कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्याण

niryāṇaक्ली · neut.

In 13 kośas: 13 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1225 · p. 47
अपाङ्गदेशो निर्याणं गण्डस्तु करटः कटः ॥ १२२५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.38
अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.217 · p. 27
दानं मदो विषाणौ च दशनौ स्कन्ध आसनम् ।अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ २१७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.165 · p. 107
कर्णमूलं चूडिका स्यादीषीका त्वक्षिकूटकम् ।अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.200 · p. 253
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.267 · p. 85
महोदयापवर्गौ च निर्वाणं सर्वदुःखहृत् ।निःश्रेयसं च निर्याणं मोक्षनामान्यमूनि हि ॥ २६७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.236 · p. 17
धनुर्धनो धनुर्जीवो धानुष्कश्चापजीवनः ।निर्याणं गमनं यात्रा प्रस्थानमभिषेणनम् ॥ २३६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.49 · p. 8
निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः ।निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2217 · p. 363
ईषिका पुनरीषीका चेति नामानि सन्ति वै ।अपाङ्गदेशो निर्याणं स्यात् गण्डस्तु कटस्तथा ॥ २२१७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.234 · p. 127
निर्नायनन्तु निर्याणं मतङ्गापाङ्गदेशके ।चूलिका कर्णमूले स्याद् वाहित्थं कुम्भयोरधः ।तदधः प्रतिमानं स्यात् स्कन्धदेशे तथासनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.699 · p. 89
पद्मानि स्युर्बिन्दवोऽन्नं विधानंशुण्डा हस्तश्चूलिका कर्णमूलम् ।स्यान्निर्याणं दृष्युपान्तः करीरंदन्तादिः स्याद्दन्तभागोऽग्रभागः ॥ ६९९ ॥
शालिनी
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.13 · p. 193
निर्याणं स्यान्निर्गमनमंहनं वक्षसा गतिः ।प्रतिबन्धः प्रतिष्टंभः सम्बन्धः प्राप्तिरापनम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.13 · p. 52
कल्याणं मङ्गलं विद्यात्काञ्चनं यदक्षयम् ।निर्याणं द्विरदापाङ्गे मोक्षे निर्गमनेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.31 · p. 198
समञ्जसे निर्मितिसारयोश्चदैवेऽपि निर्माणमुशन्ति विज्ञाः ।अपाङ्गदेशे करिणां च मोक्षेनिर्याणमुक्तं किल निर्गमेऽपि ॥ ३१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.44 · p. 36
खण्डनेऽप्यवदाने च निर्याणं त्वपि हस्तिनः ।नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.42 · p. 210
निर्याणं क्लीबलिङ्गं स्यान्मतङ्गापाङ्गमोक्षयोः ।निर्माणं निर्मितौ सारे परिमाणे हमञ्जसे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2116 · p. 256
वारणापाङ्गदेशे स्यान्निर्याणं निर्गमे मृतौ ।निदाघ ऊष्मणि ग्रीष्मे स्वेदे तापे च घर्मवत् ॥ २११६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.19 · p. 251
नाभीलं नाभिगन्धश्च वंक्षणं च वरस्त्रियाः ।निर्याणं हस्तिनेत्रान्ते मरणे निर्गमेऽपि च ॥ १९ ॥
अनुष्टुप्

निर्याण as a meaning in nānārtha verses