All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
चतुर्थः काण्डः · अनेकार्थाधिकाराध्यायः (2/4)
अंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे ।मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥
4.1.1980 · p. 241
अनुष्टुप्
मृगस्तु हरिणे सौम्ये नक्षत्रेऽन्वेषणे गजे ।मार्गो मृगशिरोमासान्वेषणाध्वसु याचने ॥ १९८१ ॥
4.1.1981 · p. 241
अनुष्टुप्
मुख्यद्वाराभ्युपायेषु ताम्रे च वदने मुखम् ।यमो यमलकीनाशसंयमेषु नियन्त्रणे ॥ १९८२ ॥
4.1.1982 · p. 241
अनुष्टुप्
यतिर्यतिनि पुंसि स्यात् कारसंयमयोः स्त्रियाम् ।ध्यानसंनहनोपाययुक्तिविस्रब्धघातिषु ॥ १९८३ ॥
4.1.1983 · p. 241
अनुष्टुप्
प्राप्तौ च संगतौ योगो यासो दुःस्पर्शयत्नयोः ।गमने वर्तने यात्रा यानमश्वादिके गतौ ॥ १९८४ ॥
4.1.1984 · p. 241
अनुष्टुप्
रसो रागे विषे वीर्ये शृङ्गारादौ पराक्रमे ।तक्तादौ पारदे शब्दे रेतस्यास्वादनेऽमृते ॥ १९८५ ॥
4.1.1985 · p. 241
अनुष्टुप्
रतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः ।अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥
4.1.1986 · p. 241
अनुष्टुप्
चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ ।रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥
4.1.1987 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्वा (syllables merged)
रुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः ।रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥
4.1.1988 · p. 242
अनुष्टुप्
रागोऽलक्तेऽनुरागे च त्विषि वर्णान्तरेऽरुणे ।लेपने भोजने लेपो लोकः स्याद्भुवने जने ॥ १९८९ ॥
4.1.1989 · p. 242
अनुष्टुप्
लवो लेशे नृपे च्छेदे लङ्का पूर्भेदचिह्नयोः ।लक्षं शरव्ये संख्यायां लघुस्त्रिषु मनोरमे ॥ १९९० ॥
4.1.1990 · p. 242
अनुष्टुप्
असार इष्टे क्षिप्रार्थेऽप्यगुरौ क्षुल्लकेऽपि च ।लीला क्रीडा विलासश्च लक्ष्म चिह्नवरिष्ठयोः ॥ १९९१ ॥
4.1.1991 · p. 242
अनुष्टुप्
चिह्नमेहनयोर्लिङ्गं वेषे बुद्ध्यादिसंगतौ ।वंशः पृष्ठास्थ्नि नासोर्ध्वास्थ्नीक्षुभेदे कुले गणे ॥ १९९२ ॥
4.1.1992 · p. 242
अनुष्टुप्
वेणौ वेश्मौर्ध्वकाष्ठे च खड्गांशे वाद्यभेदके ।व्रजा गोष्ठाध्वनिवहा गोश्वासे वाहने वहः ॥ १९९३ ॥
4.1.1993 · p. 242
अनुष्टुप्
विधुर्निशाकरे विष्णौ वाज्यश्वे सायके खगे ।वयः क्लीबे खगे प्राये वालः पुच्छे शिरोरुहे ॥ १९९४ ॥
4.1.1994 · p. 242
अनुष्टुप्
वीचिः पङ्क्त्यूर्मिधारासु वीथिः पङ्क्तिः पदव्यपि ।विधाः प्रकारहस्त्यन्नविधानर्द्धिभृतिक्रियाः ॥ १९९५ ॥
