्ते च चपलः सूतसिल्हयोः ॥ ४५६ ॥
23.2.456 · p. 41
अनुष्टुप्
शौण्ड्यां योषिति चूडाला मुञ्जायां छत्रमुस्तके ।जगलः पिष्टमद्ये च मेदके मदनद्रुमे ॥ ४५७ ॥
23.2.457 · p. 42
अनुष्टुप्
जटिलोग्रानलदयोर्जम्भलो दन्तहर्षणे ।जम्भलार्केऽपि जम्बूलः श्यामपत्रे हलीमके ॥ ४५८ ॥
23.2.458 · p. 42
अनुष्टुप्
तरलः पुंसि धत्तूरे यवागूसुरयोः स्त्रियाम् ।तमालस्तिलके कालस्कन्धे च वरुणद्रुमे ॥ ४५९ ॥
23.2.459 · p. 42
अनुष्टुप्
तण्डुला धान्यनिकरे वेल्ले तण्डुलमस्त्रियाम् ।ताम्बूली नागवल्यां च ताम्बूलं क्रमुकीफले ॥ ४६० ॥
23.2.460 · p. 42
अनुष्टुप्
नकुली कुक्कुटीमांस्योरथ स्यान्नकुली स्त्रियाम् ।रास्नाभित्कुक्कुटीकन्दचव्यके चाक्षपीडके ॥ ४६१ ॥
23.2.461 · p. 42
अनुष्टुप्
निचुलः स्थलसम्भूतवेतसे चाम्बुवेतसे ।नेपालः स्यादिक्षुभेदे सुवहायां तु योषिति ॥ ४६२ ॥
23.2.462 · p. 42
अनुष्टुप्
शिलायां च मनोज्ञायां पललं कर्दमे पले ।तिलपिष्टे प्रवालोऽस्त्री किसले विद्रुमद्रुमे ॥ ४६३ ॥
23.2.463 · p. 42
अनुष्टुप्
पाटला पाटलितरौ पुष्पेऽस्याः पाटलं त्रिषु ।पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ४६४ ॥
23.2.464 · p. 42
अनुष्टुप्
पिप्पलः केशवावासे पिप्पलं सर्वतोमुखे ।पिप्पली तूपकुल्यायां पिचुलस्त्विज्जले नरि ॥ ४६५ ॥
23.2.465 · p. 42
अनुष्टुप्
झाबुके कम्बुके चापि पिच्छलो द्विजकुत्सिते ।तूलिन्यां कृष्णसारायां पोतिकायां च पिच्छला ॥ ४६६ ॥
23.2.466 · p. 42
अनुष्टुप्
भव्ये क्लीबं पिङ्गला तु रुचौ क्लीबं तु पत्रके ।पित्तला तोयपिप्पल्यामारकूटे तु पित्तलम् ॥ ४६७ ॥
23.2.467 · p. 42
अनुष्टुप्
फेनिलः स्यादरिष्टेऽपि फेनिलं बदरीफले ।मदने बहुलैलायां नीलिन्यां महिला स्त्रियाम् ॥ ४६८ ॥
23.2.468 · p. 43
अनुष्टुप्
गुन्द्रायां भस्मगन्धिन्यां मातुलः कनकाह्वये ।फले राठस्य भङ्गायां मातुलानी च मातुली ॥ ४६९ ॥
23.2.469 · p. 43
अनुष्टुप्
मुशली तालमूल्याखुपर्णिकासितकङ्गुषु ।मृणालं नलदे क्लीबं पुंनपुंसकयोर्बिसे ॥ ४७० ॥
23.2.470 · p. 43
अनुष्टुप्
रसाला तु रसादूर्वाविदारीगोस्तनीषु च ।रसालं सिल्हके वोले रसालः पौण्ड्रचूतयोः ॥ ४७१ ॥
23.2.471 · p. 43
अनुष्टुप्
लाङ्गली लाङ्गलं चोचे पृष्टिपर्ण्यां तु लाङ्गली ।कण्टके च विशल्यायां वल्कला तु गुडत्वचि ॥ ४७२ ॥
23.2.472 · p. 43
अनुष्टुप्
तेजोवत्यां वञ्जुलस्तु तिनिशाशोकवेतसे ।विमला सातलायां स्याद्विमलः पद्मकाष्टके ॥ ४७३ ॥
23.2.473 · p. 43
अनुष्टुप्
विदुलस्तु पुमानम्लवेतसे चापि वेतसे ।श्यामलः स्याच्चलदले श्यामलं लवलीफले ॥ ४७४ ॥
23.2.474 · p. 43
अनुष्टुप्
शाल्मली रक्तपुष्पायां तदास्त्रावे तु शाल्मलः ।शीतलं पुष्पकासीसे कर्पूरे मलयोद्भवे ॥ ४७५ ॥
23.2.475 · p. 43
अनुष्टुप्
शैलजे च पुमान्हेमपुष्पे मरिचपत्रके ।श्रीफली नीलिकाधात्र्योर्ना बिल्वे चिक्कणे द्वयोः ॥ ४७६ ॥
23.2.476 · p. 43
अनुष्टुप्
शीवलं स्याच्च शीवाले शैलेये च नपुंसकम् ।शैवलः पुंसि शैवाले क्लीबं स्यात्पद्मकाष्टके ॥ ४७७ ॥
23.2.477 · p. 43
अनुष्टुप्
सरलः पूतिकाष्टे स्यात्सरला तु त्रिवृद्भिदि ।सप्तला ग्रैष्मिकाभूरिफेनाचूडामणिष्वपि ॥ ४७८ ॥
23.2.478 · p. 43
अनुष्टुप्
हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली ।
23.2.32 · p. 44