कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ईषीका

īṣīkāस्त्री · fem.

In 5 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.920 · p. 36
व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥ ९२० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
इषिका स्यादीषिका च ईषीका च निगद्यते ।शारिः शारी वेधनिका वेधनी च निगद्यते ॥ २५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.165 · p. 107
कर्णमूलं चूडिका स्यादीषीका त्वक्षिकूटकम् ।अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥ १६५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.70 · p. 209
स्यादीषीका तूलिकापि शाणस्तु निकषः कषः ।पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1555 · p. 248
काष्ठलौहशलाका स्यादोषीका तूलिकेषिका ॥ १५५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2217 · p. 363
ईषिका पुनरीषीका चेति नामानि सन्ति वै ।अपाङ्गदेशो निर्याणं स्यात् गण्डस्तु कटस्तथा ॥ २२१७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.275 · p. 240
कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया ।यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥
अनुष्टुप्
genderस्त्रीfem.