4.1.1995 · p. 243
अनुष्टुप्
व्युष्टिः फले समृद्धत्वे वेगः किंपाकरंहसोः ।क्लीबे वारिजले स्त्री तु वारणग्रहणस्थले ॥ १९९६ ॥
4.1.1996 · p. 243
अनुष्टुप्
वीर्यं पराक्रमे शुक्ले वृत्तिर्वर्तनजीवने ।विधिर्ब्रह्मणि दैवे च विधाने कर्मकल्पयोः ॥ १९९७ ॥
4.1.1997 · p. 243
अनुष्टुप्
वेणी तु देवताली स्यात् केशबन्धोऽम्बुसंततिः ।वर्णो विप्रादिशुक्लाद्योर्व्रते गीतिक्रमे कुथे ॥ १९९८ ॥
4.1.1998 · p. 243
अनुष्टुप्
कीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च ।वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥
4.1.1999 · p. 243
अनुष्टुप्
हरे राहौ च वर्चोऽर्चीरूपविड्भाःसु तेजसि ।वरो नावृतिजामात्रोर्देवताभ्यः समीप्सिते ॥ २००० ॥
4.1.2000 · p. 243
अनुष्टुप्
त्रिषु प्राग्रहरे क्लीबे मनागिष्टेऽथ पन्नगे ।दुष्टद्विपे श्वापदे च व्यालः पुंसि शठे त्रिषु ॥ २००१ ॥
4.1.2001 · p. 243
अनुष्टुप्
विश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना ।मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥
4.1.2002 · p. 243
अनुष्टुप्
वार्ता वातिङ्गनोदन्तवाणिज्यादिषु वर्तने ।निःसारारोग्ययोः क्लीबे वृत्तिमन्नीरुजोस्त्रिषु ॥ २००३ ॥
4.1.2003 · p. 243
अनुष्टुप्
वृत्तं तु चरिते पद्ये त्रिष्वतीते च वर्तुले ।वत्सस्तु तर्णके वर्षे पुत्रादौ कुटजे मुनौ ॥ २००४ ॥
4.1.2004 · p. 244
अनुष्टुप्
वाले च वक्षसि त्वस्त्री वृषोक्ष्णि सुरनायके ।वासो गन्धे निवासे च वारः पर्यायसंघयोः ॥ २००५ ॥
4.1.2005 · p. 244
अनुष्टुप्
वसु क्लीबे धने तोये योक्त्रांशुज्वलनेषु ना ।वर्षाः प्रावृषि वर्षोऽस्त्री भारताद्यब्दवृष्टिषु ॥ २००६ ॥
4.1.2006 · p. 244
अनुष्टुप्
वाणी वाग्देवतावाचोर्वीतं दुर्गजवाजिनोः ।शङ्खो निधौ ललाटास्थ्नि नागे कम्बौ तु न स्त्रियाम् ॥ २००७ ॥
4.1.2007 · p. 244
अनुष्टुप्
शिवो महेश्वरे शङ्कौ पुमान् क्लीबे तु मङ्गले ।शुद्धे त्रिषु शिवा क्रोष्टाभया शम्यामलक्युमा ॥ २००८ ॥
4.1.2008 · p. 244
अनुष्टुप्
वृत्रारौ कुटजे शक्रः शुको व्याससुते खगे ।शङ्कुः पत्रसिराकीलमेहनेष्वायुधान्तरे ॥ २००९ ॥
4.1.2009 · p. 244
अनुष्टुप्
शेषोऽप्रधानेऽनन्ताख्ये सर्पराजे मधुद्विषः ।अवतारान्तरेऽपत्ये त्रिष्वन्यत्रोपयुक्ततः ॥ २०१० ॥
4.1.2010 · p. 244
अनुष्टुप्
मालाक्षतादिदाने स्त्री शेषा शुक्रोऽनले कवौ ।दक्षिणाग्नौ ज्येष्ठमासे क्लीबे रुक्मेऽप्सु रेतसि ॥ २०११ ॥
4.1.2011 · p. 244
अनुष्टुप्
अक्षिरोगेऽथ शृङ्गोऽस्त्री पर्वताग्रप्रभुत्वयोः ।क्रीडाम्बुयन्त्रे पश्वङ्गे शास्त्रं ग्रन्थनिदेशयोः ॥ २०१२ ॥
