कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुण्ड्र

puṇḍraपुं · masc.

In 17 kośas: 20 synonym verses, 9 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.653 · p. 28
तिलके तमालपत्त्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.541 · p. 61
तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।रचिता ललाटपट्टे ललाटिका कथ्यते रेखा ॥ ५४१ ॥
आर्या
genderक्लीneut.
पुण्ड्रः पौण्डः पुण्ड्रकश्च पौण्ड्रकश्च समा इमाः ।कान्तारकश्च कान्तारः श्यामाकः श्यामकः समौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.20 · p. 134
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ ।शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.105 · p. 260
दृढप्ररोहः पुण्ड्रस्तु भिदुरो ह्रस्वपर्णकः ।महावरोहोऽपि जटी मङ्गलच्छाय इत्यपि ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.60 · p. 467
पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि ।खलोल्लोलपोटगलरुण्डोलानां … ॥ ६० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 168
प्रपौण्डरीकं पुण्ड्रं च पुण्डर्यं पुण्डरीयकम् ।श्रीपुष्पं च सुपुष्पं च चक्षुष्यं साधुनाम च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 229
पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः ।तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.20 · p. 96
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
उपजातिः
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.113 · p. 66
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.304 · p. 139
[76] चित्रं तमालपत्रं च तिलकः पुण्ड्र एव सः ।उत्तंसशेखरापीडावतंसाः शिरसः स्रजि ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.19 · p. 213
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.46 · p. 24
ललामकं ललाटस्थं कर्णपूरं तु कर्णगम् ।तिलकं तमालपत्रं चित्रं पुण्ड्रं विशेषकम् ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1059 · p. 163
चित्रं च चित्रकं पुण्ड्रः तिलकं च विशेषकः ।पुनस्तमालपत्रं स्यात् केशरादिसमाञ्चितम् ॥ १०५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2155 · p. 354
कान्तारः कोषकारश्च पुण्ड्रपुण्ड्रकपौण्ड्रकाः ॥ २१५५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.305 · p. 79
कोशकारः कोषकारः रसाल इक्षुरोऽपि च ।इक्षुभेदाश्च पुण्ड्रः स्यात् पुण्ड्रकः पौण्ड्रकोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.274 · p. 240
नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः ।इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥ २७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.376 · p. 50
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.7 · p. 31
मध्यदेशोऽथ पुण्ड्राः स्युर्वरेन्द्री गौडनीवृतिः ।प्रभासः सोमतीर्थं स्यादन्तर्वेदी कुशस्थली ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.30 · p. 37
विदेहास्तीरभुक्तिः स्त्री स्रावस्ती तु पुरंजकाः ।राढा तु मुह्माः पुण्ड्रास्तु वरेंद्री पुण्ड्रलक्षणा ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.14 · p. 181
पुण्ड्रश्चित्रप्रभेदः स्यात्पुण्ड्राञ्जनपदान्विदुः ।पुण्ड्र इक्षुप्रभेदे च पुण्ड्रोऽतिमुक्तपादपः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.55 · p. 310
क्लीबे तु काष्ठे च घृते च दुःखे-ऽथौड्रो जने स्यादपि देशभेदे ।जपातरौ पुण्ड्रमुशन्ति दैत्य-[49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 ज (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.56 · p. 310
चित्रे कृमौ देशविशेषके चस्यात्पुण्डरीकेऽप्यथ वज्रमस्त्री ।स्याद्धीरके चाप्यशनावथाद्येयोगान्तरे बालक आमलक्याम् ॥ ५६ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.786 · p. 110
अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे ।पुण्ड्रं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.787 · p. 110
पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूम्नि च ।वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ॥ ७८७ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.296 · p. 199
पुण्ड्रः कीटे च वासन्त्यां चित्रके तिलकेऽपि च ।इक्षुभेदे पुण्डरीके पशुर्मेषे मृगान्तरे ॥ २९६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.382 · p. 35
पुण्ड्रं प्रपौण्ड्ररीके स्यात्पुण्ड्रो व्रीहीक्षुभेदयोः ।अतिमुक्ते पुण्डरीके वरस्तिन्दुपियालयोः ॥ ३८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.32 · p. 267
पुण्ड्रः स्यान्माधवीवल्ल्यां दैत्यभेदेक्षुभेदयोः ।कीटे चित्रे पुण्डरीके ना पुं भूम्नि च निवृति ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1949 · p. 237
देशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके ।पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥
अनुष्टुप्

पुण्ड्र as a meaning in nānārtha verses