4.1.2012 · p. 244
अनुष्टुप्
शम्बस्तु लोहवलये दम्भोलौ मुसलाग्रके ।शीलं वृत्ते स्वभावे च शान्तिः प्रशममङ्गले ॥ २०१३ ॥
4.1.2013 · p. 244
अनुष्टुप्
शष्पकर्दमयोः शादो वेदश्रवणयोः श्रुतिः ।श्लोकस्तु पद्ययशसोः शुण्डा मद्येभहस्तयोः ॥ २०१४ ॥
4.1.2014 · p. 245
अनुष्टुप्
शब्दः कीर्तौ ध्वनौ वाक्ये श्रवणेऽक्षरगीतयोः ।स्यादध्वदेयजामातृदेययोः शुल्कमस्त्रियाम् ॥ २०१५ ॥
4.1.2015 · p. 245
अनुष्टुप्
शारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् ।शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥
4.1.2016 · p. 245
अनुष्टुप्
शुचिर्मासे जातवेदस्युपधाशुद्धमन्त्रिणि ।त्रिषु शुद्धे सिते शाला मन्दिरस्कन्धशाखयोः ॥ २०१७ ॥
4.1.2017 · p. 245
अनुष्टुप्
स्यात् त्रिष्वाकर्णिते क्लीबे शास्त्रावधृतयोः श्रुतम् ।सर्गस्तु निश्चयेऽध्याये स्वभावोत्साहसृष्टिषु ॥ २०१८ ॥
4.1.2018 · p. 245
अनुष्टुप्
स्त्री सिन्धुरापगायां ना देशभेदसमुद्रयोः ।संधिः सुरुङ्गानाट्याङ्गरन्ध्रसंश्लेषयोनिषु ॥ २०१९ ॥
4.1.2019 · p. 245
अनुष्टुप्
सालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे ।सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥
4.1.2020 · p. 245
अनुष्टुप्
द्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः ।स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥
4.1.2021 · p. 245
अनुष्टुप्
सत्यं तु शपथे तथ्ये परमार्थेऽभिधेयवत् ।स्वरोऽकाराद्युदात्तादिषड्जादिषु जनस्वने ॥ २०२२ ॥
4.1.2022 · p. 245
अनुष्टुप्
स्वामी षडानने पत्यौ स्वरुर्यूपांशवज्रयोः ।स्याज्जाड्यस्थूणथोः स्तम्भः सुतः सोमरसेऽपि च ॥ २०२३ ॥
4.1.2023 · p. 246
अनुष्टुप्
मृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः ।संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥
4.1.2024 · p. 246
अनुष्टुप्
संज्ञासंभाषणज्ञानक्रियाकारेषु तोषणे ।बले स्थिरांशे सारो ना धने न स्त्री वरेऽर्थवत् ॥ २०२५ ॥
4.1.2025 · p. 246
अनुष्टुप्
प्रतिज्ञानेऽवधौ संधा ज्ञानमर्यादयोः स्थितिः ।संज्ञा नाम्न्यर्कभार्यायां ज्ञाने हस्तादिसूचने ॥ २०२६ ॥
4.1.2026 · p. 246
अनुष्टुप्
सत्रं यज्ञे सदा दाने वनेऽन्नार्पणवेश्मनि ।हंसोऽर्के विहगे विष्णौ जीवे श्वेतवृषे स्मरे ॥ २०२७ ॥
4.1.2027 · p. 246
अनुष्टुप्
निःसपत्ननृपे भिक्षौ हीरः पन्नगसिंहयोः ।विष्णुसिंहार्कचन्द्रेन्द्रयमानिलशुकादिषु ॥ २०२८ ॥
4.1.2028 · p. 246
अनुष्टुप्
कपिभेकांशुवाहेषु हरिर्ना पिङ्गले त्रिषु ।हव आह्वानमखयोर्हेतुः कारणजन्मनोः ॥ २०२९ ॥
4.1.2029 · p. 246
अनुष्टुप्
हरिदर्कहये वर्णे पुंसि स्यात् ककुभि स्त्रियाम् ।हेतिः स्त्रीपुंसयोर्ज्वाले किरणायुधयोरपि ॥ २०३० ॥
4.1.2030 · p. 246
अनुष्टुप्
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरेऽनेकार्थाधिकारे द्व्यक्षराध्यायः ॥
त्र्यक्षराध्यायः
अर्जुनः फल्गुने वृक्षे मातुरेकसुते सिते ।सहस्रबाहौ दृग्रोगे क्लीबे तृणसुवर्णयोः ॥ २०३१ ॥
4.1.2031 · p. 247
अनुष्टुप्
अर्जुनी गवि नद्यां स्यादनूरौ भास्करेऽरुणः ।अनन्ता भूरनन्तं खमनन्तो हरिशेषयोः ॥ २०३२ ॥
4.1.2032 · p. 247
अनुष्टुप्
केयूरे त्वङ्गदं क्लीबे पुंसि बालिन आत्मजे ।अञ्जनं कज्जले ना तु दिग्गजे कपिपुङ्गवे ॥ २०३३ ॥
4.1.2033 · p. 247
अनुष्टुप्
स्त्री कलत्रे केसरिणो मालिन्ये वाच्यलिङ्गकम् ।प्रत्ययोऽतिक्रमे दण्डे मरणे कृच्छ्रदोषयोः ॥ २०३४ ॥
4.1.2034 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
अरिष्टं सूतिकागारे मद्ये ताम्रे शुभाशुभे ।कालशेये मृत्युचिह्ने काकनिम्बासुरेषु ना ॥ २०३५ ॥
4.1.2035 · p. 247
अनुष्टुप्
अमृतामलकी पथ्या गुलूची गोस्तनी सुरा ।अमृतं हेम्नि देवान्ने यज्ञशेषे रसायने ॥ २०३६ ॥
4.1.2036 · p. 247
अनुष्टुप्
अयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः ।अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥
4.1.2037 · p. 247
अनुष्टुप्
अन्तरं परिधानीयबाह्यस्वीयेषु वाच्यवत् ।क्लीबेऽवसरतादर्थ्यमध्यान्तर्धान्तरात्मसु ॥ २०३८ ॥
4.1.2038 · p. 247
अनुष्टुप्
अवकाशेऽवधौ भेदे विनार्थच्छिद्रयोरपि ।अपानः पुंसि देहस्थवायौ पायौ नपुंसके ॥ २०३९ ॥
4.1.2039 · p. 248
अनुष्टुप्
ब्रह्मण्यव्यक्तमस्पष्टे त्रिषु स्यात् सौम्यमन्दयोः ।अलसोऽथाङ्गजः कामे प्राणादौ तनये रुजि ॥ २०४० ॥
4.1.2040 · p. 248
अनुष्टुप्
अभिख्या त्विड्यशोनामस्वयनं नरके पथि ।सूर्योदग्दक्षिणे यानेऽप्यलीकं त्वप्रियानृते ॥ २०४१ ॥
4.1.2041 · p. 248
अनुष्टुप्
अण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे ।अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥
4.1.2042 · p. 248
अनुष्टुप्
अक्षरः पुरुषे ब्रह्मवर्णनिःश्रेयसेऽक्षरम् ।आलोकौ दर्शनद्योतावाहवौ समराध्वरौ ॥ २०४३ ॥
4.1.2043 · p. 248
अनुष्टुप्
आम्नायः संप्रदायेऽपि वेदाध्ययनयोरपि ।आकार इङ्गिताकृत्योरागमः श्रुतिशास्त्रयोः ॥ २०४४ ॥
4.1.2044 · p. 248
अनुष्टुप्
आसारोऽतिमहावृष्टौ प्रसारे च सुहृद्बले ।तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम् ॥ २०४५ ॥
4.1.2045 · p. 248
अनुष्टुप्
आशयो हृदये ज्ञानेऽभिप्राये कौतुकेऽपि च ।प्रभावागामिसमयदैर्घ्येष्वायतिरागमे ॥ २०४६ ॥
4.1.2046 · p. 248
अनुष्टुप्
आसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः ।स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥
4.1.2047 · p. 248
अनुष्टुप्
आतङ्को भीतिरुक्तापेष्वामोदो मुत्सुगन्धयोः ।श्रोण्यां चारोह आवापो न्यास आवालभूषयोः ॥ २०४८ ॥
4.1.2048 · p. 249
अनुष्टुप्
तदात्वे पात आपात आशुगोऽर्केषुवायुषु ।आयोगो व्यापृतौ गन्धमाल्योपहरणेऽपि च ॥ २०४९ ॥
4.1.2049 · p. 249
अनुष्टुप्
भक्षणेऽन्धसि चाहार आघातः सीमघातयोः ।आक्रन्दः क्रन्दने घोरसमरे निन्दनेऽपि च ॥ २०५० ॥
4.1.2050 · p. 249
अनुष्टुप्
आलवालेऽधिकरणे स्यादाधारोऽम्बुबन्धने ।आकर्षः शारिफलकद्यूताकृष्टिषु पाशके ॥ २०५१ ॥
4.1.2051 · p. 249
अनुष्टुप्
आनर्तो देशभेदे स्यान्नृत्तवेश्मनि संयुगे ।आशीरः पावके सूर्ये स्यात् क्षीरविकृतावपि ॥ २०५२ ॥
4.1.2052 · p. 249
अनुष्टुप्
इषीकास्त्रे तृणेऽपि स्यादिल्वलः पुंसि दानवे ।तारकारिवल्वला स्त्रीत्व ईश्वरोऽधिपतौ हरे ॥ २०५३ ॥
4.1.2053 · p. 249
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उदान उदरावर्ते फणिवायुप्रभेदयोः ।उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृतावपि ॥ २०५४ ॥
4.1.2054 · p. 249
अनुष्टुप्
उदर्क उत्तरे काले स्यादुत्तरफलेऽपि च ।उपला स्त्री दृषत्पुत्रे मणिपाषाणयोः पुमान् ॥ २०५५ ॥
4.1.2055 · p. 249
अनुष्टुप्
ऊर्णायुरूर्णनाभौ स्यान्मेषे तल्लोमकम्बले ।ऋषभो गोवृषे श्रोत्ररन्ध्रे श्रेष्ठे स्वरे मुनौ ॥ २०५६ ॥
4.1.2056 · p. 249
अनुष्टुप्
कलङ्कोऽङ्केऽपवादे च कलिङ्गः खगदेशयोः ।करेणुर्ना गजे स्त्री तु करिण्यामथ कञ्चुकः ॥ २०५७ ॥
4.1.2057 · p. 250
अनुष्टुप्
वारवाणेऽहिनिर्मोके कर्णिका कर्णभूषणे ।करिहस्ताङ्गुलौ पद्मबीजे कमलमम्बुजे ॥ २०५८ ॥
4.1.2058 · p. 250
अनुष्टुप्
सलिले करवालादेर्हेमाद्यैश्चित्रिताजिने ।कमला श्रीः कपर्दस्तु जटाजूटे वराटके ॥ २०५९ ॥
4.1.2059 · p. 250
अनुष्टुप्
क्षुद्रशत्रौ द्रुमाङ्के च रोमहर्षे च कण्टकः ।भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ २०६० ॥
4.1.2060 · p. 250
अनुष्टुप्
गुग्गुलूलूकशक्रर्षिव्यालग्राहिषु कौशिकः ।कृतान्तो दैवसिद्धान्तयमाकुशलकर्मसु ॥ २०६१ ॥
4.1.2061 · p. 250
अनुष्टुप्
कलापो भूषणे काञ्च्यां समूहे बर्हतूणयोः ।कमण्डलौ च दाडिम्यां करको भूम्नि तु स्त्रियाम् ॥ २०६२ ॥
4.1.2062 · p. 250
अनुष्टुप्
वर्षोपलेषु करकाः कलत्रं श्रोणिभार्ययोः ।श्वभ्रे क्लीबस्तुषाग्नौ ना कुकूलमथ कौतुकम् ॥ २०६३ ॥
4.1.2063 · p. 250
अनुष्टुप्
कुतूहले हस्तसूत्रे कल्याणं हेम्नि मङ्गले ।कुण्डलं कर्णभूषायां चक्रे पन्नगवेष्टने ॥ २०६४ ॥
4.1.2064 · p. 250
अनुष्टुप्
अस्त्री वृषाङ्गे प्राधान्ये ककुदो राजलक्षणे ।पुंसीशुभेदे कान्तारः क्लीबे वनदुरध्वनोः ॥ २०६५ ॥
4.1.2065 · p. 250
अनुष्टुप्
कदर्ये त्रिषु कीनाशः कुष्यध्यक्षे यमे नरि ।काके च करिगण्डे च करटः कुहरं रते ॥ २०६६ ॥
4.1.2066 · p. 250
अनुष्टुप्
विवरे शैलदर्यां च कृपीटमुदरेऽम्भसि ।दिग्गजे कुमुदः शाखामृगपन्नगमुख्ययोः ॥ २०६७ ॥
4.1.2067 · p. 251
अनुष्टुप्
कैरवे कुमुदं क्लीबे कदली मृगरम्भयोः ।कूर्चिका क्षीरविकृतौ सूचीतूलिकयोरपि ॥ २०६८ ॥
4.1.2068 · p. 251
अनुष्टुप्
कबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् ।कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥
4.1.2069 · p. 251
अनुष्टुप्
कृतौ विवरणे श्लोके यातनायां च कारिका ।कालिका घनजालेऽपि कमठो मुनिकूर्मयोः ॥ २०७० ॥
4.1.2070 · p. 251
अनुष्टुप्
कैतवं कपटे द्यूते कारणं हेतुजन्मनोः ।बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥
4.1.2071 · p. 251
अनुष्टुप्
नाट्यभेदेन्द्रियध्यानस्पृष्टाद्युञ्चारणेषु च ।गीतके कर्मणि ज्ञाने करणं द्वादशस्वपि ॥ २०७२ ॥
4.1.2072 · p. 251
अनुष्टुप्
काञ्चनं हेम्नि वृक्षे तु काञ्चनः काञ्चनी निशा ।क्वाथे कुथे कषायोऽस्त्री निर्यासे सौरभे रसे ॥ २०७३ ॥
4.1.2073 · p. 251
अनुष्टुप्
अस्त्री कशिपु वस्त्रेऽन्ने शय्यायां तद्द्वयेऽपि च ।कुमारः षण्मुखे बाले युवराजे सितद्रुमे ॥ २०७४ ॥
4.1.2074 · p. 251
अनुष्टुप्
कुमारी चण्डिका कन्या सहा सुदुहितर्यपि ।कुतपो भागिनेयार्कगोतिथिब्राह्मणेषु ना ॥ २०७५ ॥
4.1.2075 · p. 251
अनुष्टुप्
अस्त्री त्वह्नोऽष्टमे भागे कर्बुरः पुंसि राक्षसे ।वर्णे च कर्बुरं हेम्नि करीरस्तु घटे पुमान् ॥ २०७६ ॥
4.1.2076 · p. 251
अनुष्टुप्
वंशाङ्कुरे हस्तिदन्तमूलभागेऽपि न स्त्रियाम् ।यज्ञायुधे कर्परे च कपालं पुंनपुंसकम् ॥ २०७७ ॥
4.1.2077 · p. 252
अनुष्टुप्
निश्चिते केवलं क्लीबे वाच्यवत्त्वेककृत्स्नयोः ।कुशलं मङ्गले पुण्ये निपुणक्षमयोस्त्रिषु ॥ २०७८ ॥
4.1.2078 · p. 252
अनुष्टुप्
कुहनो मूषिके दम्भे कुद्दालो युगपत्रके ।खनित्रभेदे सिंहादिस्कन्धरोम्णि तु केसरः ॥ २०७९ ॥
4.1.2079 · p. 252
अनुष्टुप्
बकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः ।कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥
4.1.2080 · p. 252
अनुष्टुप्
कुम्भीरस्तस्करे नक्रे क्षवथुः क्षवकासयोः ।कलहो द्वन्द्वरणयोः कर्परोऽग्निकपालयोः ॥ २०८१ ॥
4.1.2081 · p. 252
अनुष्टुप्
क्षारको मत्स्यपक्ष्यादिपिटके पुष्पजालके ।कुररः शैलखगयोः कुन्नानं कुण्डशिक्ययोः ॥ २०८२ ॥
4.1.2082 · p. 252
अनुष्टुप्
खिङ्खिरो वरुणे क्रोष्टौ खेचरोर्कादिवातयोः ।पूगे तदीयनिर्यासे खपुरः पूगवेष्टके ॥ २०८३ ॥
4.1.2083 · p. 252
अनुष्टुप्
खनको मूषिके कोले ग्रामणीर्नापितेऽपि च ।गृहिणी देहली जाया काञ्चिकं गृहकारिका ॥ २०८४ ॥
4.1.2084 · p. 252
अनुष्टुप्
गणिका करिणी वेश्या यूथिका कूटकारिका ।गोपतिर्वृषभे प्राज्ञे सूर्ये भूभृति वज्रिणि ॥ २०८५ ॥
4.1.2085 · p. 252
अनुष्टुप्
मत्तेभे गर्जितः पुंसि क्लीबे मेघेभनादयोः ।गण्डपूर्तौ तु गण्डूषः प्रसृते करिपुष्करे ॥ २०८६ ॥
4.1.2086 · p. 253
अनुष्टुप्
गन्धर्वो गायके सप्तौ देवयोनौ मृगान्तरे ।चामीवरे तु गाङ्गेयं गाङ्गेयः स्कन्दभीष्मयोः ॥ २०८७ ॥
4.1.2087 · p. 253
अनुष्टुप्
गरुत्मान् विहगे तार्क्ष्ये घटिका नाडिका घटः ।चञ्चलो वाच्यलिङ्गे स्यात्तरले तडिति स्त्रियाम् ॥ २०८८ ॥
4.1.2088 · p. 253
अनुष्टुप्
चपले त्रिषु केशे ना चिकुरश्चपलो रसे ।तडिति स्त्री द्रुते क्लीबश्चत्वरस्तु चतुष्पथे ॥ २०८९ ॥
4.1.2089 · p. 253
अनुष्टुप्
स्थण्डिलाङ्गणयोः क्लीबे चतुरः कुशलेऽर्थवत् ।चतुरं गजशालायां चतुरा स्त्री मृगान्तरे ॥ २०९० ॥
4.1.2090 · p. 253
अनुष्टुप्
जगती भुवने भूमौ लताच्छन्दोविशेषयोः ।अगलो मोदके मद्ये जरठः कठिनेऽपि च ॥ २०९१ ॥
4.1.2091 · p. 253
अनुष्टुप्
श्रमणे जीवयितरि वृद्धिजीविनि जीवकः ।जर्जरस्त्रिषु जीर्णेऽपि जनकोऽपि नृपान्तरे ॥ २०९२ ॥
4.1.2092 · p. 253
अनुष्टुप्
अल्पाम्बुद्रुगिरौ देशे देशभेदेऽपि जाङ्गलः ।जाङ्गलं पिशितेऽथ स्याज्जटालो बहुपादपि ॥ २०९३ ॥
4.1.2093 · p. 253
अनुष्टुप्
जीमूतो जलदे शैले जम्बूकः क्रोष्टुपाशिनोः ।जामाता तु श्वेततिले जम्बालौ पङ्कशैवलौ ॥ २०९४ ॥
4.1.2094 · p. 254
अनुष्टुप्
झल्लरी वाद्यभेदे स्याच्छत्रान्तालम्बिवाससि ।हारमध्यमणौ पुंसि तरलस्त्रिषु चञ्चले ॥ २०९५ ॥
4.1.2095 · p. 254
अनुष्टुप्
तरणिः स्त्री हविर्मन्थे नावि पुंसि तु भास्करे ।दृङ्मध्ये स्त्री पुमान् दैत्ये नक्षत्रे तारकं न ना ॥ २०९६ ॥
4.1.2096 · p. 254
अनुष्टुप्
त्रिधामा दहने विष्णौ त्रिशङ्कुरुडुतार्क्ष्ययोः ।एरण्डे यूनि तरुणस्तरुणी युवतिः सहा ॥ २०९७ ॥
4.1.2097 · p. 254
अनुष्टुप्
तलिमं कुट्टिमे तल्पे तमोनुत्तेजसां त्रये ।स्वर्गेऽन्तरिक्षे त्रिदिवस्तृणतास्त्रतृणत्वयोः ॥ २०९८ ॥
4.1.2098 · p. 254
अनुष्टुप्